अध्यायः ३६
ब्रह्मोवाच:
विस्तृते हिमवत्पृष्ठे विमानशतसङ्कुले । अभवत् स तु कालेन शैलपुत्र्याः स्वयंवरः
॥१॥अथ पर्वतराजोऽसौ हिमवान् ध्यानकोविदः । दुहितुर् देवदेवेन ज्ञात्वा तद् अभिमन्त्रितम्
॥२॥जानन्न् अपि महाशैलः समयारक्षणेप्सया । स्वयंवरं ततो देव्याः सर्वलोकेष्व् अघोषयत्
॥३॥देवदानवसिद्धानां सर्वलोकनिवासिनाम् । वृणुयात् परमेशानं समक्षं यदि मे सुता
॥४॥तद् एव सुकृतं श्लाघ्यं ममाभ्युदयसम्मतम् । इति सञ्चिन्त्य शैलेन्द्रः कृत्वा हृदि महेश्वरम्
॥५॥आब्रह्मकेषु देवेषु देव्याः शैलेन्द्रसत्तमः । कृत्वा रत्नाकुलं देशं स्वयंवरम् अचीकरत्
॥६॥अथैवम् आघोषितमात्र एव । स्वयंवरे तत्र नगेन्द्रपुत्र्याः । देवादयः सर्वजगन्निवासाः । समाययुस् तत्र गृहीतवेशाः
॥७॥प्रफुल्लपद्मासनसन्निविष्टः । सिद्धैर् वृतो योगिभिर् अप्रमेयैः । विज्ञापितस् तेन महीध्रराज्ञा । आगतस् तदाहं त्रिदिवैर् उपेतः
॥८॥अक्ष्णां सहस्रं सुरराट् स बिभ्रद् । दिव्याङ्गहारस्रगुदाररूपः । ऐरावतं सर्वगजेन्द्रमुख्यं । स्रवन्मदासारकृतप्रवाहम्
॥९॥आरुह्य सर्वामरराट् स वज्रं । बिभ्रत् समागात् पुरतः सुराणाम् । तेजःप्रभावाधिकतुल्यरूपी । प्रोद्भासयन् सर्वदिशो विवस्वान्
॥१०॥हैमं विमानं सवलत्पताकम् । आरूढ आगात् त्वरितं जवेन । मणिप्रदीप्तोज्ज्वलकुण्डलश् च । वह्न्यर्कतेजःप्रतिमे विमाने
॥११॥समभ्यगात् कश्यपसूनुर् एक । आदित्यमध्याद् भगनामधारी । तेजोबलाज्ञासदृशप्रभावः
॥१२॥दण्डं समागृह्य कृतान्त आगाद् । आरुह्य भीमं महिषं जवेन । महामहीध्रोच्छ्रयपीनगात्रः । स्वर्णादिरत्नाञ्चितचारुवेशः
॥१३॥समीरणः सर्वजगद्विभर्ता । विमानम् आरुह्य समभ्यगाद् धि । सन्तापयन् सर्वसुरासुरेशांस् । तेजोधिकस् तेजसि सन्निविष्टः
॥१४॥वह्निः समभ्येत्य सुरेन्द्रमध्ये । ज्वलन् प्रतस्थौ वरवेशधारी । नानामणिप्रज्वलिताङ्गयष्टिर् । जगद्वरं दिव्यविमानम् अग्र्यम्
॥१५॥आरुह्य सर्वद्रविणाधिपेशः । स राजराजस् त्वरितोऽभ्यगाच् च । आप्याययन् सर्वसुरासुरेशान् । कान्त्या च वेशेन च चारुरूपः
॥१६॥ज्वलन् महारत्नविचित्ररूपं । विमानम् आरुह्य शशी समायात् । श्यामाङ्गयष्टिः सुविचित्रवेशः । सर्वाङ्ग आबद्धसुगन्धिमाल्यः
॥१७॥तार्क्ष्यं समारुह्य महीध्रकल्पं । गदाधरोऽसौ त्वरितः समेतः । अथाश्विनौ चापि भिषग्वरौ द्वाव् । एकं विमानं त्वरयाधिरुह्य
