मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ७८

3
ब्रह्मपुराणम् · 78

अध्यायः ७८

नारद उवाच:

द्विविधा सैव गदिता एकापि सुरसत्तम । एको भेदस् तु कथितो ब्राह्मणेनाहृतो यतः

॥१॥

क्षत्रियेणापरोऽप्य् अंशो जटास्व् एव व्यवस्थितः । भवस्य देवदेवस्य आहृतस् तद् वदस्व मे

॥२॥

ब्रह्मोवाच:

वैवस्वतान्वये जात इक्ष्वाकुकुलसम्भवः । पुरा वै सगरो नाम राजासीद् अतिधार्मिकः

॥३॥

यज्वा दानपरो नित्यं धर्माचारविचारवान् । तस्य भार्याद्वयं चासीत् पतिभक्तिपरायणम्

॥४॥

तस्य वै सन्ततिर् नाभूद् इति चिन्तापरोऽभवत् । वसिष्ठं गृहम् आहूय सम्पूज्य विधिवत् ततः

॥५॥

उवाच वचनं राजा सन्ततेः कारणं प्रति । इति तद्वचनं श्रुत्वा ध्यात्वा राजानम् अब्रवीत्

॥६॥

वसिष्ठ उवाच:

सपत्नीकः सदा राजन्न् ऋषिपूजापरो भव

॥७॥

ब्रह्मोवाच:

इत्य् उक्त्वा स मुनिर् विप्र यथास्थानं जगाम ह । एकदा तस्य राजर्षेर् गृहम् आगात् तपोनिधिः

॥८॥

तस्यर्षेः पूजनं चक्रे स सन्तुष्टोऽब्रवीद् वचम् । वरं ब्रूहि महाभागेत्य् उक्ते पुत्रान् स चावृणोत्

॥९॥

स मुनिः प्राह राजानम् एकस्यां वंशधारकः । पुत्रो भूयात् तथान्यस्यां षष्टिसाहस्रकं सुताः

॥१०॥

वरं दत्त्वा मुनौ याते पुत्रा जाताः सहस्रशः । स यज्ञान् सुबहूंश् चक्रे हयमेधान् सुदक्षिणान्

॥११॥

एकस्मिन् हयमेधे वै दीक्षितो विधिवन् नृपः । पुत्रान् न्ययोजयद् राजा ससैन्यान् हयरक्षणे

॥१२॥

क्वचिद् अन्तरम् आसाद्य हयं जह्रे शतक्रतुः । मार्गमाणाश् च ते पुत्रा नैवापश्यन् हयं तदा

॥१३॥

सहस्राणां तथा षष्टिर् नानायुद्धविशारदाः । तेषु पश्यत्सु रक्षांसि पुत्रेषु सगरस्य हि

॥१४॥

प्रोक्षितं तद् धयं नीत्वा ते रसातलम् आगमन् । राक्षसान् मायया युक्तान् नैवापश्यन्त सागराः

॥१५॥

न दृष्ट्वा ते हयं पुत्राः सगरस्य बलीयसः । इतश् चेतश् चरन्तस् ते नैवापश्यन् हयं तदा

॥१६॥

देवलोकं तदा जग्मुः पर्वतांश् च सरांसि च । वनानि च विचिन्वन्तो नैवापश्यन् हयं तदा

॥१७॥

कृतस्वस्त्ययनो राजा ऋत्विग्भिः कृतमङ्गलः । अदृष्ट्वा तु पशुं रम्यं राजा चिन्ताम् उपेयिवान्

॥१८॥

अटन्तः सागराः सर्वे देवलोकम् उपागमन् । हयं तम् अनुचिन्वन्तस् तत्रापि न हयोऽभवत्

॥१९॥

ततो महीं समाजग्मुः पर्वतांश् च वनानि च । तत्रापि च हयं नैव दृष्टवन्तो नृपात्मजाः

॥२०॥

एतस्मिन्न् अन्तरे तत्र दैवी वाग् अभवत् तदा । रसातले हयो बद्ध आस्ते नान्यत्र सागराः

॥२१॥

इति श्रुत्वा ततो वाक्यं गन्तुकामा रसातलम् । अखनन् पृथिवीं सर्वां परितः सागरास् ततः

॥२२॥

ते क्षुधार्ता मृदं शुष्कां भक्षयन्तस् त्व् अहर्निशम् । न्यखनंश् चापि जग्मुश् च सत्वरास् ते रसातलम्

॥२३॥

तान् आगतान् भूपसुतान् सागरान् बलिनः कृतीन् । श्रुत्वा रक्षांसि सन्त्रस्ता व्यगमन् कपिलान्तिकम्

॥२४॥

कपिलोऽपि महाप्राज्ञस् तत्र शेते रसातले । पुरा च साधितं तेन देवानां कार्यम् उत्तमम्

॥२५॥

विनिद्रेण ततः श्रान्तः सिद्धे कार्ये सुरान् प्रति । अब्रवीत् कपिलः श्रीमान् निद्रास्थानं प्रयच्छथ

