अध्यायः ६१
ब्रह्मोवाच:
देवान् पितॄंस् तथा चान्यान् सन्तर्प्याचम्य वाग्यतः । हस्तमात्रं चतुष्कोणं चतुर्द्वारं सुशोभनम्
॥१॥पुरं विलिख्य भो विप्रास् तीरे तस्य महोदधेः । मध्ये तत्र लिखेत् पद्मम् अष्टपत्त्रं सकर्णिकम्
॥२॥एवं मण्डलम् आलिख्य पूजयेत् तत्र भो द्विजाः । अष्टाक्षरविधानेन नारायणम् अजं विभुम्
॥३॥अतः परं प्रवक्ष्यामि कायशोधनम् उत्तमम् । अकारं हृदये ध्यात्वा चक्ररेखासमन्वितम्
॥४॥ज्वलन्तं त्रिशिखं चैव दहन्तं पापनाशनम् । चन्द्रमण्डलमध्यस्थं राकारं मूर्ध्नि चिन्तयेत्
॥५॥शुक्लवर्णं प्रवर्षन्तम् अमृतं प्लावयन् महीम् । एवं निर्धूतपापस् तु दिव्यदेहस् ततो भवेत्
॥६॥अष्टाक्षरं ततो मन्त्रं न्यसेद् एवात्मनो बुधः । वामपादं समारभ्य क्रमशश् चैव विन्यसेत्
॥७॥पञ्चाङ्गं वैष्णवं चैव चतुर्व्यूहं तथैव च । करशुद्धिं प्रकुर्वीत मूलमन्त्रेण साधकः
॥८॥एकैकं चैव वर्णं तु अङ्गुलीषु पृथक् पृथक् । ओङ्कारं पृथिवीं शुक्लां वामपादे तु विन्यसेत्
॥९॥नकारः शाम्भवः श्यामो दक्षिणे तु व्यवस्थितः । मोकारं कालम् एवाहुर् वामकट्यां निधापयेत्
॥१०॥नाकारः सर्वबीजं तु दक्षिणस्यां व्यवस्थितः । राकारस् तेज इत्य् आहुर् नाभिदेशे व्यवस्थितः
॥११॥वायव्योऽयं यकारस् तु वामस्कन्धे समाश्रितः । णाकारः सर्वगो ज्ञेयो दक्षिणांसे व्यवस्थितः । यकारोऽयं शिरस्थश् च यत्र लोकाः प्रतिष्ठिताः
॥१२॥ॐ विष्णवे नमः शिरः ॐ ज्वलनाय नमः शिखा । ॐ विष्णवे नमः कवचम् ॐ विष्णवे नमः स्फुरणं दिशोबन्धाय । ॐ हुम्फडस्त्रम् ॐ शिरसि शुक्लो वासुदेव इति । ॐ आं ललाटे रक्तः सङ्कर्षणो गरुत्मान् वह्निस् तेज आदित्य इति । ॐ आं ग्रीवायां पीतः प्रद्युम्नो वायुमेघ इति । ॐ आं हृदये कृष्णोऽनिरुद्धः सर्वशक्तिसमन्वित इति । एवं चतुर्व्यूहम् आत्मानं कृत्वा ततः कर्म समाचरेत्
॥१३॥ममाग्रेऽवस्थितो विष्णुः पृष्ठतश् चापि केशवः । गोविन्दो दक्षिणे पार्श्वे वामे तु मधुसूदनः
॥१४॥उपरिष्टात् तु वैकुण्ठो वाराहः पृथिवीतले । अवान्तरदिशो यास् तु तासु सर्वासु माधवः
॥१५॥गच्छतस् तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा । नरसिंहकृता गुप्तिर् वासुदेवमयो ह्य् अहम्
॥१६॥एवं विष्णुमयो भूत्वा ततः कर्म समारभेत् । यथा देहे तथा देवे सर्वतत्त्वानि योजयेत्
॥१७॥ततश् चैव प्रकुर्वीत प्रोक्षणं प्रणवेन तु । फट्कारान्तं समुद्दिष्टं सर्वविघ्नहरं शुभम्
