Skip to content

आश्वलायन​ त्रिकाल​ सन्ध्यावन्दनम्

द्विराचम्य​

  • ओं अच्युताय नम​:
  • ओं अनन्ताय नम​:
  • ओं गोविन्दाय नम​:
केशवनारायणमाधव
गोविन्दविष्णुमधुसूदन
त्रिविक्रमवामनश्रीधर
हृषीकेश​पद्मनाभ​दामोदरा
श्री गणपति ध्यानं
Section titled “श्री गणपति ध्यानं”

शुक्लां बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्न वदनं ध्यायेत् सर्व विध्नोप शांतये ॥

ऒं भू: ऒं भुव: ऒं स्व: ऒं मह: ऒं जन​: ऒं तप: ऒं सत्यं । ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑त् ॥ ऒं आपो॒ ज्योती॒रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्वरोम् ।

इति त्रि: उक्त्वा - प्राणायामान्ते दक्षिण कर्णं स्पृष्ट्वा

ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं प्रात: सन्ध्यां उपासिष्ये ।

इति सङ्कल्प्य​

आपोहिष्ठेति - तृचस्य सिन्धुद्वीप ऋषि: । आपो देवता । गायत्री छन्द​: - अपां प्रोक्षणे विनियोग​:

आपो॒हिष्ठा म॑यो॒भुव॒स्तान॑ ऊ॒र्जे द॑धात न । म॒हेरना॑य॒ चक्ष॑से ॥ योव॑श्शि॒वत॑मो॒ रस॒स्तस्य॑ भाजय ते॒ह न॑: । उ॒श॒तीरि॑व मा॒तर॑: ॥ तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च न: ॥

इति शिरसि प्रोक्ष्य​

ओं भूर्भुव॒स्व॑: ।

इति आत्मानं परिषिच्य​

सूर्यश्चेत्यस्य अग्निरृषि: । सूर्यो देवता । देवी गायत्री छन्द​: - अपां प्राशने विनियोग​:

सूर्यश्च मा मऩ्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्य​: । पापेभ्यो॑ रक्ष॒न्ताम् । यद्रात्र्या पाप॑मका॒र्षम् । मनसावाचा॑ हस्ता॒भ्यां । पद्भ्यामुदरे॑णशि॒ष्न । रात्रि॒स्तद॑व लु॒म्पतु । यत्किंच॑ दुरि॒तम् मयि॑ । इदमहं माममृ॑त यो॒नौ । सूर्ये ज्योतिषि जुहो॑मि स्वा॒हा।

इति अप​: प्राश्य​

  • ओं अच्युताय नम​:
  • ओं अनन्ताय नम​:
  • ओं गोविन्दाय नम​:
केशवनारायणमाधव
गोविन्दविष्णुमधुसूदन
त्रिविक्रमवामनश्रीधर
हृषीकेश​पद्मनाभ​दामोदरा

दधिक्राव्ण​: इत्यस्य मन्त्रस्य । वामदेव ऋषि: । दधिक्रावा देवता | अनुष्टुप् छन्द​: - अपां प्रोक्षणे विनियोग​:

द॒धिक्राव्णो॑ अकार्षं जि॒ष्णो रश्व॑स्य वा॒जि न॑: । सु॒र॒भिनो॒ मुका॑कर॒त् प्रण॒ आयूं॑षि तारिषत् ॥ आपो॒हिष्ठा म॑यो॒भुव॒स्तान॑ ऊ॒र्जे द॑धात न । म॒हेरना॑य॒ चक्ष॑से ॥ योव॑श्शि॒वत॑मो॒ रस॒स्तस्य॑ भाजय ते॒ह न॑: । उ॒श॒तीरि॑व मा॒तर॑: ॥ तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च न: ॥

इति शिरसि प्रोक्ष्य​

ओं भूर्भुव॒स्व॑: ।

इति आत्मानं परिषिच्य​

अर्घ्यप्रदान मन्त्रस्य विश्वामित्र ऋषि: । सविता देवता । गायत्री छन्द​: - अर्घ्य प्रदाने विनियोग​:

ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑॑त् ॥

इति अर्घ्यं त्रिवारं समन्त्रकं दद्यात्

ऒं भू: ऒं भुव: ऒं स्व: ऒं मह: ऒं जन​: ऒं तप: ऒं सत्यं । ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑त् ॥ ऒं आपो॒ ज्योती॒रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्वरोम् ।

प्रायश्चित्त अर्घ्यं
Section titled “प्रायश्चित्त अर्घ्यं”

ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं प्रात: सन्ध्या कालातीत प्रायश्चित्त अर्घ्यप्रदानं करिष्ये ॥

प्रायश्चित्तार्घ्यप्रदान मन्त्रस्य । यदद्य इत्यस्य शौनक​: ऋषि । सूर्यो देवता । गायत्री छन्द​: - प्रायश्चित्तार्घ्यप्रदाने विनियोग​:

यद॒द्य कच्च॑ व्रुत्रहन्नु॒दगा॑ अ॒भि सू॑र्य । सर्वं॒ तदि॑न्द्र ते॒वषे॑ ॥

इति एकं अर्घ्यं दत्वा

ओं भूर्भुव॒स्व॑: असावादित्यो ब्रह्मा

इति आत्मानं परिषिच्य​

नवग्रह​ - केशवादि तर्पणं
Section titled “नवग्रह​ - केशवादि तर्पणं”
१. आदित्यं तर्पयामि२.सोमम् तर्पयामि३.अङ्गारकम् तर्पयामि
४.बुधं तर्पयामि५.बृहस्पतिं तर्पयामि६.शुक्रं तर्पयामि
७.शनैश्चरं तर्पयामि८.राहुं तर्पयामि९.केतुं तर्पयामि
१०.केशवं तर्पयामि११.नारायणं तर्पयामि१२.माधवं तर्पयामि
१३.गोविन्दं तर्पयामि१३.गोविन्दं तर्पयामि१५.मधुसूदनं तर्पयामि
१६.त्रिविक्रमं तर्पयामि१७.वामनं तर्पयामि१८.श्रीधरं तर्पयामि
१९.हृषीकेशं तर्पयामि२०.पद्मनाभं तर्पयामि२१.दामोदरं तर्पयामि

इति जलेन नव - द्वादश च तर्पणानि कृत्वा

  • ओं अच्युताय नम​:
  • ओं अनन्ताय नम​:
  • ओं गोविन्दाय नम​:
केशवनारायणमाधव
गोविन्दविष्णुमधुसूदन
त्रिविक्रमवामनश्रीधर
हृषीकेश​पद्मनाभ​दामोदरा

आसन मन्त्रस्य । मेरो: पृष्ठ ऋषि: । कूर्मो देवता । सुतलं छन्द​: - आसने विनियोग​:: ।

पृथ्वि त्वया धृता लोका: देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥

इति अन्जलिं कृत्वा - भूमिं प्रार्थ्य​

प्राणायाम - न्यासं
Section titled “प्राणायाम - न्यासं”
  • प्रणवस्य ऋषि: ब्रह्मा, देवी गायत्री छंद​:, परमात्मा देवता
  • भूरादि सप्त व्याह्रुतीनाम् अत्रि - भ्रुगु - कुत्स - वसिष्ठ - गौतम - काष्यप - आङ्गीरस​ ऋषय:
  • गायत्रि - उष्णिक् - अनुष्टुप् - ब्रुहती - पङ्ती - त्रिष्टुप् - जगत्यश्छ्न्दांसि
  • अग्नि - वायु - अर्क - वागीश - वरुण - इन्द्र - विश्वेदेवा देवता: प्राणायामे विनियोग:

ऒं भू: ऒं भुव: ऒं स्व: ऒं मह: ऒं जन​: ऒं तप: ऒं सत्यं । ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑त् ॥ ऒं आपो॒ ज्योती॒रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्वरोम् ।

इति त्रि: उक्त्वा - प्राणायामान्ते दक्षिण कर्णं स्पृष्ट्वा

गायत्री आवाहनम्
Section titled “गायत्री आवाहनम्”

आयात्विति अनुवाकस्य वामदेव ऋषि: । अनुष्टुप् छंद​: । गायत्री देवता - गायत्री आवाहने विनियोग:

