मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ५६

3
ब्रह्मपुराणम् · 56

अध्यायः ५६

ब्रह्मोवाच:

इत्थं स्तुतस् तदा तेन मार्कण्डेयेन भो द्विजाः । प्रीतः प्रोवाच भगवान् मेघगम्भीरया गिरा

॥१॥

श्रीभगवान् उवाच:

ब्रूहि कामं मुनिश्रेष्ठ यत् ते मनसि वर्तते । ददामि सर्वं विप्रर्षे मत्तो यद् अभिवाञ्छसि

॥२॥

ब्रह्मोवाच:

श्रुत्वा स वचनं विप्राः शिशोस् तस्य महात्मनः । उवाच परमप्रीतो मुनिस् तद्गतमानसः

॥३॥

मार्कण्डेय उवाच:

ज्ञातुम् इच्छामि देव त्वां मायां वै तव चोत्तमाम् । त्वत्प्रसादाच् च देवेश स्मृतिर् न परिहीयते

॥४॥

द्रुतम् अन्तः शरीरेण सततं पर्यवर्तितम् । इच्छामि पुण्डरीकाक्ष ज्ञातुं त्वाम् अहम् अव्ययम्

॥५॥

इह भूत्वा शिशुः साक्षात् किं भवान् अवतिष्ठते । पीत्वा जगद् इदं सर्वम् एतद् आख्यातुम् अर्हसि

॥६॥

किमर्थं च जगत् सर्वं शरीरस्थं तवानघ । कियन्तं च त्वया कालम् इह स्थेयम् अरिन्दम

॥७॥

ज्ञातुम् इच्छामि देवेश ब्रूहि सर्वम् अशेषतः । त्वत्तः कमलपत्त्राक्ष विस्तरेण यथातथम् । महद् एतद् अचिन्त्यं च यद् अहं दृष्टवान् प्रभो

॥८॥

ब्रह्मोवाच:

इत्य् उक्तः स तदा तेन देवदेवो महाद्युतिः । सान्त्वयन् स तदा वाक्यम् उवाच वदतां वरः

॥९॥

श्रीभगवान् उवाच:

कामं देवाश् च मां विप्र नहि जानन्ति तत्त्वतः । तव प्रीत्या प्रवक्ष्यामि यथेदं विसृजाम्य् अहम्

॥१०॥

पितृभक्तोऽसि विप्रर्षे माम् एव शरणं गतः । ततो दृष्टोऽस्मि ते साक्षाद् ब्रह्मचर्यं च ते महत्

॥११॥

आपो नारा इति पुरा सञ्ज्ञाकर्म कृतं मया । तेन नारायणोऽस्म्य् उक्तो मम तास् त्व् अयनं सदा

॥१२॥

अहं नारायणो नाम प्रभवः शाश्वतोऽव्ययः । विधाता सर्वभूतानां संहर्ता च द्विजोत्तम

॥१३॥

अहं विष्णुर् अहं ब्रह्मा शक्रश् चापि सुराधिपः । अहं वैश्रवणो राजा यमः प्रेताधिपस् तथा

॥१४॥

अहं शिवश् च सोमश् च कश्यपश् च प्रजापतिः । अहं धाता विधाता च यज्ञश् चाहं द्विजोत्तम

॥१५॥

अग्निर् आस्यं क्षितिः पादौ चन्द्रादित्यौ च लोचने । द्यौर् मूर्धा खं दिशः श्रोत्रे तथापः स्वेदसम्भवाः

॥१६॥

सदिशं च नभः कायो वायुर् मनसि मे स्थितः । मया क्रतुशतैर् इष्टं बहुभिश् चाप्तदक्षिणैः

॥१७॥

यजन्ते वेदविदुषो मां देवयजने स्थितम् । पृथिव्यां क्षत्रियेन्द्राश् च पार्थिवाः स्वर्गकाङ्क्षिणः

॥१८॥

यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषवः । चतुःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम्

॥१९॥

शेषो भूत्वाहम् एको हि धारयामि वसुन्धराम् । वाराहं रूपम् आस्थाय ममेयं जगती पुरा

॥२०॥

मज्जमाना जले विप्र वीर्येणास्मि समुद्धृता । अग्निश् च वाडवो विप्र भूत्वाहं द्विजसत्तम

॥२१॥

पिबाम्य् अपः समाविष्टस् ताश् चैव विसृजाम्य् अहम् । ब्रह्म वक्त्रं भुजौ क्षत्रम् ऊरू मे संश्रिता विशः

॥२२॥

पादौ शूद्रा भवन्तीमे विक्रमेण क्रमेण च । ऋग्वेदः सामवेदश् च यजुर्वेदस् त्व् अथर्वणः