॥१८॥तत्रार्कचन्द्रवह्नीनां मण्डलानि विचिन्तयेत् । पद्ममध्ये न्यसेद् विष्णुं पवनस्याम्बरस्य च
॥१९॥ततो विचिन्त्य हृदय ओङ्कारं ज्योतीरूपिणम् । कर्णिकायां समासीनं ज्योतीरूपं सनातनम्
॥२०॥अष्टाक्षरं ततो मन्त्रं विन्यसेच् च यथाक्रमम् । तेन व्यस्तसमस्तेन पूजनं परमं स्मृतम्
॥२१॥द्वादशाक्षरमन्त्रेण यजेद् देवं सनातनम् । ततोऽवधार्य हृदये कर्णिकायां बहिर् न्यसेत्
॥२२॥चतुर्भुजं महासत्त्वं सूर्यकोटिसमप्रभम् । चिन्तयित्वा महायोगं ज्योतीरूपं सनातनम् । ततश् चावाहयेन् मन्त्रं क्रमेणाचिन्त्य मानसे
॥२३॥आवाहनमन्त्रः:
मीनरूपो वराहश् च नरसिंहोऽथ वामनः । आयातु देवो वरदो मम नारायणोऽग्रतः । ॐ नमो नारायणाय नमः
॥२४॥स्थापनमन्त्रः:
कर्णिकायां सुपीठेऽत्र पद्मकल्पितम् आसनम् । सर्वसत्त्वहितार्थाय तिष्ठ त्वं मधुसूदन । ॐ नमो नारायणाय नमः
॥२५॥अर्घमन्त्रः:
ॐ त्रैलोक्यपतीनां पतये देवदेवाय हृषीकेशाय विष्णवे नमः । ॐ नमो नारायणाय नमः
॥२६॥पाद्यमन्त्रः:
ॐ पाद्यं पादयोर् देव पद्मनाभ सनातन । विष्णो कमलपत्त्राक्ष गृहाण मधुसूदन । ॐ नमो नारायणाय नमः
॥२७॥मधुपर्कमन्त्रः:
मधुपर्कं महादेव ब्रह्माद्यैः कल्पितं तव । मया निवेदितं भक्त्या गृहाण पुरुषोत्तम । ॐ नमो नारायणाय नमः
॥२८॥आचमनीयमन्त्रः:
मन्दाकिन्याः सितं वारि सर्वपापहरं शिवम् । गृहाणाचमनीयं त्वं मया भक्त्या निवेदितम् । ॐ नमो नारायणाय नमः
॥२९॥स्नानमन्त्रः:
त्वम् आपः पृथिवी चैव ज्योतिस् त्वं वायुर् एव च । लोकेश वृत्तिमात्रेण वारिणा स्नापयाम्य् अहम् । ॐ नमो नारायणाय नमः
॥३०॥वस्त्रमन्त्रः:
देवतत्त्वसमायुक्त यज्ञवर्णसमन्वित । स्वर्णवर्णप्रभे देव वाससी तव केशव । ॐ नमो नारायणाय नमः
॥३१॥विलेपनमन्त्रः:
शरीरं ते न जानामि चेष्टां चैव च केशव । मया निवेदितो गन्धः प्रतिगृह्य विलिप्यताम् । ॐ नमो नारायणाय नमः
॥३२॥उपवीतमन्त्रः:
ऋग्यजुःसाममन्त्रेण त्रिवृतं पद्मयोनिना । सावित्रीग्रन्थिसंयुक्तम् उपवीतं तवार्पये । ॐ नमो नारायणाय नमः
॥३३॥अलङ्कारमन्त्रः:
दिव्यरत्नसमायुक्त वह्निभानुसमप्रभ । गात्राणि तव शोभन्तु सालङ्काराणि माधव । ॐ नमो नारायणाय नमः
॥३४॥ॐ नम इति प्रत्यक्षरं समस्तेन मूलमन्त्रेण वा पूजयेत्
॥३५॥धूपमन्त्रः:
वनस्पतिरसो दिव्यो गन्धाढ्यः सुरभिश् च ते । मया निवेदितो भक्त्या धूपोऽयं प्रतिगृह्यताम् । ॐ नमो नारायणाय नमः
॥३६॥दीपमन्त्रः:
सूर्यचन्द्रसमो ज्योतिर् विद्युदग्न्योस् तथैव च । त्वम् एव ज्योतिषां देव दीपोऽयं प्रतिगृह्यताम् । ॐ नमो नारायणाय नमः