आया॑तु॒ वर॑दा दे॒वि॒ अ॒क्षरं॑ ब्रह्म॒ सम्मि॑तम् । गा॒य॒त्री॑म् छंद॑सांमा॒तेतम् ब्र॑ह्म जु॒षस्व॑मे ॥ ओजो॑सि॒ - सहो॑सि॒ - बल॑मसि॒ - भ्राजो॑सि - दे॒वाना॒म् धाम॒नामा॑सि॒ - विश्व॑मसि वि॒श्वायु॒: सर्व॑मसि स॒र्वायुरभिभूरोम्

  • गायत्रीं आवाहयामि
  • सावित्रीं आवाहयामि
  • सरस्वतीं आवाहयामि

इति गायत्रीं सूर्य मण्डले स्वहृदये वा आवाह्य​

विष्वामित्र ऋषि: । सविता देवता । निचृत् गायत्री छंद​: - प्रात​: सन्ध्या जपे विनियोग​:

मुक्ता - विद्रुम - हेम - नील - धवलच्छायैर्मुखैस्त्रीक्षणै: युक्तामिंदुकला-निबद्धरत्ऩमकुटाम् तत्त्वार्थ - वर्णात्मिकाम् । गायत्रीं वरदाभयांकुश - कशा​:शुभ्रम्गपालं गदां शंखं - चक्र - मथारविंदयुगलं हस्तैर्वहंतीं भजे ॥ यो देवस्सवितास्माकं धियो धर्मादि गोचराः । प्रेरयेत्तस्य यद्भर्गस्तद्वरेण्य उपास्महे ॥

इति सावित्रीमूर्तिध्यानं कृत्वा​

ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑॑त् ॥

कणिष्ठिकामूलमारभ्य प्रादक्षिण्येन गणयन् यथासङ्कल्पं पन्चावसानं गायत्री मन्त्रं जपेत्

ऒं भू: ऒं भुव: ऒं स्व: ऒं मह: ऒं जन​: ऒं तप: ऒं सत्यं । ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑॑त् ॥ ऒं आपो॒ ज्योती॒रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्वरोम् ।

गायत्र्युद्वासनम्
Section titled “गायत्र्युद्वासनम्”

उत्तम इत्यनुवाकस्य वामदेवः ऋषिः । अनुष्टुप् छन्दः । गायत्री देवता । गायत्री उद्वासने विनियोगः

उ॒त्तमे॑ शिख॑रे दे॒वी॒ भू॒म्यां प॑र्वत॒ मूर्ध॑नि । ब्रा॒ह्मणेभ्यो ह्य॑नुज्ञा॒नं ग॒च्छ दे॑वि य॒थासु॑खम् ॥

इति गायत्रीं उद्यास्य​

ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं प्रात: सन्ध्या उपस्थानं करिष्ये ॥

इति सङ्कल्प्य​

मित्रस्येति तृचस्य विश्वामित्र ऋषि: । गायत्री त्रिष्टुभौ छन्दांसि ।मित्रो देवता - प्रात​:सन्ध्या उपस्थाने विनियोग​:

ॐ मि॒त्रस्य॑ चर्षनीध्रु॒तोवो॑ दे॒वस्य॑ सान॒सि । द्यु॒म्नं चि॒रत्रश्र॑वस्तमम् ॥ मि॒त्रो जना॑न् यातयतिब्रुवा॒नो मि॒त्रो दा॑धार प्रुथि॒वीमु॒त द्याम् । मि॒त्र: कृष्टीरनि॑मिषा॒भि च॑ष्टे मि॒त्राय॑ ह॒व्यम् घ्रु॒तव॑त् जुहोत ॥ प्रसमि॑त्र॒ मर्तो॑ अस्तु॒ प्रय॑स्वा॒न् यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ । नह॑न्यते॒ नजी॑यते॒ त्वोतो॒ नैन॒मम्हो॑ अश्नो॒त्यंति॑ तो॒न दू॒रात् ॥

जातवेदसे इत्यस्य कश्यप ऋषि: । त्रिष्टुप् छन्द​: । अग्निर्देवता - सन्ध्योपस्थाने विनियोग​:

जा॒तवे॑दसे सुनवाम॒ सोम॑ मरातीय॒तो निद॑हाति॒ वेद॑: । स न॑: पर्ष॒दति॑ दु॒र्गानि॒विश्वा॑ ना॒वेव॒ सिंधुं॑ दुरि॒तान्य॒ग्नि:॥

पिशङ्गभृष्टिमित्यस्य परुच्छेप​: ऋषि: । गायत्री छन्द​: । इन्द्रो देवता - उपस्थाने विनियोग​:

पि॒शंग॑भ्रुष्टि॒मम् भ्रु॒नम् पि॒शाचि॑मिंद्र॒सं मृ॑न । सर्वं॒ रक्षो॒ निब॑र्हय ॥

भद्रं कर्णेभि: इत्यस्य गोतम ऋषि: । त्रिष्टुप् छन्द​: । विश्वेदेवा देवता: - उपस्थाने विनियोग​:

भ॒द्रं कर्णे॑भि: श्रुनुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्रा: । स्थि॒रैरङ्गै॑: तुष्टु॒वाम्स॑: त॒नूभि॒र्व्य॑शेम दे॒वहि॑त॒म् यदायु॑: ॥

केशीत्यस्य जूति ऋषि: । अनुष्टुप् छन्द​: ।अग्निर्देवता - उपस्थाने विनियोग​:

के॒श्य १॒॑ ग्निं के॒शी वि॒षं के॒शी बि॑भर्ति॒ रोद॑सि । के॒शी विश्वं॒ स्व॑र्द्रु॒शे के॒शीदं ज्योति॑रुच्यते ॥

१. सन्ध्यायै नम​:२. सावित्र्यै नम​:
३. गायत्र्यै नम:४. सरस्वत्यै नम​:
५. सर्वाभ्यो देवताभ्यो नम​:६. प्राच्यै नम​:
७. दक्षिणायै नम​:८. प्रतीच्यै नम​:
९. उदीच्यै नम​:१०. ऊर्ध्वाय नम​:
११. अधराय नम​:१२. अन्तरिक्षाय नम​:
१३. भूम्यै नम​:१४. ब्रह्मणे नम​:
१५. विष्णवे नम​:१६. यमाय नम​:

इति ताम् ताम् दिशं प्रति अन्जलिं कृत्वा

यमाय धर्मराजाय मृत्यवे चांतकाय च । वैवस्वताय कालाय सर्वभूतक्षयाय च । औदुंबराय तध्नाय नीलाय परमेष्ठिने । व्रुकोधराय चित्राय चित्रगुप्ताय वै नम: ॥ चित्रगुप्ताय वै नमो नम इति ।

ऋतं सत्यं परं ब्रह्म पुरुषं क्रुष्ण पिंगलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपायवै नम: ॥ विश्वरूपायवै नमो नम इति ।

नर्मदायै नम: प्रातर्नर्मदायै नमो निशि । नमोस्तु नर्मदे तुभ्यं पाहिमां विषसर्पत: ॥ अपसर्प सर्प भत्रं ते दूरं गच्छ महायश: । जनमेजयस्य यञांते आस्तीक वचनं स्मरन् ॥ जरत्कारो जरत्कार्वां समुत्पन्नो महायशा: । आस्तीक: सत्य संधोमां पन्नगेभ्योभिरक्षतु ॥

नमस्सवित्रे जगदेक चक्षुषे जगत्प्रसूति-स्थिति नाशहेतवे । त्रयीमयाय त्रिगुणात्म धारिणे विरिंचि नारायण शंकरात्मने ॥ध्येयस्स्दा सवित्रुमंडल मध्यवर्ती नारायण: सरसिजासन सन्निविष्ट: ।केयूरवान् मकरकुंडलवान् किरीटिहारि हिराण्मय वपुर्ध्रुत शंख चक्र: ॥ शंखचक्र गदापाणे द्वारका निलयाच्युत । गोविंद पुंडरीकाक्ष रक्षमां शरणागतम् ॥ आकशात्पतितम्तोयं यथा गच्छति सागरम् । सर्व देव नमस्कार: केशवं प्रतिगच्छति ॥ केशवं प्रतिगच्छत्योम् नम इति ।

