मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ३८

3
ब्रह्मपुराणम् · 38

अध्यायः ३८

ब्रह्मोवाच:

प्रविष्टे भवनं देवे सूपविष्टे वरासने । स वक्रो मन्मथः क्रूरो देवं वेद्धुमना भवत्

॥१॥

तम् अनाचारसंयुक्तं दुरात्मानं कुलाधमम् । लोकान् सर्वान् पीडयन्तं सर्वाङ्गावरणात्मकम्

॥२॥

ऋषीणां विघ्नकर्तारं नियमानां व्रतैः सह । चक्राह्वयस्य रूपेण रत्या सह समागतम्

॥३॥

अथाततायिनं विप्रा वेद्धुकामं सुरेश्वरः । नयनेन तृतीयेन सावज्ञं समवैक्षत

॥४॥

ततोऽस्य नेत्रजो वह्निर् ज्वालामालासहस्रवान् । सहसा रतिभर्तारम् अदहत् सपरिच्छदम्

॥५॥

स दह्यमानः करुणम् आर्तोऽक्रोशत विस्वरम् । प्रसादयंश् च तं देवं पपात धरणीतले

॥६॥

अथ सोऽग्निपरीताङ्गो मन्मथो लोकतापनः । पपात सहसा मूर्छां क्षणेन समपद्यत

॥७॥

पत्नी तु करुणं तस्य विललाप सुदुःखिता । देवीं देवं च दुःखार्ता अयाचत् करुणावती

॥८॥

तस्याश् च करुणां ज्ञात्वा देवौ तौ करुणात्मकौ । ऊचतुस् तां समालोक्य समाश्वास्य च दुःखिताम्

॥९॥

उमामहेश्वराव् ऊचतुः:

दग्ध एव ध्रुवं भद्रे नास्योत्पत्तिर् इहेष्यते । अशरीरोऽपि ते भद्रे कार्यं सर्वं करिष्यति

॥१०॥

यदा तु विष्णुर् भगवान् वसुदेवसुतः शुभे । तदा तस्य सुतो यश् च पतिस् ते सम्भविष्यति

॥११॥

ब्रह्मोवाच:

ततः सा तु वरं लब्ध्वा कामपत्नी शुभानना । जगामेष्टं तदा देशं प्रीतियुक्ता गतक्लमा

॥१२॥

दग्ध्वा कामं ततो विप्राः स तु देवो वृषध्वजः । रेमे तत्रोमया सार्धं प्रहृष्टस् तु हिमाचले

॥१३॥

कन्दरेषु च रम्येषु पद्मिनीषु गुहासु च । निर्झरेषु च रम्येषु कर्णिकारवनेषु च

॥१४॥

नदीतीरेषु कान्तेषु किन्नराचरितेषु च । शृङ्गेषु शैलराजस्य तडागेषु सरःसु च

॥१५॥

वनराजिषु रम्यासु नानापक्षिरुतेषु च । तीर्थेषु पुण्यतोयेषु मुनीनाम् आश्रमेषु च

॥१६॥

एतेषु पुण्येषु मनोहरेषु । देशेषु विद्याधरभूषितेषु । गन्धर्वयक्षामरसेवितेषु । रेमे स देव्या सहितस् त्रिनेत्रः

॥१७॥

देवैः सहेन्द्रैर् मुनियक्षसिद्धैर् । गन्धर्वविद्याधरदैत्यमुख्यैः । अन्यैश् च सर्वैर् विविधैर् वृतोऽसौ । तस्मिन् नगे हर्षम् अवाप शम्भुः

॥१८॥

नृत्यन्ति तत्राप्सरसः सुरेशा । गायन्ति गन्धर्वगणाः प्रहृष्टाः । दिव्यानि वाद्यान्य् अथ वादयन्ति । केचिद् द्रुतं देववरं स्तुवन्ति

॥१९॥

एवं स देवः स्वगणैर् उपेतो । महाबलैः शक्रयमाग्नितुल्यैः । देव्याः प्रियार्थं भगनेत्रहन्ता । गिरिं न तत्याज तदा महात्मा

॥२०॥

ऋषय ऊचुः:

देव्याः समं तु भगवांस् तिष्ठंस् तत्र स कामहा । अकरोत् किं महादेव एतद् इच्छाम वेदितुम्

॥२१॥

ब्रह्मोवाच:

भगवान् हिमवच्छृङ्गे स हि देव्याः प्रियेच्छया । गणेशैर् विविधाकारैर् हासं सञ्जनयन् मुहुः

॥२२॥

देवीं बालेन्दुतिलको रमयंश् च रराम च । महानुभावैः सर्वज्ञैः कामरूपधरैः शुभैः

॥२३॥

अथ देव्य् आससादैका मातरं परमेश्वरी । आसीनां काञ्चने शुभ्र आसने परमाद्भुते

॥२४॥

अथ दृष्ट्वा सतीं देवीम् आगतां सुररूपिणीम् । आसनेन महार्हेणऽसम्पादयद् अनिन्दिताम् । आसीनां ताम् अथोवाच मेना हिमवतः प्रिया

॥२५॥

मेनोवाच:

चिरस्यागमनं तेऽद्य वद पुत्रि शुभेक्षणे । दरिद्रा क्रीडनैस् त्वं हि भर्त्रा क्रीडसि सङ्गता

॥२६॥

ये दरिद्रा भवन्ति स्म तथैव च निराश्रयाः । उमे त एवं क्रीडन्ति यथा तव पतिः शुभे

॥२७॥

ब्रह्मोवाच:

सैवम् उक्ताथ मात्रा तु नातिहृष्टमना भवत् । महत्या क्षमया युक्ता न किञ्चित् ताम् उवाच ह । विसृष्टा च तदा मात्रा गत्वा देवम् उवाच ह

॥२८॥

पार्वत्य् उवाच:

भगवन् देवदेवेश नेह वत्स्यामि भूधरे । अन्यं कुरु ममावासं भुवनेषु महाद्युते

॥२९॥

देव उवाच:

सदा त्वम् उच्यमाना वै मया वासार्थम् ईश्वरि । अन्यं न रोचितवती वासं वै देवि कर्हिचित्

॥३०॥

इदानीं स्वयम् एव त्वं वासम् अन्यत्र शोभने । कस्मान् मृगयसे देवि ब्रूहि तन् मे शुचिस्मिते

॥३१॥

देव्य् उवाच:

गृहं गतास्मि देवेश पितुर् अद्य महात्मनः । दृष्ट्वा च तत्र मे माता विजने लोकभावने

॥३२॥

आसनादिभिर् अभ्यर्च्य सा माम् एवम् अभाषत । उमे तव सदा भर्ता दरिद्रः क्रीडनैः शुभे

॥३३॥

क्रीडते नहि देवानां क्रीडा भवति तादृशी । यत् किल त्वं महादेव गणैश् च विविधैस् तथा । रमसे तद् अनिष्टं हि मम मातुर् वृषध्वज

॥३४॥

ब्रह्मोवाच:

ततो देवः प्रहस्याह देवीं हासयितुं प्रभुः

॥३५॥

देव उवाच:

एवम् एव न सन्देहः कस्मान् मन्युर् अभूत् तव । कृत्तिवासा ह्य् अवासाश् च श्मशाननिलयश् च ह

॥३६॥

अनिकेतो ह्य् अरण्येषु पर्वतानां गुहासु च । विचरामि गणैर् नग्नैर् वृतोऽम्भोजविलोचने

॥३७॥

मा क्रुधो देवि मात्रे त्वं तथ्यं मातावदत् तव । नहि मातृसमो बन्धुर् जन्तूनाम् अस्ति भूतले

॥३८॥

देव्य् उवाच:

न मेऽस्ति बन्धुभिः किञ्चित् कृत्यं सुरवरेश्वर । तथा कुरु महादेव यथाहं सुखम् आप्नुयाम्

॥३९॥

ब्रह्मोवाच:

श्रुत्वा स देव्या वचनं सुरेशस् । तस्याः प्रियार्थे स्वगिरिं विहाय । जगाम मेरुं सुरसिद्धसेवितं । भार्यासहायः स्वगणैश् च युक्तः

॥४०॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).