॥३७॥नैवेद्यमन्त्रः:
अन्नं चतुर्विधं चैव रसैः षड्भिः समन्वितम् । मया निवेदितं भक्त्या नैवेद्यं तव केशव । ॐ नमो नारायणाय नमः
॥३८॥पूर्वे दले वासुदेवं याम्ये सङ्कर्षणं न्यसेत् । प्रद्युम्नं पश्चिमे कुर्याद् अनिरुद्धं तथोत्तरे
॥३९॥वाराहं च तथाग्नेये नरसिंहं च नैरृते । वायव्ये माधवं चैव तथैशाने त्रिविक्रमम्
॥४०॥तथाष्टाक्षरदेवस्य गरुडं पुरतो न्यसेत् । वामपार्श्वे तथा चक्रं शङ्खं दक्षिणतो न्यसेत्
॥४१॥तथा महागदां चैव न्यसेद् देवस्य दक्षिणे । ततः शार्ङ्गं धनुर् विद्वान् न्यसेद् देवस्य वामतः
॥४२॥दक्षिणेनेषुधी दिव्ये खड्गं वामे च विन्यसेत् । श्रियं दक्षिणतः स्थाप्य पुष्टिम् उत्तरतो न्यसेत्
॥४३॥वनमालां च पुरतस् ततः श्रीवत्सकौस्तुभौ । विन्यसेद् धृदयादीनि पूर्वादिषु चतुर्दिशम्
॥४४॥ततोऽस्त्रं देवदेवस्य कोणे चैव तु विन्यसेत् । इन्द्रम् अग्निं यमं चैव नैरृतं वरुणं तथा
॥४५॥वायुं धनदम् ईशानम् अनन्तं ब्रह्मणा सह । पूजयेत् तान्त्रिकैर् मन्त्रैर् अधश् चोर्ध्वं तथैव च
॥४६॥एवं सम्पूज्य देवेशं मण्डलस्थं जनार्दनम् । लभेद् अभिमतान् कामान् नरो नास्त्य् अत्र संशयः
॥४७॥अनेनैव विधानेन मण्डलस्थं जनार्दनम् । पूजितं यः सम्पश्येत स विशेद् विष्णुम् अव्ययम्
॥४८॥सकृद् अप्य् अर्चितो येन विधिनानेन केशवः । जन्ममृत्युजरां तीर्त्वा स विष्णोः पदम् आप्नुयात्
॥४९॥यः स्मरेत् सततं भक्त्या नारायणम् अतन्द्रितः । अन्वहं तस्य वासाय श्वेतद्वीपः प्रकल्पितः
॥५०॥ओङ्कारादिसमायुक्तं नमःकारान्तदीपितम् । तन्नाम सर्वतत्त्वानां मन्त्र इत्य् अभिधीयते
॥५१॥अनेनैव विधानेन गन्धपुष्पं निवेदयेत् । एकैकस्य प्रकुर्वीत यथोद्दिष्टं क्रमेण तु
॥५२॥मुद्रास् ततो निबध्नीयाद् यथोक्तक्रमचोदिताः । जपं चैव प्रकुर्वीत मूलमन्त्रेण मन्त्रवित्
॥५३॥अष्टाविंशतिम् अष्टौ वा शतम् अष्टोत्तरं तथा । कामेषु च यथाप्रोक्तं यथाशक्ति समाहितः
॥५४॥पद्मं शङ्खश् च श्रीवत्सो गदा गरुड एव च । चक्रं खड्गश् च शार्ङ्गं च अष्टौ मुद्राः प्रकीर्तिताः
॥५५॥विसर्जनमन्त्रः:
गच्छ गच्छ परं स्थानं पुराणपुरुषोत्तम । यत्र ब्रह्मादयो देवा विन्दन्ति परमं पदम् । [ॐ नमो नारायणायेति विसर्जनम्]
॥५६॥अर्चनं ये न जानन्ति हरेर् मन्त्रैर् यथोदितम् । ते तत्र मूलमन्त्रेण पूजयन्त्व् अच्युतं सदा
॥५७॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).