अभिवाद नमस्कार​:
Section titled “अभिवाद नमस्कार​:”

अभिवादये ___ त्रयार्षेय​/पञ्चार्षेय प्रवरान्वित ___ गोत्र​: ___ आश्वलायन सूत्र​: ___ ऋक्शाखाध्यायी ___ शर्मा नाम अहं अस्मि भो:।

  • ओं अच्युताय नम​:
  • ओं अनन्ताय नम​:
  • ओं गोविन्दाय नम​:
केशवनारायणमाधव
गोविन्दविष्णुमधुसूदन
त्रिविक्रमवामनश्रीधर
हृषीकेश​पद्मनाभ​दामोदरा

कायेन वाचा मनसेंद्रियैर्वा बुध्यात्मनावा प्रक्रुते स्वभावात् । करोमि यद्यत्सकलं परस्मै नारायाणायेति समर्पयामि ॥

अद्यानो देवेत्यस्य मन्त्रस्य । श्यावाश्व आत्रेय ऋषि: । सविता देवता - रक्षस्वीकरणे विनियोग​:

अ॒द्यानो देवसवितः प्र॒जाव॑त्सावी॒स्सौभ॑गम् । परा॑ दु॒ष्वप्नि॑यं सुव ॥ विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑सुव । यद्भ॒द्रं तन्म॒ आसु॑व ॥

जप स्थलं प्रोक्ष्य तन्मृदं हृदि धारयेत्

॥ ओं तत्सत् ब्रह्मार्पणमस्तु ॥

द्विराचम्य​

  • ओं अच्युताय नम​:
  • ओं अनन्ताय नम​:
  • ओं गोविन्दाय नम​:
केशवनारायणमाधव
गोविन्दविष्णुमधुसूदन
त्रिविक्रमवामनश्रीधर
हृषीकेश​पद्मनाभ​दामोदरा
श्री गणपति ध्यानं
Section titled “श्री गणपति ध्यानं”

शुक्लां बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्न वदनं ध्यायेत् सर्व विध्नोप शांतये ॥

ऒं भू: ऒं भुव: ऒं स्व: ऒं मह: ऒं जन​: ऒं तप: ऒं सत्यं । ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑त् ॥ ऒं आपो॒ ज्योती॒रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्वरोम् ।

इति त्रि: उक्त्वा - प्राणायामान्ते दक्षिण कर्णं स्पृष्ट्वा

ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं माध्यान्हिकं करिष्ये ।

इति सङ्कल्प्य​

आपोहिष्ठेति - तृचस्य सिन्धुद्वीप ऋषि: । आपो देवता । गायत्री छन्द​: - अपां प्रोक्षणे विनियोग​:

आपो॒हिष्ठा म॑यो॒भुव॒स्तान॑ ऊ॒र्जे द॑धात न । म॒हेरना॑य॒ चक्ष॑से ॥ योव॑श्शि॒वत॑मो॒ रस॒स्तस्य॑ भाजय ते॒ह न॑: । उ॒श॒तीरि॑व मा॒तर॑: ॥ तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च न: ॥

इति शिरसि प्रोक्ष्य​

ओं भूर्भुव॒स्व॑: ।

इति आत्मानं परिषिच्य​

आप​: पुनन्तु इत्यस्य विश्वेदेवा ऋषय: । अनुष्टुप् छन्द​: । आपो देवता - अपां प्राशने विनियोग​:

आप॑: पुनंतु प्रुथि॒वीम् प्रु॑थि॒वी पू॒ता पु॑नातु॒माम् । पु॒नंतु॒ ब्रह्म॑ण॒स्पति॒र्ब्रह्म॑ पू॒ता पु॑नातु॒मां ॥ यदुच्छि॑ष्ट॒म भो॑ज्यम्॒ यद्वा॑ दु॒श्चरि॑तं॒ मम॑ । सर्वं॑ पुनंतु॒ मामापो स॒तांच॑ प्रति॒ग्रहं॒ स्वाहा॑ ॥

