मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ४२

3
ब्रह्मपुराणम् · 42

अध्यायः ४२

ब्रह्मोवाच:

विरजे विरजा माता ब्रह्माणी सम्प्रतिष्ठिता । यस्याः सन्दर्शनान् मर्त्यः पुनात्य् आसप्तमं कुलम्

॥१॥

सकृद् दृष्ट्वा तु तां देवीं भक्त्यापूज्य प्रणम्य च । नरः स्ववंशम् उद्धृत्य मम लोकं स गच्छति

॥२॥

अन्याश् च तत्र तिष्ठन्ति विरजे लोकमातरः । सर्वपापहरा देव्यो वरदा भक्तिवत्सलाः

॥३॥

आस्ते वैतरणी तत्र सर्वपापहरा नदी । यस्यां स्नात्वा नरश्रेष्ठः सर्वपापैः प्रमुच्यते

॥४॥

आस्ते स्वयम्भूस् तत्रैव क्रोडरूपी हरिः स्वयम् । दृष्ट्वा प्रणम्य तं भक्त्या परं विष्णुं व्रजन्ति ते

॥५॥

कापिले गोग्रहे सोमे तीर्थे चालाबुसञ्ज्ञिते । मृत्युञ्जये क्रोडतीर्थे वासुके सिद्धकेश्वरे

॥६॥

तीर्थेष्व् एतेषु मतिमान् विरजे संयतेन्द्रियः । गत्वाष्टतीर्थं विधिवत् स्नात्वा देवान् प्रणम्य च

॥७॥

सर्वपापविनिर्मुक्तो विमानवरम् आस्थितः । उपगीयमानो गन्धर्वैर् मम लोके महीयते

॥८॥

विरजे यो मम क्षेत्रे पिण्डदानं करोति वै । स करोत्य् अक्षयां तृप्तिं पितॄणां नात्र संशयः

॥९॥

मम क्षेत्रे मुनिश्रेष्ठा विरजे ये कलेवरम् । परित्यजन्ति पुरुषास् ते मोक्षं प्राप्नुवन्ति वै

॥१०॥

स्नात्वा यः सागरे मर्त्यो दृष्ट्वा च कपिलं हरिम् । पश्येद् देवीं च वाराहीं स याति त्रिदशालयम्

॥११॥

सन्ति चान्यानि तीर्थानि पुण्यान्य् आयतनानि च । तत्काले तु मुनिश्रेष्ठा वेदितव्यानि तानि वै

॥१२॥

समुद्रस्योत्तरे तीरे तस्मिन् देशे द्विजोत्तमाः । आस्ते गुह्यं परं क्षेत्रं मुक्तिदं पापनाशनम्

॥१३॥

सर्वत्र वालुकाकीर्णं पवित्रं सर्वकामदम् । दशयोजनविस्तीर्णं क्षेत्रं परमदुर्लभम्

॥१४॥

अशोकार्जुनपुन्नागैर् बकुलैः सरलद्रुमैः । पनसैर् नारिकेलैश् च शालैस् तालैः कपित्थकैः

॥१५॥

चम्पकैः कर्णिकारैश् च चूतबिल्वैः सपाटलैः । कदम्बैः कोविदारैश् च लकुचैर् नागकेसरैः

॥१६॥

प्राचीनामलकैर् लोध्रैर् नारङ्गैर् धवखादिरैः । सर्जभूर्जाश्वकर्णैश् च तमालैर् देवदारुभिः

॥१७॥

मन्दारैः पारिजातैश् च न्यग्रोधागुरुचन्दनैः । खर्जूराम्रातकैः सिद्धैर् मुचुकुन्दैः सकिंशुकैः

॥१८॥

अश्वत्थैः सप्तपर्णैश् च मधुधारशुभाञ्जनैः । शिंशपामलकैर् नीपैर् निम्बतिन्दुविभीतकैः

॥१९॥

सर्वर्तुफलगन्धाढ्यैः सर्वर्तुकुसुमोज्ज्वलैः । मनोह्लादकरैः शुभ्रैर् नानाविहगनादितैः

॥२०॥

श्रोत्ररम्यैः सुमधुरैर् बलनिर्मदनेरितैः । मनसः प्रीतिजनकैः शब्दैः खगमुखेरितैः

॥२१॥

चकोरैः शतपत्त्रैश् च भृङ्गराजैस् तथा शुकैः । कोकिलैः कलविङ्कैश् च हारीतैर् जीवजीवकैः

॥२२॥

प्रियपुत्रैश् चातकैश् च तथान्यैर् मधुरस्वरैः । श्रोत्ररम्यैः प्रियकरैः कूजद्भिश् चार्वधिष्ठितैः