॥२६॥

रसातलं ददुस् तस्मै पुनर् आह सुरान् मुनिः । यो माम् उत्थापयेन् मन्दो भस्मी भूयाच् च सत्वरम्

॥२७॥

ततः शये तलगतो नो चेन् न स्वप्न एव हि । तथेत्य् उक्तः सुरगणैस् तत्र शेते रसातले

॥२८॥

तस्य प्रभावं ते ज्ञात्वा राक्षसा मायया युताः । सागराणां च सर्वेषां वधोपायं प्रचक्रिरे

॥२९॥

विना युद्धेन ते भीता राक्षसाः सत्वरास् तदा । आगत्य यत्र स मुनिः कपिलः कोपनो महान्

॥३०॥

शिरोदेशे हयं ते वै बद्ध्वाथ त्वरयान्विताः । दूरे स्थित्वा मौनिनश् च प्रेक्षन्तः किं भवेद् इति

॥३१॥

ततस् तु सागराः सर्वे निर्विशन्तो रसातलम् । ददृशुस् ते हयं बद्धं शयानं पुरुषं तथा

॥३२॥

तं मेनिरे च हर्तारं क्रतुहन्तारम् एव च । एनं हत्वा महापापं नयामोऽश्वं नृपान्तिकम्

॥३३॥

केचिद् ऊचुः पशुं बद्धं नयामोऽनेन किं फलम् । तदाहुर् अपरे शूरा राजानः शासका वयम्

॥३४॥

उत्थाप्यैनं महापापं हन्मः क्षात्रेण वर्चसा । ते तं जघ्नुर् मुनिं पादैर् ब्रुवन्तो निष्ठुराणि च

॥३५॥

ततः कोपेन महता कपिलो मुनिसत्तमः । सागरान् ईक्षयाम् आस तान् कोपाद् भस्मसात् करोत्

॥३६॥

जज्वलुस् ते ततस् तत्र सागराः सर्व एव हि । तत् तु सर्वं न जानाति दीक्षितः सगरो नृपः

॥३७॥

नारदः कथयाम् आस सगराय महात्मने । कपिलस्य तु संस्थानं हयस्यापि तु संस्थितिम्

॥३८॥

राक्षसानां तु विकृतिं सागराणां च नाशनम् । ततश् चिन्तापरो राजा कर्तव्यं नावबुध्यत

॥३९॥

अपरोऽपि सुतश् चासीद् असमञ्जा इति श्रुतः । स तु बालांस् तथा पौरान् मौर्ख्यात् क्षिपति चाम्भसि

॥४०॥

सगरोऽप्य् अथ विज्ञप्तः पौरैः सम्मिलितैस् तदा । दुर्नयं तस्य तं ज्ञात्वा ततः क्रुद्धोऽब्रवीन् नृपः

॥४१॥

स्वान् अमात्यांस् तदा राजा देशत्यागं करोत्व् अयम् । असमञ्जाः क्षत्रधर्मत्यागी वै बालघातकः

॥४२॥

सगरस्य तु तद् वाक्यं श्रुत्वामात्यास् त्वरान्विताः । तत्यजुर् नृपतेः पुत्रम् असमञ्जा गतो वनम्

॥४३॥

सागरा ब्रह्मशापेन नष्टाः सर्वे रसातले । एकोऽपि च वनं प्राप्त इदानीं का गतिर् मम

॥४४॥

अंशुमान् इति विख्यातः पुत्रस् तस्यासमञ्जसः । आनाय्य बालकं राजा कार्यं तस्मै न्यवेदयत्

॥४५॥

कपिलं च समाराध्य अंशुमान् अपि बालकः । सगराय हयं प्रादात् ततः पूर्णोऽभवत् क्रतुः

॥४६॥

तस्यापि पुत्रस् तेजस्वी दिलीप इति धार्मिकः । तस्यापि पुत्रो मतिमान् भगीरथ इति श्रुतः

॥४७॥

पितामहानां सर्वेषां गतिं श्रुत्वा सुदुःखितः । सगरं नृपशार्दूलं पप्रच्छ विनयान्वितः

॥४८॥

सागराणां तु सर्वेषां निष्कृतिस् तु कथं भवेत् । भगीरथं नृपः प्राह कपिलो वेत्ति पुत्रक

॥४९॥

तस्य तद् वचनं श्रुत्वा बालः प्रायाद् रसातलम् । कपिलं च नमस्कृत्वा सर्वं तस्मै न्यवेदयत्

॥५०॥

स मुनिस् तु चिरं ध्यात्वा तपसाराध्य शङ्करम् । जटाजलेन स्वपितॄन् आप्लाव्य नृपसत्तम

॥५१॥

ततः कृतार्थो भविता त्वं च ते पितरस् तथा । तथा करोमीति मुनिं प्रणम्य पुनर् अब्रवीत्

