अध्यायः ९३
ब्रह्मोवाच:
यत्र दाशरथी रामः सीतया सहितो द्विज । पितॄन् सन्तर्पयाम् आस पितृतीर्थं ततो विदुः
॥१॥तत्र स्नानं च दानं च पितॄणां तर्पणं तथा । सर्वम् अक्षयताम् एति नात्र कार्या विचारणा
॥२॥यत्र दाशरथी रामो विश्वामित्रं महामुनिम् । पूजयाम् आस राजेन्द्रो मुनिभिस् तत्त्वदर्शिभिः
॥३॥विश्वामित्रं तु तत् तीर्थम् ऋषिजुष्टं सुपुण्यदम् । तत्स्वरूपं च वक्ष्यामि पठितं वेदवादिभिः
॥४॥अनावृष्टिर् अभूत् पूर्वं प्रजानाम् अतिभीषणा । विश्वामित्रो महाप्राज्ञः सशिष्यो गौतमीम् अगात्
॥५॥शिष्यान् पुत्रांश् च जायां च कृशान् दृष्ट्वा क्षुधातुरान् । व्यथितः कौशिकः श्रीमाञ् शिष्यान् इदम् उवाच ह
॥६॥विश्वामित्र उवाच:
यथा कथञ्चिद् यत् किञ्चिद् यत्र क्वापि यथा तथा । आनीयतां किन्तु भक्ष्यं भोज्यं वा मा विलम्ब्यताम् । इदानीम् एव गन्तव्यम् आनेतव्यं क्षणेन तु
॥७॥ब्रह्मोवाच:
ऋषेस् तद् वचनाच् छिष्याः क्षुधितास् त्वरया ययुः । अटमाना इतश् चेतो मृतं ददृशिरे शुनम्
॥८॥तम् आदाय त्वरायुक्ता आचार्याय न्यवेदयन् । सोऽपि तं भद्रम् इत्य् उक्त्वा प्रतिजग्राह पाणिना
॥९॥विशसध्वं श्वमांसं च क्षालयध्वं च वारिणा । पचध्वं मन्त्रवच् चापि हुत्वाग्नौ तु यथाविधि
॥१०॥देवान् ऋषीन् पितॄन् अन्यांस् तर्पयित्वातिथीन् गुरून् । सर्वे भोक्ष्यामहे शेषम् इत्य् उवाच स कौशिकः
॥११॥विश्वामित्रवचः श्रुत्वा शिष्याश् चक्रुस् तथैव तत् । पच्यमाने श्वमांसे तु देवदूतोऽग्निर् अभ्यगात् । देवानां सदने सर्वं देवेभ्यस् तन् न्यवेदयत्
॥१२॥अग्निर् उवाच:
देवैः श्वमांसं भोक्तव्यम् आपन्नम् ऋषिकल्पितम्
॥१३॥ब्रह्मोवाच:
अग्नेस् तद्वचनाद् इन्द्रः श्येनो भूत्वा विहायसि । स्थालीम् अथाहरत् पूर्णां मांसेन पिहितां तदा
॥१४॥तत् कर्म दृष्ट्वा शिष्यास् ते ऋषेः श्येनं न्यवेदयन् । हृता स्थाली मुनिश्रेष्ठ श्येनेनाकृतबुद्धिना
॥१५॥ततश् चुकोप भगवाञ् शप्तुकामस् तदा हरिम् । ततो ज्ञात्वा सुरपतिः स्थालीं चक्रे मधुप्लुताम्
॥१६॥पुनर् निवेशयाम् आस उल्कास्व् एव खगो हरिः । मधुना तु समायुक्तां विश्वामित्रश् चुकोप ह । स्थालीं वीक्ष्य ततः कोपाद् इदम् आह स कौशिकः
॥१७॥विश्वामित्र उवाच:
श्वमांसम् एव नो देहि त्वं हरामृतम् उत्तमम् । नो चेत् त्वां भस्मसात् कुर्याम् इन्द्रो भीतस् तदाब्रवीत्
॥१८॥इन्द्र उवाच:
मधु हुत्वा यथान्यायं पिब पुत्रैः समन्वितः । किम् अनेन श्वमांसेन अमेध्येन महामुने
॥१९॥ब्रह्मोवाच:
विश्वामित्रोऽपि नेत्य् आह भुक्तेनैकेन किं फलम् । प्रजाः सर्वाश् च सीदन्ति किं तेन मधुना हरे
॥२०॥सर्वेषाम् अमृतं चेत् स्याद् भोक्ष्येऽहम् अमृतं शुचि । अथवा देवपितरो भोक्ष्यन्तीदं श्वमांसकम्
॥२१॥पश्चाद् अहं तच् च मांसं भोक्ष्ये नानृतम् अस्ति मे । ततो भीतः सहस्राक्षो मेघान् आहूय तत्क्षणात्
॥२२॥ववर्ष चामृतं वारि ह्य् अमृतेनार्पिताः प्रजाः । पश्चात् तद् अमृतं पुण्यं हरिदत्तं यथाविधि
॥२३॥तर्पयित्वा सुरान् आदौ तर्पयित्वा जगत्त्रयम् । विप्रः सम्भुक्तवाञ् शिष्यैर् विश्वामित्रः स्वभार्यया
॥२४॥ततः प्रभृति तत् तीर्थम् आख्यातं चातिपुण्यदम् । यत्रागतः सुरपतिर् लोकानाम् अमृतार्पणम्
॥२५॥सञ्जातं मांसवर्जं तु तत् तीर्थं पुण्यदं नृणाम् । तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम्
॥२६॥ततः प्रभृति तत् तीर्थं विश्वामित्रम् इति स्मृतम् । मधुतीर्थम् अथैन्द्रं च श्येनं पर्जन्यम् एव च
॥२७॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).