इति अप​: प्राश्य​

  • ओं अच्युताय नम​:
  • ओं अनन्ताय नम​:
  • ओं गोविन्दाय नम​:
केशवनारायणमाधव
गोविन्दविष्णुमधुसूदन
त्रिविक्रमवामनश्रीधर
हृषीकेश​पद्मनाभ​दामोदरा

दधिक्राव्ण​: इत्यस्य मन्त्रस्य । वामदेव ऋषि: । दधिक्रावा देवता | अनुष्टुप् छन्द​: - अपां प्रोक्षणे विनियोग​:

द॒धिक्राव्णो॑ अकार्षं जि॒ष्णो रश्व॑स्य वा॒जि न॑: । सु॒र॒भिनो॒ मुका॑कर॒त् प्रण॒ आयूं॑षि तारिषत् ॥ आपो॒हिष्ठा म॑यो॒भुव॒स्तान॑ ऊ॒र्जे द॑धात न । म॒हेरना॑य॒ चक्ष॑से ॥ योव॑श्शि॒वत॑मो॒ रस॒स्तस्य॑ भाजय ते॒ह न॑: । उ॒श॒तीरि॑व मा॒तर॑: ॥ तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च न: ॥

इति शिरसि प्रोक्ष्य​

ओं भूर्भुव॒स्व॑: ।

इति आत्मानं परिषिच्य​

अर्घ्यप्रदान मन्त्रस्य विश्वामित्र ऋषि: । सविता देवता । गायत्री छन्द​: - अर्घ्य प्रदाने विनियोग​:

ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑॑त् ॥

इति अर्घ्यं द्विवारं समन्त्रकं दद्यात्

ऒं भू: ऒं भुव: ऒं स्व: ऒं मह: ऒं जन​: ऒं तप: ऒं सत्यं । ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑त् ॥ ऒं आपो॒ ज्योती॒रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्वरोम् ।

इति त्रि: उक्त्वा - प्राणायामान्ते दक्षिण कर्णं स्पृष्ट्वा

प्रायश्चित्त अर्घ्यं
Section titled “प्रायश्चित्त अर्घ्यं”

ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं माध्यान्हिक​ कालातीत प्रायश्चित्त अर्घ्यप्रदानं करिष्ये ॥

उद्धेदभि इत्यस्य. सुकक्ष​: ऋषि: । गायत्री छन्द​: । सूर्यो देवता - प्रायश्चित्तार्घ्य प्रदाने विनियोग​:

उद्धेद॒भि श्रु॒ताम॑घं वृष॒भं नर्या॑पसम् । अस्ता॑रमेषि सूर्य ॥

इति एकं अर्घ्यं दत्वा

ओं भूर्भुव॒स्व॑: असावादित्यो ब्रह्मा

इति आत्मानं परिषिच्य​

नवग्रह​ - केशवादि तर्पणं
Section titled “नवग्रह​ - केशवादि तर्पणं”
१. आदित्यं तर्पयामि२.सोमम् तर्पयामि३.अङ्गारकम् तर्पयामि
४.बुधं तर्पयामि५.बृहस्पतिं तर्पयामि६.शुक्रं तर्पयामि
७.शनैश्चरं तर्पयामि८.राहुं तर्पयामि९.केतुं तर्पयामि
१०.केशवं तर्पयामि११.नारायणं तर्पयामि१२.माधवं तर्पयामि
१३.गोविन्दं तर्पयामि१३.गोविन्दं तर्पयामि१५.मधुसूदनं तर्पयामि
१६.त्रिविक्रमं तर्पयामि१७.वामनं तर्पयामि१८.श्रीधरं तर्पयामि
१९.हृषीकेशं तर्पयामि२०.पद्मनाभं तर्पयामि२१.दामोदरं तर्पयामि

इति जलेन नव - द्वादश च तर्पणानि कृत्वा

  • ओं अच्युताय नम​:
  • ओं अनन्ताय नम​:
  • ओं गोविन्दाय नम​:
केशवनारायणमाधव
गोविन्दविष्णुमधुसूदन
त्रिविक्रमवामनश्रीधर
हृषीकेश​पद्मनाभ​दामोदरा

आसन मन्त्रस्य । मेरो: पृष्ठ ऋषि: । कूर्मो देवता । सुतलं छन्द​: - आसने विनियोग​:: ।

