अध्यायः ४३
ब्रह्मोवाच:
पुरा कृतयुगे विप्राः शक्रतुल्यपराक्रमः । बभूव नृपतिः श्रीमान् इन्द्रद्युम्न इति श्रुतः
॥१॥सत्यवादी शुचिर् दक्षः सर्वशास्त्रविशारदः । रूपवान् सुभगः शूरो दाता भोक्ता प्रियंवदः
॥२॥यष्टा समस्तयज्ञानां ब्रह्मण्यः सत्यसङ्गरः । धनुर्वेदे च वेदे च शास्त्रे च निपुणः कृती
॥३॥वल्लभो नरनारीणां पौर्णमास्यां यथा शशी । आदित्य इव दुष्प्रेक्ष्यः शत्रुसङ्घभयङ्करः
॥४॥वैष्णवः सत्त्वसम्पन्नो जितक्रोधो जितेन्द्रियः । अध्येता योगसाङ्ख्यानां मुमुक्षुर् धर्मतत्परः
॥५॥एवं स पालयन् पृथ्वीं राजा सर्वगुणाकरः । तस्य बुद्धिः समुत्पन्ना हरेर् आराधनं प्रति
॥६॥कथम् आराधयिष्यामि देवदेवं जनार्दनम् । कस्मिन् क्षेत्रेऽथवा तीर्थे नदीतीरे तथाश्रमे
॥७॥एवं चिन्तापरः सोऽथ निरीक्ष्य मनसा महीम् । आलोक्य सर्वतीर्थानि क्षेत्राण्य् अथ पुराण्य् अपि
॥८॥तानि सर्वाणि सन्त्यज्य जगामायतनं पुनः । विख्यातं परमं क्षेत्रं मुक्तिदं पुरुषोत्तमम्
॥९॥स गत्वा तत् क्षेत्रवरं समृद्धबलवाहनः । अयजच् चाश्वमेधेन विधिवद् भूरिदक्षिणः
॥१०॥कारयित्वा महोत्सेधं प्रासादं चैव विश्रुतम् । तत्र सङ्कर्षणं कृष्णं सुभद्रां स्थाप्य वीर्यवान्
॥११॥पञ्चतीर्थं च विधिवत् कृत्वा तत्र महीपतिः । स्नानं दानं तपो होमं देवताप्रेक्षणं तथा
॥१२॥भक्त्या चाराध्य विधिवत् प्रत्यहं पुरुषोत्तमम् । प्रसादाद् देवदेवस्य ततो मोक्षम् अवाप्तवान्
॥१३॥मार्कण्डेयं च कृष्णं च दृष्ट्वा रामं च भो द्विजाः । सागरे चेन्द्रद्युम्नाख्ये स्नात्वा मोक्षं लभेद् ध्रुवम्
॥१४॥मुनय ऊचुः:
कस्मात् स नृपतिः पूर्वम् इन्द्रद्युम्नो जगत्पतिः । जगाम परमं क्षेत्रं मुक्तिदं पुरुषोत्तमम्
॥१५॥गत्वा तत्र सुरश्रेष्ठ कथं स नृपसत्तमः । वाजिमेधेन विधिवद् इष्टवान् पुरुषोत्तमम्
॥१६॥कथं स सर्वफलदे क्षेत्रे परमदुर्लभे । प्रासादं कारयाम् आस चेष्टं त्रैलोक्यविश्रुतम्
॥१७॥कथं स कृष्णं रामं च सुभद्रां च प्रजापते । निर्ममे राजशार्दूलः क्षेत्रं रक्षितवान् कथम्
॥१८॥कथं तत्र महीपालः प्रासादे भुवनोत्तमे । स्थापयाम् आस मतिमान् कृष्णादींस् त्रिदशार्चितान्
॥१९॥एतत् सर्वं सुरश्रेष्ठ विस्तरेण यथातथम् । वक्तुम् अर्हस्य् अशेषेण चरितं तस्य धीमतः
॥२०॥न तृप्तिम् अधिगच्छामस् तव वाक्यामृतेन वै । श्रोतुम् इच्छामहे ब्रह्मन् परं कौतूहलं हि नः
॥२१॥ब्रह्मोवाच:
साधु साधु द्विजश्रेष्ठा यत् पृच्छध्वं पुरातनम् । सर्वपापहरं पुण्यं भुक्तिमुक्तिप्रदं शुभम्
