आचमनं

  • ओं अच्युताय नम​:
  • ओं अनन्ताय नम​:
  • ओं गोविन्दाय नम​:
केशवनारायणमाधव
गोविन्दविष्णुमधुसूदन
त्रिविक्रमवामनश्रीधर
हृषीकेश​पद्मनाभ​दामोदरा

श्री गणपति ध्यानं

शुक्लां बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्न वदनं ध्यायेत् सर्व विध्नोप शांतये ॥

प्राणायाम​:

ऒं भू: ऒं भुव: ऒं स्व: ऒं मह: ऒं जन​: ऒं तप: ऒं सत्यं ।

ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑॑त् ॥

ऒं आपो॒ ज्योती॒रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्वरोम् ।

सङ्कल्पम्

होम​:

लौकिकाग्निम् प्रतिष्ठाप्य । अग्निमिध्वा । प्रज्वाल्य​

अग्नये समिधमाहार्षम् ब्रुहते जातवेदसे तया त्वमग्ऩे वर्धस्व समिधा ब्रह्मणा वयम् स्वाहा॑ । अग्नये समिद्यमानाय इदम् न मम ।

ओम् तेजसा मा समनज्मि । ( x 3)

स्वाहा॑ ।

ओम् भूर्भुव​:स्व॑: । (x 3)

त्रि: परिषिच्य​

उपस्थाऩम्

अग्ने: उपस्थानम् करिष्ये ।

मयि॑ मे॒धाम् मयि॑ प्र॒जाम् मय्य॒ग्नि: तेजो॑ दधातु । मयि॑ मे॒धाम् मयि॑ प्र॒जाम् मयीन्द्र॑ इन्द्रि॒यम् दधातु । मयि॑ मे॒धाम् मयि॑ प्र॒जाम् मयि॒ सूर्यो॒ भ्राजो॑ दधातु । अग्नये नम​: ।

मन्त्रहीऩम् क्रियाहीऩम् भक्तिहीऩम् हुताशऩा । यद्धुतम् तु मया देव परिपूर्णम् तदस्तु ते ॥ प्रायश्चित्ताऩ्यशेषाणि तप​: कर्मात्मकानि वै । यानि तेषामशेषाणाम् क्रुष्णाऩुस्मरणम् परम् ॥

कृष्ण​ कृष्ण​ कृष्ण​ । (x 4)

अभिवाद नमस्कार​:

अभिवादये ___ त्रयार्षेय ​/ पञ्चार्षेय प्रवरान्वित ___ गोत्र​: ___ आश्वलायन सूत्र​: ___ ऋग्वेदान्तर्गत शाकल शाखाध्यायी ___ शर्मा नाम अहं अस्मि भो:।

भस्मधारणम्

  • त्रयायुषम् जमदग्ने: – (ललाटे)
  • कश्यपस्य त्रयायुषम् – (कण्ठे)
  • अगस्त्यस्य त्रयायुषम् – (नाभ्याम्)
  • यद्देवाऩाम् त्रयायुषम् – (दक्षिणबाहौ)
  • तऩ्मे अस्तु त्रयायुषम् – (वामबाहौ )
  • सर्वमस्तु त्रयायुषम् – (ककुदि)
  • बलायुषम् – (शिरसि)

प्रार्थऩा

ओम् स्वस्ति श्रद्धाम् मेधाम् यश: प्रज्ञाम् विद्याम् बुद्धिम् श्रियम् बलम् आयुष्यम् तेज आरोग्यम् देहि मे हव्यवाहऩ । श्रियम् देहि मे हव्यवाहऩ ओम् नम इति ।

कायेन वाचा मनसेंद्रियैर्वा बुध्यात्मनावा प्रक्रुते स्वभावात् । करोमि यद्यत्सकलं परस्मै नारायाणायेति समर्पयामि ॥

आचमनं

  • ओं अच्युताय नम​:
  • ओं अनन्ताय नम​:
  • ओं गोविन्दाय नम​:
केशवनारायणमाधव
गोविन्दविष्णुमधुसूदन
त्रिविक्रमवामनश्रीधर
हृषीकेश​पद्मनाभ​दामोदरा

॥ ओं तत्सत् ब्रह्मार्पणमस्तु ॥

Read also in: English (IAST) देवनागरी தமிழ்

Leave a Reply

Your email address will not be published. Required fields are marked *