॥१८॥मनोहरौ प्रज्वलचारुवेशौ । आजग्मतुर् देववरौ सुवीरौ । सहस्रनागः स्फुरदग्निवर्णं । बिभ्रत् तदानीं ज्वलनार्कतेजाः
॥१९॥सार्धं स नागैर् अपरैर् महात्मा । विमानम् आरुह्य समभ्यगाच् च । दितेः सुतानां च महासुराणां । वह्न्यर्कशक्रानिलतुल्यभासाम्
॥२०॥वरानुरूपं प्रविधाय वेशं । वृन्दं समागात् पुरतः सुराणाम् । गन्धर्वराजः स च चारुरूपी । दिव्याङ्गदो दिव्यविमानचारी
॥२१॥गन्धर्वसङ्घैः सहितोऽप्सरोभिः । शक्राज्ञया तत्र समाजगाम । अन्ये च देवास् त्रिदिवात् तदानीं । पृथक् पृथक् चारुगृहीतवेशाः
॥२२॥आजग्मुर् आरुह्य विमानपृष्ठं । गन्धर्वयक्षोरगकिन्नराश् च । शचीपतिस् तत्र सुरेन्द्रमध्ये । रराज राजाधिकलक्ष्यमूर्तिः
॥२३॥आज्ञाबलैश्वर्यकृतप्रमोदः । स्वयंवरं तं समलञ्चकार । हेतुस् त्रिलोकस्य जगत्प्रसूतेर् । माता च तेषां ससुरासुराणाम्
॥२४॥पत्नी च शम्भोः पुरुषस्य धीमतो । गीता पुराणे प्रकृतिः परा या । दक्षस्य कोपाद् धिमवद्गृहं सा । कार्यार्थमायात् त्रिदिवौकसां हि
॥२५॥विमानपृष्ठे मणिहेमजुष्टे । स्थिता वलच्चामरवीजिताङ्गी । सर्वर्तुपुष्पां सुसुगन्धमालां । प्रगृह्य देवी प्रसभं प्रतस्थे
॥२६॥ब्रह्मोवाच:
मालां प्रगृह्य देव्यां तु स्थितायां देवसंसदि । शक्राद्यैर् आगतैर् देवैः स्वयंवर उपागते
॥२७॥देव्या जिज्ञासया शम्भुर् भूत्वा पञ्चशिखः शिशुः । उत्सङ्गतलसंसुप्तो बभूव सहसा विभुः
॥२८॥ततो ददर्श तं देवी शिशुं पञ्चशिखं स्थितम् । ज्ञात्वा तं समवध्यानाज् जगृहे प्रीतिसंयुता
॥२९॥अथ सा शुद्धसङ्कल्पा काङ्क्षितं प्राप्य सत्पतिम् । निवृत्ता च तदा तस्थौ कृत्वा सा हृदि तं विभुम्
॥३०॥ततो दृष्ट्वा शिशुं देवा देव्या उत्सङ्गवर्तिनम् । कोऽयम् अत्रेति सम्मन्त्र्य चुक्रुशुर् भृशमोहिताः
॥३१॥वज्रम् आहारयत् तस्य बाहुम् उत्क्षिप्य वृत्रहा । स बाहुर् उत्थितस् तस्य तथैव समतिष्ठत
॥३२॥स्तम्भितः शिशुरूपेण देवदेवेन शम्भुना । वज्रं क्षेप्तुं न शशाक वृत्रहा चलितुं न च
॥३३॥भगो नाम ततो देव आदित्यः काश्यपो बली । उत्क्षिप्य आयुधं दीप्तं छेत्तुम् इच्छन् विमोहितः
॥३४॥तस्यापि भगवान् बाहुं तथैवास्तम्भयत् तदा । बलं तेजश् च योगश् च तथैवास्तम्भयद् विभुः
॥३५॥शिरः प्रकम्पयन् विष्णुः शङ्करं समवैक्षत । अथ तेषु स्थितेष्व् एवं मन्युमत्सु सुरेषु च