॥२२॥वक्ष्यामि तस्य चरितं यथावृत्तं कृते युगे । शृणुध्वं मुनिशार्दूलाः प्रयताः संयतेन्द्रियाः
॥२३॥अवन्ती नाम नगरी मालवे भुवि विश्रुता । बभूव तस्य नृपतेः पृथिवी ककुदोपमा
॥२४॥हृष्टपुष्टजनाकीर्णा दृढप्राकारतोरणा । दृढयन्त्रार्गलद्वारा परिखाभिर् अलङ्कृता
॥२५॥नानावणिक्समाकीर्णा नानाभाण्डसुविक्रिया । रथ्यापणवती रम्या । सुविभक्तचतुष्पथा
॥२६॥गृहगोपुरसम्बाधा वीथीभिः समलङ्कृता । राजहंसनिभैः शुभ्रैश् चित्रग्रीवैर् मनोहरैः
॥२७॥अनेकशतसाहस्रैः प्रासादैः समलङ्कृता । यज्ञोत्सवप्रमुदिता गीतवादित्रनिस्वना
॥२८॥नानावर्णपताकाभिर् ध्वजैश् च समलङ्कृता । हस्त्यश्वरथसङ्कीर्णा पदातिगणसङ्कुला
॥२९॥नानायोधसमाकीर्णा नानाजनपदैर् युता । ब्राह्मणैः क्षत्रियैर् वैश्यैः शूद्रैश् चैव द्विजातिभिः
॥३०॥समृद्धा सा मुनिश्रेष्ठा विद्वद्भिः समलङ्कृता । न तत्र मलिनाः सन्ति न मूर्खा नापि निर्धनाः
॥३१॥न रोगिणो न हीनाङ्गा न द्यूतव्यसनान्विताः । सदा हृष्टाः सुमनसो दृश्यन्ते पुरुषाः स्त्रियः
॥३२॥क्रीडन्ति स्म दिवा रात्रौ हृष्टास् तत्र पृथक् पृथक् । सुवेषाः पुरुषास् तत्र दृश्यन्ते मृष्टकुण्डलाः
॥३३॥सुरूपाः सुगुणाश् चैव दिव्यालङ्कारभूषिताः । कामदेवप्रतीकाशाः सर्वलक्षणलक्षिताः
॥३४॥सुकेशाः सुकपोलाश् च सुमुखाः श्मश्रुधारिणः । ज्ञातारः सर्वशास्त्राणां भेत्तारः शत्रुवाहिनीम्
॥३५॥दातारः सर्वरत्नानां भोक्तारः सर्वसम्पदाम् । स्त्रियस् तत्र मुनिश्रेष्ठा दृश्यन्ते सुमनोहराः
॥३६॥हंसवारणगामिन्यः प्रफुल्लाम्भोजलोचनाः । सुमध्यमाः सुजघनाः पीनोन्नतपयोधराः
॥३७॥सुकेशाश् चारुवदनाः सुकपोलाः स्थिरालकाः । हावभावानतग्रीवाः कर्णाभरणभूषिताः
॥३८॥बिम्बौष्ठ्यो रञ्जितमुखास् ताम्बूलेन विराजिताः । सुवर्णाभरणोपेताः सर्वालङ्कारभूषिताः
॥३९॥श्यामावदाताः सुश्रोण्यः काञ्चीनूपुरनादिताः । दिव्यमाल्याम्बरधरा दिव्यगन्धानुलेपनाः
॥४०॥विदग्धाः सुभगाः कान्ताश् चार्वङ्ग्यः प्रियदर्शनाः । रूपलावण्यसंयुक्ताः सर्वाः प्रहसिताननाः
॥४१॥क्रीडन्त्यश् च मदोन्मत्ताः च । गीतवाद्यकथालापै रमयन्त्यश् च ताः स्त्रियः
॥४२॥वारमुख्याश् च दृश्यन्ते नृत्यगीतविशारदाः । प्रेक्षणालापकुशलाः सर्वयोषिद्गुणान्विताः
॥४३॥अन्याश् च तत्र दृश्यन्ते गुणाचार्याः कुलस्त्रियः । पतिव्रताश् च सुभगा गुणैः सर्वैर् अलङ्कृताः
॥४४॥वनैश् चोपवनैः पुण्यैर् उद्यानैश् च मनोरमैः । देवतायतनैर् दिव्यैर् नानाकुसुमशोभितैः