॥२३॥

मत्तः प्रादुर्भवन्त्य् एते माम् एव प्रविशन्ति च । यतयः शान्तिपरमा यतात्मानो बुभुत्सवः

॥२४॥

कामक्रोधद्वेषमुक्ता निःसङ्गा वीतकल्मषाः । सत्त्वस्था निरहङ्कारा नित्यम् अध्यात्मकोविदाः

॥२५॥

माम् एव सततं विप्राश् चिन्तयन्त उपासते । अहं संवर्तको ज्योतिर् अहं संवर्तकोऽनलः

॥२६॥

अहं संवर्तकः सूर्यस् त्व् अहं संवर्तकोऽनिलः । तारारूपाणि दृश्यन्ते यान्य् एतानि नभस्तले

॥२७॥

मम वै रोमकूपाणि विद्धि त्वं द्विजसत्तम । रत्नाकराः समुद्राश् च सर्व एव चतुर्दिशः

॥२८॥

वसनं शयनं चैव निलयं चैव विद्धि मे । कामः क्रोधश् च हर्षश् च भयं मोहस् तथैव च

॥२९॥

ममैव विद्धि रूपाणि सर्वाण्य् एतानि सत्तम । प्राप्नुवन्ति नरा विप्र यत् कृत्वा कर्म शोभनम्

॥३०॥

सत्यं दानं तपश् चोग्रम् अहिंसां सर्वजन्तुषु । मद्विधानेन विहिता मम देहविचारिणः

॥३१॥

मयाभिभूतविज्ञानाश् चेष्टयन्ति न कामतः । सम्यग् वेदम् अधीयाना यजन्तो विविधैर् मखैः

॥३२॥

शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः । प्राप्तुं शक्यो न चैवाहं नरैर् दुष्कृतकर्मभिः

॥३३॥

लोभाभिभूतैः कृपणैर् अनार्यैर् अकृतात्मभिः । तन् मां महाफलं विद्धि नराणां भावितात्मनाम्

॥३४॥

सुदुष्प्रापं विमूढानां मां कुयोगनिषेविणाम् । यदा यदा हि धर्मस्य ग्लानिर् भवति सत्तम

॥३५॥

अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम् । दैत्या हिंसानुरक्ताश् च अवध्याः सुरसत्तमैः

॥३६॥

राक्षसाश् चापि लोकेऽस्मिन् यदोत्पत्स्यन्ति दारुणाः । तदाहं सम्प्रसूयामि गृहेषु पुण्यकर्मणाम्

॥३७॥

प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्य् अहम् । सृष्ट्वा देवमनुष्यांश् च गन्धर्वोरगराक्षसान्

॥३८॥

स्थावराणि च भूतानि संहराम्य् आत्ममायया । कर्मकाले पुनर् देहम् अनुचिन्त्य सृजाम्य् अहम्

॥३९॥

आविश्य मानुषं देहं मर्यादाबन्धकारणात् । श्वेतः कृतयुगे धर्मः श्यामस् त्रेतायुगे मम

॥४०॥

रक्तो द्वापरम् आसाद्य कृष्णः कलियुगे तथा । त्रयो भागा ह्य् अधर्मस्य तस्मिन् काले भवन्ति च

॥४१॥

अन्तकाले च सम्प्राप्ते कालो भूत्वातिदारुणः । त्रैलोक्यं नाशयाम्य् एकः सर्वं स्थावरजङ्गमम्

॥४२॥

अहं त्रिधर्मा विश्वात्मा सर्वलोकसुखावहः । अभिन्नः सर्वगोऽनन्तो हृषीकेश उरुक्रमः

॥४३॥

कालचक्रं नयाम्य् एको ब्रह्मरूपं ममैव तत् । शमनं सर्वभूतानां सर्वभूतकृतोद्यमम्

॥४४॥

एवं प्रणिहितः सम्यङ् ममात्मा मुनिसत्तम । सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश्चन

॥४५॥

सर्वलोके च मां भक्ताः पूजयन्ति च सर्वशः । यच् च किञ्चित् त्वया प्राप्तं मयि क्लेशात्मकं द्विज

॥४६॥

सुखोदयाय तत् सर्वं श्रेयसे च तवानघ । यच् च किञ्चित् त्वया लोके दृष्टं स्थावरजङ्गमम्

॥४७॥

विहितः सर्व एवासौ मयात्मा भूतभावनः । अहं नारायणो नाम शङ्खचक्रगदाधरः

॥४८॥

यावद् युगानां विप्रर्षे सहस्रं परिवर्तते । तावत् स्वपिमि विश्वात्मा सर्वविश्वानि मोहयन्

॥४९॥

एवं सर्वम् अहं कालम् इहासे मुनिसत्तम । अशिशुः शिशुरूपेण यावद् ब्रह्मा न बुध्यते

॥५०॥

मया च दत्तो विप्रेन्द्र वरस् ते ब्रह्मरूपिणा । असकृत् परितुष्टेन विप्रर्षिगणपूजित