॥३६॥अहं परमसंविग्नो ध्यानम् आस्थाय सादरम् । बुद्धवान् देवदेवेशम् उमोत्सङ्गे समास्थितम्
॥३७॥ज्ञात्वाहं परमेशानं शीघ्रम् उत्थाय सादरम् । ववन्दे चरणं शम्भोः स्तुतवांस् तम् अहं द्विजाः
॥३८॥पुराणैः सामसङ्गीतैः पुण्याख्यैर् गुह्यनामभिः । अजस् त्वम् अजरो देवः स्रष्टा विभुः परापरम्
॥३९॥प्रधानं पुरुषो यस् त्वं ब्रह्म ध्येयं तद् अक्षरम् । अमृतं परमात्मा च ईश्वरः कारणं महत्
॥४०॥ब्रह्मसृक् प्रकृतेः स्रष्टा सर्वकृत् प्रकृतेः परः । इयं च प्रकृतिर् देवी सदा ते सृष्टिकारणम्
॥४१॥पत्नीरूपं समास्थाय जगत्कारणम् आगता । नमस् तुभ्यं महादेव देव्या वै सहिताय च
॥४२॥प्रसादात् तव देवेश नियोगाच् च मया प्रजाः । देवाद्यास् तु इमाः सृष्टा मूढास् त्वद्योगमायया
॥४३॥कुरु प्रसादम् एतेषां यथापूर्वं भवन्त्व् इमे । तत एवम् अहं विप्रा विज्ञाप्य परमेश्वरम्
॥४४॥स्तम्भितान् सर्वदेवांस् तान् इदं चाहं तदोक्तवान् । मूढाश् च देवताः सर्वा नैनं बुध्यत शङ्करम्
॥४५॥गच्छध्वं शरणं शीघ्रम् एनम् एव महेश्वरम् । सार्धं मयैव देवेशं परमात्मानम् अव्ययम्
॥४६॥ततस् ते स्तम्भिताः सर्वे तथैव त्रिदिवौकसः । प्रणेमुर् मनसा शर्वं भावशुद्धेन चेतसा
॥४७॥अथ तेषां प्रसन्नोऽभूद् देवदेवो महेश्वरः । यथापूर्वं चकाराशु देवतानां तनूस् तदा
॥४८॥तत एवं प्रवृत्ते तु सर्वदेवनिवारणे । वपुश् चकार देवेशस् त्र्यक्षं परमम् अद्भुतम्
॥४९॥तेजसा तस्य ते ध्वस्ताश् चक्षुः सर्वे न्यमीलयन् । तेभ्यः स परमं चक्षुः स्ववपुर्दृष्टिशक्तिमत्
॥५०॥प्रादात् परमदेवेशम् अपश्यंस् ते तदा विभुम् । ते दृष्ट्वा परमेशानं तृतीयेक्षणधारिणम्
॥५१॥शक्राद्या मेनिरे देवाः सर्व एव सुरेश्वराः । तस्य देवी तदा हृष्टा समक्षं त्रिदिवौकसाम्
॥५२॥पादयोः स्थापयाम् आस स्रङ्मालाम् अमितद्युतिः । साधु साध्व् इति ते होचुः सर्वे देवाः पुनर् विभुम्
॥५३॥सह देव्या नमश् चक्रुः शिरोभिर् भूतलाश्रितैः । अथास्मिन्न् अन्तरे विप्रास् तम् अहं दैवतैः सह
॥५४॥हिमवन्तं महाशैलम् उक्तवांश् च महाद्युतिम् । श्लाघ्यः पूज्यश् च वन्द्यश् च सर्वेषां त्वं महान् असि
॥५५॥शर्वेण सह सम्बन्धो यस्य तेऽभ्युदयो महान् । क्रियतां चारुर् उद्वाहः किमर्थं स्थीयते परम् । ततः प्रणम्य हिमवांस् तदा मां प्रत्यभाषत
॥५६॥हिमवान् उवाच:
त्वम् एव कारणं देव यस्य सर्वोदये मम । प्रसादः सहसोत्पन्नो हेतुश् चापि त्वम् एव हि । उद्वाहस् तु यदा यादृक् तद् विधत्स्व पितामह
॥५७॥ब्रह्मोवाच:
तत एवं वचः श्रुत्वा गिरिराजस्य भो द्विजाः । उद्वाहः क्रियतां देव इत्य् अहं चोक्तवान् विभुम्
॥५८॥माम् आह शङ्करो देवो यथेष्टम् इति लोकपः । तत्क्षणाच् च ततो विप्रा अस्माभिर् निर्मितं पुरम्
॥५९॥उद्वाहार्थं महेशस्य नानारत्नोपशोभितम् । रत्नानि मणयश् चित्रा हेममौक्तिकम् एव च
॥६०॥मूर्तिमन्त उपागम्य अलञ्चक्रुः पुरोत्तमम् । चित्रा मारकती भूमिः सुवर्णस्तम्भशोभिता
॥६१॥भास्वत्स्फटिकभित्तिश् च मुक्ताहारप्रलम्बिता । तस्मिन् द्वारि पुरे रम्य उद्वाहार्थं विनिर्मिता
॥६२॥शुशुभे देवदेवस्य महेशस्य महात्मनः । सोमादित्यौ समं तत्र तापयन्तौ महामणी
॥६३॥सौरभेयं मनोरम्यं गन्धम् आदाय मारुतः । प्रववौ सुखसंस्पर्शो भवभक्तिं प्रदर्शयन्
॥६४॥समुद्रास् तत्र चत्वारः शक्राद्याश् च सुरोत्तमाः । देवनद्यो महानद्यः सिद्धा मुनय एव च
॥६५॥गन्धर्वाप्सरसः सर्वे नागा यक्षाः सराक्षसाः । औदकाः खेचराश् चान्ये किन्नरा देवचारणाः
॥६६॥तुम्बुरुर् नारदो हाहा हूहूश् चैव तु सामगाः । रम्याण्य् आदाय वाद्यानि तत्राजग्मुस् तदा पुरम्
॥६७॥ऋषयस् तु कथास् तत्र वेदगीतास् तपोधनाः । पुण्यान् वैवाहिकान् मन्त्राञ् जेपुः संहृष्टमानसाः
॥६८॥जगतो मातरः सर्वा देवकन्याश् च कृत्स्नशः । गायन्ति हर्षिताः सर्वा उद्वाहे परमेष्ठिनः
॥६९॥ऋतवः षट् समं तत्र नानागन्धसुखावहाः । उद्वाहः शङ्करस्येति मूर्तिमन्त उपस्थिताः
॥७०॥नीलजीमूतसङ्काशैर् मन्त्रध्वनिप्रहर्षिभिः । केकायमानैः शिखिभिर् नृत्यमानैश् च सर्वशः
॥७१॥विलोलपिङ्गलस्पष्टविद्युल्लेखाविहासिता । कुमुदापीडशुक्लाभिर् बलाकाभिश् च शोभिता
॥७२॥लताद्रुमाद्युद्गतपल्लवा शुभा । शुभाम्बुधाराप्रणयप्रबोधितैर् । महालसैर् भेकगणैश् च नादिता
॥७३॥प्रियेषु मानोद्धतमानसानां । मनस्विनीनाम् अपि कामिनीनाम् । मयूरकेकाभिरुतैः क्षणेन । मनोहरैर् मानविभङ्गहेतुभिः
॥७४॥तथा विवर्णोज्ज्वलचारुमूर्तिना । शशाङ्कलेखाकुटिलेन सर्वतः । पयोदसङ्घातसमीपवर्तिना । महेन्द्रचापेन भृशं विराजिता
॥७५॥विचित्रपुष्पाम्बुभवैः सुगन्धिभिर् । घनाम्बुसम्पर्कतया सुशीतलैः । विकम्पयन्ती पवनैर् मनोहरैः । सुराङ्गनानाम् अलकावलीः शुभाः
॥७६॥गर्जत्पयोदस्थगितेन्दुबिम्बा । नवाम्बुसिक्तोदकचारुदूर्वा । निरीक्षिता सादरम् उत्सुकाभिर् । निश्वासधूम्रं पथिकाङ्गनाभिः