पृथ्वि त्वया धृता लोका: देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥

इति अन्जलिं कृत्वा - भूमिं प्रार्थ्य​

प्राणायाम - न्यासं
Section titled “प्राणायाम - न्यासं”
  • प्रणवस्य ऋषि: ब्रह्मा, देवी गायत्री छंद​:, परमात्मा देवता
  • भूरादि सप्त व्याह्रुतीनाम् अत्रि - भ्रुगु - कुत्स - वसिष्ठ - गौतम - काष्यप - आङ्गीरस​ ऋषय:
  • गायत्रि - उष्णिक् - अनुष्टुप् - ब्रुहती - पङ्ती - त्रिष्टुप् - जगत्यश्छ्न्दांसि
  • अग्नि - वायु - अर्क - वागीश - वरुण - इन्द्र - विश्वेदेवा देवता: प्राणायामे विनियोग:

ऒं भू: ऒं भुव: ऒं स्व: ऒं मह: ऒं जन​: ऒं तप: ऒं सत्यं । ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑त् ॥ ऒं आपो॒ ज्योती॒रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्वरोम् ।

इति त्रि: उक्त्वा - प्राणायामान्ते दक्षिण कर्णं स्पृष्ट्वा

गायत्री आवाहनम्
Section titled “गायत्री आवाहनम्”

आयात्विति अनुवाकस्य वामदेव ऋषि: । अनुष्टुप् छंद​: । गायत्री देवता - गायत्री आवाहने विनियोग:

आया॑तु॒ वर॑दा दे॒वि॒ अ॒क्षरं॑ ब्रह्म॒ सम्मि॑तम् । गा॒य॒त्री॑म् छंद॑सांमा॒तेतम् ब्र॑ह्म जु॒षस्व॑मे ॥ ओजो॑सि॒ - सहो॑सि॒ - बल॑मसि॒ - भ्राजो॑सि - दे॒वाना॒म् धाम॒नामा॑सि॒ - विश्व॑मसि वि॒श्वायु॒: सर्व॑मसि स॒र्वायुरभिभूरोम्

  • गायत्रीं आवाहयामि
  • सावित्रीं आवाहयामि
  • सरस्वतीं आवाहयामि

इति गायत्रीं सूर्य मण्डले स्वहृदये वा आवाह्य​

विष्वामित्र ऋषि: । सविता देवता । निचृत् गायत्री छंद​: - प्रात​: सन्ध्या जपे विनियोग​:

मुक्ता - विद्रुम - हेम - नील - धवलच्छायैर्मुखैस्त्रीक्षणै: युक्तामिंदुकला-निबद्धरत्ऩमकुटाम् तत्त्वार्थ - वर्णात्मिकाम् । गायत्रीं वरदाभयांकुश - कशा​:शुभ्रम्गपालं गदां शंखं - चक्र - मथारविंदयुगलं हस्तैर्वहंतीं भजे ॥ यो देवस्सवितास्माकं धियो धर्मादि गोचराः । प्रेरयेत्तस्य यद्भर्गस्तद्वरेण्य उपास्महे ॥

इति सावित्रीमूर्तिध्यानं कृत्वा​

ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑त् ॥

कणिष्ठिकामूलमारभ्य प्रादक्षिण्येन गणयन् यथासङ्कल्पं पन्चावसानं गायत्री मन्त्रं जपेत्

ऒं भू: ऒं भुव: ऒं स्व: ऒं मह: ऒं जन​: ऒं तप: ऒं सत्यं । ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑त् ॥ ऒं आपो॒ ज्योती॒रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्वरोम् ।

इति त्रि: उक्त्वा - प्राणायामान्ते दक्षिण कर्णं स्पृष्ट्वा

गायत्र्युद्वासनम्
Section titled “गायत्र्युद्वासनम्”

उत्तम इत्यनुवाकस्य वामदेवः ऋषिः । अनुष्टुप् छन्दः । गायत्री देवता । गायत्री उद्वासने विनियोगः

उ॒त्तमे॑ शिख॑रे दे॒वी॒ भू॒म्यां प॑र्वत॒ मूर्ध॑नि । ब्रा॒ह्मणेभ्यो ह्य॑नुज्ञा॒नं ग॒च्छ दे॑वि य॒थासु॑खम् ॥