॥४५॥शालैस् तालैस् तमालैश् च बकुलैर् नागकेसरैः । पिप्पलैः कर्णिकारैश् च चन्दनागुरुचम्पकैः
॥४६॥पुन्नागैर् नारिकेरैश् च पनसैः सरलद्रुमैः । नारङ्गैर् लकुचैर् लोध्रैः सप्तपर्णैः शुभाञ्जनैः
॥४७॥चूतबिल्वकदम्बैश् च शिंशपैर् धवखादिरैः । पाटलाशोकतगरैः करवीरैः सितेतरैः
॥४८॥पीतार्जुनकभल्लातैः सिद्धैर् आम्रातकैस् तथा । न्यग्रोधाश्वत्थकाश्मर्यैः पलाशैर् देवदारुभिः
॥४९॥मन्दारैः पारिजातैश् च तिन्तिडीकविभीतकैः । प्राचीनामलकैः प्लक्षैर् जम्बूशिरीषपादपैः
॥५०॥कालेयैः काञ्चनारैश् च मधुजम्बीरतिन्दुकैः । खर्जूरागस्त्यबकुलैः शाखोटकहरीतकैः
॥५१॥कङ्कोलैर् मुचुकुन्दैश् च हिन्तालैर् बीजपूरकैः । केतकीवनखण्डैश् च अतिमुक्तैः सकुब्जकैः
॥५२॥मल्लिकाकुन्दबाणैश् च कदलीखण्डमण्डितैः । मातुलुङ्गैः पूगफलैः करुणैः सिन्धुवारकैः
॥५३॥बहुवारैः कोविदारैर् बदरैः सकरञ्जकैः । अन्यैश् च विविधैः पुष्पवृक्षैश् चान्यैर् मनोहरैः
॥५४॥लतागुल्मैर् वितानैश् च उद्यानैर् नन्दनोपमैः । सदा कुसुमगन्धाढ्यैः सदा फलभरानतैः
॥५५॥नानापक्षिरुतै रम्यैर् नानामृगगणावृतैः । चकोरैः शतपत्त्रैश् च भृङ्गारैः प्रियपुत्रकैः
॥५६॥कलविङ्कैर् मयूरैश् च शुकैः कोकिलकैस् तथा । कपोतैः खञ्जरीटैश् च श्येनैः पारावतैस् तथा
॥५७॥खगैश् चान्यैर् बहुविधैः श्रोत्ररम्यैर् मनोरमैः । सरितः पुष्करिण्यश् च सरांसि सुबहूनि च
॥५८॥अन्यैर् जलाशयैः पुण्यैः कुमुदोत्पलमण्डितैः । पद्मैः सितेतरैः शुभ्रैः कह्लारैश् च सुगन्धिभिः
॥५९॥अन्यैर् बहुविधैः पुष्पैर् जलजैः सुमनोहरैः । गन्धामोदकरैर् दिव्यैः सर्वर्तुकुसुमोज्ज्वलैः
॥६०॥हंसकारण्डवाकीर्णैश् चक्रवाकोपशोभितैः । सारसैश् च बलाकैश् च कूर्मैर् मत्स्यैः सनक्रकैः
॥६१॥जलपादैः कदम्बैश् च प्लवैश् च जलकुक्कुटैः । खगैर् जलचरैश् चान्यैर् नानारवविभूषितैः
॥६२॥नानावर्णैः सदा हृष्टैर् अञ्चितानि समन्ततः । एवं नानाविधैः पुष्पैर् विविधैश् च जलाशयैः
॥६३॥विविधैः पादपैः पुण्यैर् उद्यानैर् विविधैस् तथा । जलस्थलचरैश् चैव विहगैश् चार्वधिष्ठितैः
॥६४॥देवतायतनैर् दिव्यैः शोभिता सा महापुरी । तत्रास्ते भगवान् देवस् त्रिपुरारिस् त्रिलोचनः
॥६५॥महाकालेति विख्यातः सर्वकामप्रदः शिवः । शिवकुण्डे नरः स्नात्वा विधिवत् पापनाशने
॥६६॥देवान् पितॄन् ऋषींश् चैव सन्तर्प्य विधिवद् बुधः । गत्वा शिवालयं पश्चात् कृत्वा तं त्रिः प्रदक्षिणम्