॥७७॥हंसनूपुरशब्दाढ्या समुन्नतपयोधरा । चलद्विद्युल्लताहारा स्पष्टपद्मविलोचना
॥७८॥असितजलदधीरध्वानवित्रस्तहंसा । विमलसलिलधारोत्पातनम्रोत्पलाग्रा । सुरभिकुसुमरेणुकॢप्तसर्वाङ्गशोभा । गिरिदुहितृविवाहे प्रावृड् आविर्बभूव
॥७९॥मेघकञ्चुकनिर्मुक्ता पद्मकोशोद्भवस्तनी । हंसनूपुरनिह्रादा सर्वसस्यदिगन्तरा
॥८०॥विस्तीर्णपुलिनश्रोणी कूजत्सारसमेखला । प्रफुल्लेन्दीवरश्यामविलोचनमनोहरा
॥८१॥पक्वबिम्बाधरपुटा कुन्ददन्तप्रहासिनी । नवश्यामलताश्यामरोमराजिपुरस्कृता
॥८२॥चन्द्रांशुहारवर्गेण कण्ठोरस्थलगामिना । प्रह्लादयन्ती चेतांसि सर्वेषां त्रिदिवौकसाम्
॥८३॥समदालिकुलोद्गीतमधुरस्वरभाषिणी । चलत्कुमुदसङ्घातचारुकुण्डलशोभिनी
॥८४॥रक्ताशोकप्रशाखोत्थपल्लवाङ्गुलिधारिणी । तत्पुष्पसञ्चयमयैर् वासोभिः समलङ्कृता
॥८५॥रक्तोत्पलाग्रचरणा जातीपुष्पनखावली । कदलीस्तम्भवामोरूः शशाङ्कवदना तथा
॥८६॥सर्वलक्षणसम्पन्ना सर्वालङ्कारभूषिता । प्रेम्णा स्पृशति कान्तेव सानुरागा मनोरमा
॥८७॥निर्मुक्तासितमेघकञ्चुकपटा पूर्णेन्दुबिम्बानना । नीलाम्भोजविलोचना रविकरप्रोद्भिन्नपद्मस्तनी । नानापुष्परजःसुगन्धिपवनप्रह्रादनी चेतसां । तत्रासीत् कलहंसनूपुररवा देव्या विवाहे शरत्
॥८८॥अत्यर्थशीतलाम्भोभिः प्लावयन्तौ दिशः सदा । ऋतू हेमन्तशिशिरौ आजग्मतुर् अतिद्युती
॥८९॥ताभ्याम् ऋतुभ्यां सम्प्राप्तो हिमवान् स नगोत्तमः । प्रालेयचूर्णवर्षिभ्यां क्षिप्रं रौप्यहरो बभौ
॥९०॥तेन प्रालेयवर्षेण घनेनैव हिमालयः । अगाधेन तदा रेजे क्षीरोद इव सागरः
॥९१॥ऋतुपार्ययसम्प्राप्तो बभूव स महागिरिः । साधूपचारात् सहसा कृतार्थ इव दुर्जनः
॥९२॥प्रालेयपटलच्छन्नैः शृङ्गैस् तु शुशुभे नगः । छत्त्रैर् इव महाभागैः पाण्डरैः पृथिवीपतिः
॥९३॥मनोभवोद्रेककराः सुराणां । सुराङ्गनानां च मुहुः समीराः । स्वच्छाम्बुपूर्णाश् च तथा नलिन्यः । पद्मोत्पलानां कुसुमैर् उपेताः
॥९४॥विवाहे गुरुकन्याया वसन्तः समगाद् ऋतुः
॥९५॥ईषत्समुद्भिन्नपयोधराग्रा । नार्यो यथा रम्यतरा बभूवुः । नात्युष्णशीतानि पयःसरांसि । किञ्जल्कचूर्णैः कपिलीकृतानि । चक्राह्वयुग्मैर् उपनादितानि । ययुः प्रहृष्टाः सुरदन्तिमुख्याः
॥९६॥प्रियङ्गूश् चूततरवश् चूतांश् चापि प्रियङ्गवः । तर्जयन्त इवान्योन्यं मञ्जरीभिश् चकाशिरे