॥२३॥

केतकीवनखण्डैश् च अतिमुक्तैः सकुब्जकैः । मालतीकुन्दबाणैश् च करवीरैः सितेतरैः

॥२४॥

जम्बीरकरुणाङ्कोलैर् दाडिमैर् बीजपूरकैः । मातुलुङ्गैः पूगफलैर् हिन्तालैः कदलीवनैः

॥२५॥

अन्यैश् च विविधैर् वृक्षैः पुष्पैश् चान्यैर् मनोहरैः । लतावितानगुल्मैश् च विविधैश् च जलाशयैः

॥२६॥

दीर्घिकाभिस् तडागैश् च पुष्करिणीभिश् च वापिभिः । नानाजलाशयैः पुण्यैः पद्मिनीखण्डमण्डितैः

॥२७॥

सरांसि च मनोज्ञानि प्रसन्नसलिलानि च । कुमुदैः पुण्डरीकैश् च तथा नीलोत्पलैः शुभैः

॥२८॥

कह्लारैः कमलैश् चापि आचितानि समन्ततः । कादम्बैश् चक्रवाकैश् च तथैव जलकुक्कुटैः

॥२९॥

कारण्डवैः प्लवैर् हंसैः कूर्मैर् मत्स्यैश् च मद्गुभिः । दात्यूहसारसाकीर्णैः कोयष्टिबकशोभितैः

॥३०॥

एतैश् चान्यैश् च कूजद्भिः समन्ताज् जलचारिभिः । खगैर् जलचरैश् चान्यैः कुसुमैश् च जलोद्भवैः

॥३१॥

एवं नानाविधैर् वृक्षैः पुष्पैः स्थलजलोद्भवैः । ब्रह्मचारिगृहस्थैश् च वानप्रस्थैश् च भिक्षुभिः

॥३२॥

स्वधर्मनिरतैर् वर्णैस् तथान्यैः समलङ्कृतम् । हृष्टपुष्टजनाकीर्णं नरनारीसमाकुलम्

॥३३॥

अशेषविद्यानिलयं सर्वधर्मगुणाकरम् । एवं सर्वगुणोपेतं क्षेत्रं परमदुर्लभम्

॥३४॥

आस्ते तत्र मुनिश्रेष्ठा विख्यातः पुरुषोत्तमः । यावद् उत्कलमर्यादा दिक् क्रमेण प्रकीर्तिता

॥३५॥

तावत् कृष्णप्रसादेन देशः पुण्यतमो हि सः । यत्र तिष्ठति विश्वात्मा देशे स पुरुषोत्तमः

॥३६॥

जगद्व्यापी जगन्नाथस् तत्र सर्वं प्रतिष्ठितम् । अहं रुद्रश् च शक्रश् च देवाश् चाग्निपुरोगमाः

॥३७॥

निवसामो मुनिश्रेष्ठास् तस्मिन् देशे सदा वयम् । गन्धर्वाप्सरसः सर्वाः पितरो देवमानुषाः

॥३८॥

यक्षा विद्याधराः सिद्धा मुनयः संशितव्रताः । ऋषयो वालखिल्याश् च कश्यपाद्याः प्रजेश्वराः

॥३९॥

सुपर्णाः किन्नरा नागास् तथान्ये स्वर्गवासिनः । साङ्गाश् च चतुरो वेदाः शास्त्राणि विविधानि च

॥४०॥

इतिहासपुराणानि यज्ञाश् च वरदक्षिणाः । नद्यश् च विविधाः पुण्यास् तीर्थान्य् आयतनानि च

॥४१॥

सागराश् च तथा शैलास् तस्मिन् देशे व्यवस्थिताः । एवं पुण्यतमे देशे देवर्षिपितृसेविते

॥४२॥

सर्वोपभोगसहिते वासः कस्य न रोचते । श्रेष्ठत्वं कस्य देशस्य किं चान्यद् अधिकं ततः

॥४३॥

आस्ते यत्र स्वयं देवो मुक्तिदः पुरुषोत्तमः । धन्यास् ते विबुधप्रख्या ये वसन्त्य् उत्कले नराः

॥४४॥

तीर्थराजजले स्नात्वा पश्यन्ति पुरुषोत्तमम् । स्वर्गे वसन्ति ते मर्त्या न ते यान्ति यमालये

॥४५॥

ये वसन्त्य् उत्कले क्षेत्रे पुण्ये श्रीपुरुषोत्तमे । सफलं जीवितं तेषाम् उत्कलानां सुमेधसाम्

॥४६॥

ये पश्यन्ति सुरश्रेष्ठं प्रसन्नायतलोचनम् । चारुभ्रूकेशमुकुटं चारुकर्णावतंसकम्

॥४७॥

चारुस्मितं चारुदन्तं चारुकुण्डलमण्डितम् । सुनासं सुकपोलं च सुललाटं सुलक्षणम्

॥४८॥

त्रैलोक्यानन्दजननं कृष्णस्य मुखपङ्कजम्

॥४९॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).