॥५२॥

क्व गच्छेऽहं मुनिश्रेष्ठ कर्तव्यं चापि तद् वद

॥५३॥

कपिल उवाच:

कैलासं तं नरश्रेष्ठ गत्वा स्तुहि महेश्वरम् । तपः कुरु यथाशक्ति ततश् चेप्सितम् आप्स्यसि

॥५४॥

ब्रह्मोवाच:

तच् छ्रुत्वा स मुनेर् वाक्यं मुनिं नत्वा त्व् अगान् नगम् । कैलासं स शुचिर् भूत्वा बालो बालक्रियान्वितः । तपसे निश्चयं कृत्वा उवाच स भगीरथः

॥५५॥

भगीरथ उवाच:

बालोऽहं बालबुद्धिश् च बालचन्द्रधर प्रभो । नाहं किमपि जानामि ततः प्रीतो भव प्रभो

॥५६॥

वाग्भिर् मनोभिः कृतिभिः कदाचिन् । ममोपकुर्वन्ति हिते रता ये । तेभ्यो हितार्थं त्व् इह चामरेश । सोमं नमस्यामि सुरादिपूज्यम्

॥५७॥

उत्पादितो यैर् अभिवर्धितश् च । समानगोत्रश् च समानधर्मा । तेषाम् अभीष्टानि शिवः करोतु । बालेन्दुमौलिं प्रणतोऽस्मि नित्यम्

॥५८॥

ब्रह्मोवाच:

एवं तु ब्रुवतस् तस्य पुरस्ताद् अभवच् छिवः । वरेण च्छन्दयानो वै भगीरथम् उवाच ह

॥५९॥

शिव उवाच:

यन् न साध्यं सुरगणैर् देयं तत् ते मया ध्रुवम् । वदस्व निर्भयो भूत्वा भगीरथ महामते

॥६०॥

ब्रह्मोवाच:

भगीरथः प्रणम्येशं हृष्टः प्रोवाच शङ्करम्

॥६१॥

भगीरथ उवाच:

जटास्थितां पितॄणां मे पावनाय सरिद्वराम् । ताम् एव देहि देवेश सर्वम् आप्तं ततो भवेत्

॥६२॥

ब्रह्मोवाच:

महेशोऽपि विहस्याथ भगीरथम् उवाच ह

॥६३॥

शिव उवाच:

दत्ता मयेयं ते पुत्र पुनस् तां स्तुहि सुव्रत

॥६४॥

ब्रह्मोवाच:

तद् देववचनं श्रुत्वा तदर्थं तु तपो महत् । स्तुतिं चकार गङ्गाया भक्त्या प्रयतमानसः

॥६५॥

तस्या अपि प्रसादं च प्राप्य बालोऽप्य् अबालवत् । गङ्गां महेश्वरात् प्राप्ताम् आदायागाद् रसातलम्

॥६६॥

न्यवेदयत् स मुनये कपिलाय महात्मने । यथोदितप्रकारेण गङ्गां संस्थाप्य यत्नतः

॥६७॥

प्रदक्षिणम् अथावर्त्य कृताञ्जलिपुटोऽब्रवीत्

॥६८॥

भगीरथ उवाच:

देवि मे पितरः शापात् कपिलस्य महामुनेः । प्राप्तास् ते विगतिं मातस् तस्मात् तान् पातुम् अर्हसि

॥६९॥

ब्रह्मोवाच:

तथेत्य् उक्त्वा सुरनदी सर्वेषाम् उपकारिका । लोकानाम् उपकारार्थं पितॄणां पावनाय च

॥७०॥

अगस्त्यपीतस्याम्भोधेः पूरणाय विशेषतः । स्मरणाद् एव पापानां नाशाय सुरनिम्नगा

॥७१॥

भगीरथोदितं चक्रे रसातलतले स्थितान् । भस्मीभूतान् नृपसुतान् सागरांश् च विशेषतः

॥७२॥

विनिर्दग्धान् अथाप्लाव्य खातपूरम् अथाकरोत् । ततो मेरुं समाप्लाव्य स्थितां बालोऽब्रवीन् नृपः

॥७३॥

कर्मभूमौ त्वया भाव्यं तथेत्य् आगाद् धिमालयम् । हिमवत्पर्वतात् पुण्याद् भारतं वर्षम् अभ्यगात्

॥७४॥

तन्मध्यतः पुण्यनदी प्रायात् पूर्वार्णवं प्रति । एवम् एषापि ते प्रोक्ता गङ्गा क्षात्रा महामुने

॥७५॥

माहेश्वरी वैष्णवी च सैव ब्राह्मी च पावनी । भागीरथी देवनदी हिमवच्छिखराश्रया

॥७६॥

महेश्वरजटावारि एवं द्वैविध्यम् आगतम् । विन्ध्यस्य दक्षिणे गङ्गा गौतमी सा निगद्यते । उत्तरे सापि विन्ध्यस्य भागीरथ्य् अभिधीयते

॥७७॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).