॥९७॥हिमशृङ्गेषु शुक्लेषु तिलकाः कुसुमोत्कराः । शुशुभुः कार्यम् उद्दिश्य वृद्धा इव समागताः
॥९८॥फुल्लाशोकलतास् तत्र रेजिरे शालसंश्रिताः । कामिन्य इव कान्तानां कण्ठालम्बितबाहवः
॥९९॥तस्मिन्न् ऋतौ शुभ्रकदम्बनीपास् । तालाः स्तमालाः सरलाः कपित्थाः
॥१००॥अशोकसर्जार्जुनकोविदाराः । पुन्नागनागेश्वरकर्णिकाराः । लवङ्गतालागुरुसप्तपर्णा । न्यग्रोधशोभाञ्जननारिकेलाः
॥१०१॥वृक्षास् तथान्ये फलपुष्पवन्तो । दृश्या बभूवुः सुमनोहराङ्गाः । जलाशयाश् चैव सुवर्णतोयाश् । चक्राङ्गकारण्डवहंसजुष्टाः
॥१०२॥कोयष्टिदात्यूहबलाकयुक्ता । दृश्यास् तु पद्मोत्पलमीनपूर्णाः । खगाश् च नानाविधभूषिताङ्गा । दृश्यास् तु वृक्षेषु सुचित्रपक्षाः
॥१०३॥क्रीडासु युक्तान् अथ तर्जयन्तः । कुर्वन्ति शब्दं मदनेरिताङ्गाः । तस्मिन् गिराव् अद्रिसुताविवाहे । ववुश् च वाताः सुखशीतलाङ्गाः
॥१०४॥पुष्पाणि शुभ्राण्य् अपि पातयन्तः । शनैर् नगेभ्यो मलयाद्रिजाताः । तथैव सर्वे ऋतवश् च पुण्याश् । चकाशिरेऽन्योन्यविमिश्रिताङ्गाः
॥१०५॥येषां सुलिङ्गानि च कीर्तितानि । ते तत्र आसन् सुमनोज्ञरूपाः
॥१०६॥समदालिकुलोद्गीतशिलाकुसुमसञ्चयैः । परस्परं हि मालत्यो भावयन्त्यो विरेजिरे
॥१०७॥नीलानि नीलाम्बुरुहैः पयांसि । गौराणि गौरैश् च मृणालदण्डैः । रक्तैश् च रक्तानि भृशं कृतानि । मत्तद्विरेफावलिजुष्टपत्त्रैः
॥१०८॥हैमानि विस्तीर्णजलेषु केषुचिन् । निरन्तरं चारुतराणि केषुचित् । वैदूर्यनालानि सरःसु केषुचित् । प्रजज्ञिरे पद्मवनानि सर्वतः
॥१०९॥वाप्यस् तत्राभवन् रम्याः कमलोत्पलपुष्पिताः । नानाविहङ्गसञ्जुष्टा हैमसोपानपङ्क्तयः
॥११०॥शृङ्गाणि तस्य तु गिरेः कर्णिकारैः सुपुष्पितैः । समुच्छ्रितान्य् अविरलैर् हेमानीव बभुर् द्विजाः
॥१११॥ईषद्विभिन्नकुसुमैः पाटलैश् चापि पाटलाः । सम्बभूवुर् दिशः सर्वाः पवनाकम्पिमूर्तिभिः
॥११२॥कृष्णार्जुना दशगुणा नीलाशोकमहीरुहाः । गिरौ ववृधिरे फुल्लाः स्पर्धयन्तः परस्परम्
॥११३॥चारुरावविजुष्टानि किंशुकानां वनानि च । पर्वतस्य नितम्बेषु सर्वेषु च विरेजिरे
॥११४॥तमालगुल्मैस् तस्यासीच् छोभा हिमवतस् तदा । नीलजीमूतसङ्घातैर् निलीनैर् इव सन्धिषु
॥११५॥निकामपुष्पैः सुविशालशाखैः । समुच्छ्रितैश् चन्दनचम्पकैश् च । प्रमत्तपुंस्कोकिलसम्प्रलापैर् । हिमाचलोऽतीव तदा रराज