॥५१॥

सर्वम् एकार्णवं कृत्वा नष्टे स्थावरजङ्गमे । निर्गतोऽसि मयाज्ञातस् ततस् ते दर्शितं जगत्

॥५२॥

अभ्यन्तरं शरीरस्य प्रविष्टोऽसि यदा मम । दृष्ट्वा लोकं समस्तं हि विस्मितो नावबुध्यसे

॥५३॥

ततोऽसि वक्त्राद् विप्रर्षे द्रुतं निःसारितो मया । आख्यातस् ते मया चात्मा दुर्ज्ञेयो हि सुरासुरैः

॥५४॥

यावत् स भगवान् ब्रह्मा न बुध्येत महातपाः । तावत् त्वम् इह विप्रर्षे विश्रब्धश् चर वै सुखम्

॥५५॥

ततो विबुद्धे तस्मिंस् तु सर्वलोकपितामहे । एको भूतानि स्रक्ष्यामि शरीराणि द्विजोत्तम

॥५६॥

आकाशं पृथिवीं ज्योतिर् वायुः सलिलम् एव च । लोके यच् च भवेत् किञ्चिद् इह स्थावरजङ्गमम्

॥५७॥

ब्रह्मोवाच:

एवम् उक्त्वा तदा विप्राः पुनस् तं प्राह माधवः । पूर्णे युगसहस्रे तु मेघगम्भीरनिस्वनः

॥५८॥

श्रीभगवान् उवाच:

मुने ब्रूहि यदर्थं मां स्तुतवान् परमार्थतः । वरं वृणीष्व यच् छ्रेष्ठं ददामि नचिराद् अहम्

॥५९॥

आयुष्मान् असि देवानां मद्भक्तोऽसि दृढव्रतः । तेन त्वम् असि विप्रेन्द्र पुनर् दीर्घायुर् आप्नुहि

॥६०॥

ब्रह्मोवाच:

श्रुत्वा वाणीं शुभां तस्य विलोक्य स तदा पुनः । मूर्ध्ना निपत्य सहसा प्रणम्य पुनर् अब्रवीत्

॥६१॥

मार्कण्डेय उवाच:

दृष्टं परं हि देवेश तव रूपं द्विजोत्तम । मोहोऽयं विगतः सत्यं त्वयि दृष्टे तु मे हरे

॥६२॥

एवम् एवम् अहं नाथ इच्छेयं त्वत्प्रसादतः । लोकानां च हितार्थाय नानाभावप्रशान्तये

॥६३॥

शैवभागवतानां च वादार्थप्रतिषेधकम् । अस्मिन् क्षेत्रवरे पुण्ये निर्मले पुरुषोत्तमे

॥६४॥

शिवस्यायतनं देव करोमि परमं महत् । प्रतिष्ठेय तथा तत्र तव स्थाने च शङ्करम्

॥६५॥

ततो ज्ञास्यन्ति लोकेऽस्मिन्न् एकमूर्ती हरीश्वरौ । प्रत्युवाच जगन्नाथः स पुनस् तं महामुनिम्

॥६६॥

श्रीभगवान् उवाच:

यद् एतत् परमं देवं कारणं भुवनेश्वरम् । लिङ्गम् आराधनार्थाय नानाभावप्रशान्तये

॥६७॥

ममादिष्टेन विप्रेन्द्र कुरु शीघ्रं शिवालयम् । तत्प्रभावाच् छिवलोके तिष्ठ त्वं च तथाक्षयम्

॥६८॥

शिवे संस्थापिते विप्र मम संस्थापनं भवेत् । नावयोर् अन्तरं किञ्चिद् एकभावौ द्विधा कृतौ

॥६९॥

यो रुद्रः स स्वयं विष्णुर् यो विष्णुः स महेश्वरः । उभयोर् अन्तरं नास्ति पवनाकाशयोर् इव

॥७०॥

मोहितो नाभिजानाति य एव गरुडध्वजः । वृषध्वजः स एवेति त्रिपुरघ्नं त्रिलोचनम्

॥७१॥

तव नामाङ्कितं तस्मात् कुरु विप्र शिवालयम् । उत्तरे देवदेवस्य कुरु तीर्थं सुशोभनम्

॥७२॥

मार्कण्डेयह्रदो नाम नरलोकेषु विश्रुतः । भविष्यति द्विजश्रेष्ठ सर्वपापप्रणाशनः

॥७३॥

ब्रह्मोवाच:

इत्य् उक्त्वा स तदा देवस् तत्रैवान्तरधीयत । मार्कण्डेयं मुनिश्रेष्ठाः सर्वव्यापी जनार्दनः

॥७४॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).