आपस्तम्ब ब्रह्मयज्ञम्
- ओं अच्युताय नम:
- ओं अनन्ताय नम:
- ओं गोविन्दाय नम:
केशव | नारायण | माधव |
---|---|---|
गोविन्द | विष्णु | मधुसूदन |
त्रिविक्रम | वामन | श्रीधर |
हृषीकेश | पद्मनाभ | दामोदरा |
श्री गणपति ध्यानं
Section titled “श्री गणपति ध्यानं”शुक्लां बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्न वदनं ध्यायेत् सर्व विध्नोप शांतये ॥
प्राणायाम:
Section titled “प्राणायाम:”ऒं भू: ऒं भुव: ओꣳसुव: ऒं मह: ऒं जन: ऒं तप: ऒं ꣳसत्यं । ऒं तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया᳚त् ॥ ऒं आपो॒ ज्योती॒रसो॒म्रुतं॒ ब्रह्म॒ भूर्भुव॒सुव॒रोम् ।
सङ्कल्पम्
Section titled “सङ्कल्पम्”ममोपात्त समस्त दुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थं ब्रह्मयज्ञं करिष्ये । ब्रह्मयज्ञेन यक्ष्ये ।
विद्यु॑दसि॒ विद्य॑ मे पा॒पमान॑मृ॒तात् स॒त्यमुपै॑मि ।
हस्तौ प्रक्षाल्य त्रिराचमेत् । उपस्थं कृत्वा ।
ॐ भूः । तत्स॑वि॒तुर्वरे᳚ण्यं॒ । ॐ भुवः । भर्गो॑ दे॒वस्य॑ धीमहि । ओꣳ सुवः । धियो॒ यो नः॑ प्रचो॒दया᳚त् । ॐ भूः तत्स॑वि॒तुर्वरे᳚ण्यं॒ । भर्गो॑ दे॒वस्य॑ धीमहि । ॐ भुवः । धियो॒ यो नः॑ प्रचो॒दया᳚त् । ओꣳ सुवः । तत्स॑वि॒तुर्वरे᳚ण्यं॒ । भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया᳚त् ।
अग्निमीळे - मधुच्छन्दः । अग्निः । गायत्री ।
॥ वेदादयः ॥
हरिः ॐ । अ॒ग्निमी᳚ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विजम्᳚। होता᳚रं रत्न॒-धात॑मम् ॥ हरिः॑ ॐ॥
हरिः ॐ । इ॒षेत्वो॒र्जे त्वा॑ वा॒यवः॑ स्थो पा॒यवः॑ स्थ दे॒वो वः॑ सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑णे ॥ हरिः॑ ॐ॥
हरिः ॐ । अग्न॒ आया॑हि वी॒तये॑ गृणा॒नो ह॒व्यदा॑तये । नि होता॑ सथ्सि ब॒र्हिषि॑ ॥ हरिः॑ ॐ॥
हरिः ॐ । शन्नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये᳚ । शं योर॒भिस्र॑वन्तु नः ॥ हरिः॑ ॐ॥
ॐ भूर्भुवः॒ सुवः॑ ।
सत्यं तपः श्रद्धायां॑ जुहो॒मि ॥
ॐ॥ नमो॒ ब्रह्म॑णे॒ नमो॑ अस्त्व॒ग्नये॒ नमः॑ पृथि॒व्यै नम॒ ओष॑धीभ्यः। नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये॒ नमो॒ विष्ण॑वे बृह॒ते क॑रोमि॥ (त्रिः)
वृष्टि॑रसि॒ वृश्च॑मे पा॒प्मान॑मृ॒तात्स॒त्यमुपागाम् ॥
हस्तौ प्रक्षाल्य ।
देवर्षि-पितृ-तर्पणं करिष्ये ॥
॥ देवर्षिपितृ - तर्पणम् ॥
उपवीती । सकृत् देवतीर्थेन ।
१.ब्रह्मादयो ये देवाः तान् देवाꣴस्तर्पयामि | २.सर्वान् देवाꣴस्तर्पयामि |
---|---|
३.सर्वदेवगणाꣴस्तर्पयामि | ४.सर्वदेवपत्नीस्तर्पयामि |