॥११६॥श्रुत्वा शब्दं मृदुमदकलं सर्वतः कोकिलानां । चञ्चत्पक्षाः समधुरतरं नीलकण्ठा विनेदुः । तेषां शब्दैर् उपचितबलः पुष्पचापेषुहस्तः । सज्जीभूतस् त्रिदशवनिता वेद्धुम् अङ्गेष्व् अनङ्गः
॥११७॥पटुः सूर्यातपश् चापि प्रायशोऽल्पजलाशयः । देवीविवाहसमये ग्रीष्म आगाद् धिमाचलम्
॥११८॥स चापि तरुभिस् तत्र बहुभिः कुसुमोत्करैः । शोभयाम् आस शृङ्गाणि प्रालेयाद्रेः समन्ततः
॥११९॥तथापि च गिरौ तत्र वायवः सुमनोहराः । ववुः पाटलविस्तीर्णकदम्बार्जुनगन्धिनः
॥१२०॥वाप्यः प्रफुल्लपद्मौघकेसरारुणमूर्तयः । अभवंस् तटसङ्घुष्टफलहंसकदम्बकाः
॥१२१॥तथा कुरबकाश् चापि कुसुमापाण्डुमूर्तयः । सर्वेषु नगशृङ्गेषु भ्रमरावलिसेविताः
॥१२२॥बकुलाश् च नितम्बेषु विशालेषु महीभृतः । उत्ससर्ज मनोज्ञानि कुसुमानि समन्ततः
॥१२३॥इति कुसुमविचित्रसर्ववृक्षा । विविधविहङ्गमनादरम्यदेशाः । हिमगिरितनयाविवाहभूत्यै । षड् उपययुर् ऋतवो मुनिप्रवीराः
॥१२४॥तत एवं प्रवृत्ते तु सर्वभूतसमागमे । नानावाद्यसमाकीर्णे अहं तत्र द्विजातयः
॥१२५॥शैलपुत्रीम् अलङ्कृत्य योग्याभरणसम्पदा । पुरं प्रवेशितवांस् तां स्वयम् आदाय भो द्विजाः
॥१२६॥ततस् तु पुनर् एवेशम् अहं चैवोक्तवान् विभुम् । हविर् जुहोमि वह्नौ ते उपाध्यायपदे स्थितः
॥१२७॥ददासि मह्यं यद्य् आज्ञां कर्तव्योऽयं क्रियाविधिः । माम् आह शङ्करश् चैवं देवदेवो जगत्पतिः
॥१२८॥शिव उवाच:
यद् उद्दिष्टं सुरेशान तत् कुरुष्व यथेप्सितम् । कर्तास्मि वचनं सर्वं ब्रह्मंस् तव जगद्विभो
॥१२९॥ब्रह्मोवाच:
ततश् चाहं प्रहृष्टात्मा कुशान् आदाय सत्वरम् । हस्तं देवस्य देव्याश् च योगबन्धेन युक्तवान्
॥१३०॥ज्वलनश् च स्वयं तत्र कृताञ्जलिपुटः स्थितः । श्रुतिगीतैर् महामन्त्रैर् मूर्तिमद्भिर् उपस्थितैः
॥१३१॥यथोक्तविधिना हुत्वा सर्पिस् तद् अमृतं हविः । ततस् तं ज्वलनं सर्वं कारयित्वा प्रदक्षिणम्
॥१३२॥मुक्त्वा हस्तसमायोगं सहितः सर्वदैवतैः । पुत्रैश् च मानसैः सिद्धैः प्रहृष्टेनान्तरात्मना
॥१३३॥वृत्त उद्वाहकाले तु प्रणम्य च वृषध्वजम् । योगेनैव तयोर् विप्रास् तद् उमापरमेशयोः
॥१३४॥उद्वाहः स परो वृत्तो यं देवा न विदुः क्वचित् । इति वः सर्वम् आख्यातं स्वयंवरम् इदं शुभम् । उद्वाहश् चैव देवस्य शृणुध्वं परमाद्भुतम्
॥१३५॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).