॥६७॥प्रविश्य संयतो भूत्वा धौतवासा जितेन्द्रियः । स्नानैः पुष्पैस् तथा गन्धैर् धूपैर् दीपैश् च भक्तितः
॥६८॥नैवेद्यैर् उपहारैश् च गीतवाद्यैः प्रदक्षिणैः । दण्डवत्प्रणिपातैश् च नृत्यैः स्तोत्रैश् च शङ्करम्
॥६९॥सम्पूज्य विधिवद् भक्त्या महाकालं सकृच् छिवम् । अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः
॥७०॥पापैः सर्वैर् विनिर्मुक्तो विमानैः सार्वकामिकैः । आरुह्य त्रिदिवं याति यत्र शम्भोर् निकेतनम्
॥७१॥दिव्यरूपधरः श्रीमान् दिव्यालङ्कारभूषितः । भुङ्क्ते तत्र वरान् भोगान् यावद् आभूतसम्प्लवम्
॥७२॥शिवलोके मुनिश्रेष्ठा जरामरणवर्जितः । पुण्यक्षयाद् इहायातः प्रवरे ब्राह्मणे कुले
॥७३॥चतुर्वेदी भवेद् विप्रः सर्वशास्त्रविशारदः । योगं पाशुपतं प्राप्य ततो मोक्षम् अवाप्नुयात्
॥७४॥आस्ते तत्र नदी पुण्या शिप्रा नामेति विश्रुता । तस्यां स्नातस् तु विधिवत् सन्तर्प्य पितृदेवताः
॥७५॥सर्वपापविनिर्मुक्तो विमानवरम् आस्थितः । भुङ्क्ते बहुविधान् भोगान् स्वर्गलोके नरोत्तमः
॥७६॥आस्ते तत्रैव भगवान् देवदेवो जनार्दनः । गोविन्दस्वामिनामासौ भुक्तिमुक्तिप्रदो हरिः
॥७७॥तं दृष्ट्वा मुक्तिम् आप्नोति त्रिसप्तकुलसंयुतः । विमानेनार्कवर्णेन किङ्किणीजालमालिना
॥७८॥सर्वकामसमृद्धेन कामगेनास्थिरेण च । उपगीयमानो गन्धर्वैर् विष्णुलोके महीयते
॥७९॥भुङ्क्ते च विविधान् कामान् निरातङ्को गतज्वरः । आभूतसम्प्लवं यावत् सुरूपः सुभगः सुखी
॥८०॥कालेनागत्य मतिमान् ब्राह्मणः स्यान् महीतले । प्रवरे योगिनां गेहे वेदशास्त्रार्थतत्त्ववित्
॥८१॥वैष्णवं योगम् आस्थाय ततो मोक्षम् अवाप्नुयात् । विक्रमस्वामिनामानं विष्णुं तत्रैव भो द्विजाः
॥८२॥दृष्ट्वा नरो वा नारी वा फलं पूर्वोदितं लभेत् । अन्येऽपि तत्र तिष्ठन्ति देवाः शक्रपुरोगमाः
॥८३॥मातरश् च मुनिश्रेष्ठाः सर्वकामफलप्रदाः । दृष्ट्वा तान् विधिवद् भक्त्या सम्पूज्य प्रणिपत्य च
॥८४॥सर्वपापविनिर्मुक्तो नरो याति त्रिविष्टपम् । एवं सा नगरी रम्या राजसिंहेन पालिता
॥८५॥नित्योत्सवप्रमुदिता यथेन्द्रस्यामरावती । पुराष्टादशसंयुक्ता सुविस्तीर्णचतुष्पथा
॥८६॥धनुर्ज्याघोषनिनदा सिद्धसङ्गमभूषिता । विद्यावद्गणभूयिष्ठा वेदनिर्घोषनादिता
॥८७॥इतिहासपुराणानि शास्त्राणि विविधानि च । काव्यालापकथाश् चैव श्रूयन्तेऽहर्निशं द्विजाः
॥८८॥एवं मया गुणाढ्या सा तदुयिनी?? समुदाहृता । यस्यां राजाभवत् पूर्वम् इन्द्रद्युम्नो महामतिः
॥८९॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).