५.सर्वदेवगणपत्नीस्तर्पयामि |
निवीती । द्विः । ऋषितीर्थेन ।
१.कृष्णद्वैपायनादयो ये ऋषयस्तान् ऋषीꣴस्तर्पयामि | २.सर्वान् ऋषीꣴस्तर्पयामि | ३.सर्वर्षिगणाꣴस्तर्पयामि |
---|---|---|
४.सर्वर्षिपत्नीस्तर्पयामि | ५.सर्वर्षिगणपत्नीस्तर्पयामि | ६.प्रजापतिं काण्डऋषिं तर्पयामि |
७.सोमं काण्डऋषिं तर्पयामि | ८.अग्निं काण्डऋषिं तर्पयामि | ९.विश्वान् देवान् काण्डऋषीꣴस्तर्पयामि |
सकृत् देवतीर्थेन
१०.साꣳहितीर्देवताः उपनिषदस्तर्पयामि | ११.याज्ञिकीर्देवताः उपनिषदस्तर्पयामि |
---|---|
१२.वारुणीर्देवताः उपनिषदस्तर्पयामि | १३.हव्यवाहं तर्पयामि |
१४.विश्वान् देवान् काण्डऋषीꣴस्तर्पयामि |
द्विः। ब्रह्मतीर्थेन
१५.ब्रह्माणं स्वयम्भुवं तर्पयामि |
---|
पुनः ऋषितीर्थेन। द्विः
१६.विश्वान् देवान् काण्डऋषीꣴस्तर्पयामि | १७.अरुणान् काण्डऋषीꣴस्तर्पयामि |
---|
सकृत् देवतीर्थेन
१८.सदसस्पतिं तर्पयामि | १९.ऋग्वेदं तर्पयामि | २०.यजुर्वेदं तर्पयामि |
---|---|---|
२१.सामवेदं तर्पयामि | २२.अथर्ववेदं तर्पयामि | २३.इतिहासपुराणं तर्पयामि |
२४.कल्पं तर्पयामि |
प्राचीनावीती । त्रिः । पितृतीर्थेन ।
१. सोमः पितृमान् यमोऽङ्गिरस्वान् अग्निः कव्यवाहनः इत्यादयो ये पितरस्तान् पितॄꣴस्तर्पयामि | २. सर्वान् पितॄꣴस्तर्पयामि |
---|---|
३. सर्वपितृगणाꣴस्तर्पयामि | ४. सर्वपितृ-पत्नीस्तर्पयामि |
५. सर्वपितृ-गण-पत्नीस्तर्पयामि |
पितृवर्ग / मातृवर्ग - तर्पणानि – जीवत्पितृकः न कुर्यात् ।
१.पितॄन् स्वधा नमस्तर्पयामि | २.पितामहान् स्वधा नमस्तर्पयामि | ३.प्रपितामहान् स्वधा नमस्तर्पयामि |
---|---|---|
४.मातृः स्वधा नमस्तर्पयामि | ५.पितामही स्वधा नमस्तर्पयामि | ६.प्रपितामही स्वधा नमस्तर्पयामि |
७.मातामहान् स्वधा नमस्तर्पयामि | ८.मातुः पितामहान् स्वधा नमस्तर्पयामि | ९.मातुः प्रपितामहान् स्वधा नमस्तर्पयामि |
१०.मातामही स्वधा नमस्तर्पयामि | ११.मातुः पितामही स्वधा नमस्तर्पयामि | १२.मातुः प्रपितामही स्वधा नमस्तर्पयामि |
ऊर्जं वहन्ती-रमृतं घृतं पयः कीलालं परिस्रुतं स्वधास्थ तर्पयत मे पितॄन् ॥ तृप्यत, तृप्यत, तृप्यत ॥ |
---|
उपवीती
कायेन वाचा मनसेंद्रियैर्वा बुध्यात्मनावा प्रक्रुते स्वभावात् । करोमि यद्यत्सकलं परस्मै नारायाणायेति समर्पयामि ॥
- ओं अच्युताय नम:
- ओं अनन्ताय नम:
- ओं गोविन्दाय नम:
केशव | नारायण | माधव |
---|---|---|
गोविन्द | विष्णु | मधुसूदन |
त्रिविक्रम | वामन | श्रीधर |
हृषीकेश | पद्मनाभ | दामोदरा |
॥ ओं तत्सत् ब्रह्मार्पणमस्तु ॥