अध्यायः ८८
ब्रह्मोवाच:
तस्माद् अप्य् अपरं तीर्थं जनस्थानम् इति श्रुतम् । चतुर्योजनविस्तीर्णं स्मरणान् मुक्तिदं नृणाम्
॥१॥वैवस्वतान्वये जातो राजाभूज् जनकः पुरा । सोऽपाम्पतेस् तु तनुजाम् उपयेमे गुणार्णवाम्
॥२॥धर्मार्थकाममोक्षाणां जनकां जनको नृपः । अनुरूपगुणत्वाच् च तस्य भार्या गुणार्णवा
॥३॥याज्ञवल्क्यश् च विप्रेन्द्रस् तस्य राज्ञः पुरोहितः । तम् अपृच्छन् नृपश्रेष्ठो याज्ञवल्क्यं पुरोहितम्
॥४॥जनक उवाच:
भुक्तिमुक्ती उभे श्रेष्ठे निर्णीते मुनिसत्तमैः । दासीदासेभतुरगरथाद्यैर् भुक्तिर् उत्तमा
॥५॥किन्त्व् अन्तविरसा भुक्तिर् मुक्तिर् एका निरत्यया । भुक्तेर् मुक्तिः श्रेष्ठतमा भुक्त्या मुक्तिं कथं व्रजेत्
॥६॥सर्वसङ्गपरित्यागान् मुक्तिप्राप्तिः सुदुःखतः । तद् ब्रूहि द्विजशार्दूल सुखान् मुक्तिः कथं भवेत्
॥७॥याज्ञवल्क्य उवाच:
अपाम्पतिस् तव गुरुः श्वशुरः प्रियकृत् तथा । तं गत्वा पृच्छ नृपते उपदेक्ष्यति ते हितम्
॥८॥याज्ञवल्क्यश् च जनको राजानं वरुणं तदा । गत्वा चोचतुर् अव्यग्रौ मुक्तिमार्गं यथाक्रमम्
॥९॥वरुण उवाच:
द्विधा तु संस्थिता मुक्तिः कर्मद्वारेऽप्य् अकर्मणि । वेदे च निश्चितो मार्गः कर्म ज्यायो ह्य् अकर्मणः
॥१०॥सर्वं च कर्मणा बद्धं पुरुषार्थचतुष्टयम् । अकर्मणैवाप्यत इति मुक्तिमार्गो मृषोच्यते
॥११॥कर्मणा सर्वधान्यानि सेत्स्यन्ति नृपसत्तम । तस्मात् सर्वात्मना कर्म कर्तव्यं वैदिकं नृभिः
॥१२॥तेन भुक्तिं च मुक्तिं च प्राप्नुवन्तीह मानवाः । अकर्मणः कर्म पुण्यं कर्म चाप्य् आश्रमेषु च
॥१३॥जात्याश्रितं च राजेन्द्र तत्रापि शृणु धर्मवित् । आश्रमाणि च चत्वारि कर्मद्वाराणि मानद
॥१४॥चतुर्णाम् आश्रमाणां च गार्हस्थ्यं पुण्यदं स्मृतम् । तस्माद् भुक्तिश् च मुक्तिश् च भवतीति मतिर् मम
॥१५॥ब्रह्मोवाच:
एतच् छ्रुत्वा तु जनको याज्ञवल्क्यश् च बुद्धिमान् । वरुणं पूजयित्वा तु पुनर् वचनम् ऊचतुः
॥१६॥को देशः किं च तीर्थं स्याद् भुक्तिमुक्तिप्रदायकम् । तद् वदस्व सुरश्रेष्ठ सर्वज्ञोऽसि नमोऽस्तु ते
॥१७॥वरुण उवाच:
पृथिव्यां भारतं वर्षं दण्डकं तत्र पुण्यदम् । तस्मिन् क्षेत्रे कृतं कर्म भुक्तिमुक्तिप्रदं नृणाम्
॥१८॥तीर्थानां गौतमी गङ्गा श्रेष्ठा मुक्तिप्रदा नृणाम् । तत्र यज्ञेन दानेन भोगान् मुक्तिम् अवाप्स्यति
॥१९॥ब्रह्मोवाच:
याज्ञवल्क्यश् च जनको वाचं श्रुत्वा ह्य् अपाम्पतेः । वरुणेन ह्य् अनुज्ञातौ स्वपुरीं जग्मतुस् तदा
॥२०॥अश्वमेधादिकं कर्म चकार जनको नृपः । याजयाम् आस विप्रेन्द्रो याज्ञवल्क्यश् च तं नृपम्
॥२१॥गङ्गातीरं समाश्रित्य यज्ञान् मुक्तिम् अवाप राट् । तथा जनकराजानो बहवस् तत्र कर्मणा
॥२२॥मुक्तिं प्रापुर् महाभागा गौतम्याश् च प्रसादतः । ततः प्रभृति तत् तीर्थं जनस्थानेति विश्रुतम्
॥२३॥जनकानां यज्ञसदो जनस्थानं प्रकीर्तितम् । चतुर्योजनविस्तीर्णं स्मरणात् सर्वपापनुत्
॥२४॥तत्र स्नानेन दानेन पितॄणां तर्पणेन तु । तीर्थस्य स्मरणाद् वापि गमनाद् भक्तिसेवनात्
॥२५॥सर्वान् कामान् अवाप्नोति मुक्तिं च समवाप्नुयात्
॥२६॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).