इति गायत्रीं उद्यास्य​

ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं माध्यान्हिक​ उपस्थानं करिष्ये ॥

इति सङ्कल्प्य​

उदुत्यमिति त्रयोद्शर्चस्य सूक्तस्य प्रस्कण्व ऋषि: । आद्या नव गायत्र्य: । अन्त्या: चतस्र​: अनुष्टुभ​: । सूर्यो देवता । माध्यान्हिक उपस्थाने विनियोग​:

उदु॒त्यं जा॒तवे॑दसं दे॒वं व॑हंति के॒तव॑: । द्रु॒शे विश्वा॒॑य सूर्यम्॑ ॥

उदुत्यमिति प्रथममन्त्र कथन काले व्योम मुद्रया दक्षिणेन नेत्रेण सूर्यं सकृत् विलोक्य​

अप॒त्ये ता॒यवो॑ यथा॒ नक्ष॑त्रा यंत्य॒क्तुभि॑: । सूरा॑य वि॒श्व च॑क्षसे ॥ अद्रु॑श्यमस्य के॒तवो॒ विर॒श्मयो॒ जनाँ॒ अनु॑ । भ्राजं॑तो अ॒ग्नयो॑ यथा ॥ त॒रणि॑र्वि॒श्वद॑र्शतो॒ ज्योति॒ष्कृद॑सि सूर्य । विष्व॒मा भा॑सि रोच॒नम् ॥ प्र॒त्यङ् दे॒वानां॒ विश॑: प्र॒त्यङ्ङु दे॑षि॒ मानु॑षान् ॥ प्र॒त्यङ् विश्वं॒ स्व॑र्दृ॒शे ॥ येना॑ पावक॒ चक्ष॑सा भुर॒ण्यंतं॒ जनाँ॒ अनु॑ । त्वं व॑रुण॒ पश्य॑सि ॥ वि॒द्यामे॑षि॒ रज॑स्पृ॒थ्वहा॒ मिमा॑नो अ॒क्तुभि॑: । प॒श्यन् जन्मा॑नि सूर्य ॥ स॒प्त त्वा॑ ह॒रितो॒रथे॒ वहं॑ति देव सूर्य । शो॒चिष्के॑शं विचक्षण ॥ अयु॑क्त स॒प्त शुं॒ध्युव॒: सूरो॒ रथ॑स्य न॒प्त्य॑: । ताभि॑र्याति॒ स्वयु॑क्तिभि: ॥ उद्व॒यं तम॑स॒स्परि॒ ज्योति॒ष्पश्यं॑त॒ उत्त॑रम् । दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॒रुत्त॑मम् ॥ उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिवम्॑ । हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं॑ च नाशय ॥ शुके॑षुमे हरि॒माणं॑ रोप॒णाका॑सु दध्मसि ॥ अथो॑ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि ॥ उद॑गाद॒यमा॑दि॒त्यो विश्वे॑न॒ सह॑सा स॒ह ॥ द्वि॒षन्तं॒ मह्यं॑ रं॒धय॒न् मो अ॒हं द्वि॑ष॒ते र॑धम् ॥

चित्रं देवानामिति षडृचस्य सूक्तस्य आङ्गिरस: कुत्सः ऋषिः त्रिष्टुप् छन्दः । सूर्यो देवता । सूर्योपस्थाने विनियोगः

चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒ द्यावा॑ पृथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥ सूर्यो॑ दे॒वीमु॒षसं॒ रोच॑मानां॒ मर्यो॒ न योषा॑म॒भ्ये॑ति प॒श्चात् । यत्रा॒ नरो॑ देव॒यन्तो॑ यु॒गानि॑ वितन्व॒ते प्रति॑ भ॒द्राय॑ भ॒द्रम् ॥ भ॒द्रा अश्वा॑ ह॒रितः॒ सूर्य॑स्य चि॒त्रा एत॑ग्वा अनु॒माद्या॑सः । न॒म॒स्यन्तो॑ दि॒व आ पृ॒ष्ठम॑स्थुः परि॒ द्यावा॑पृथि॒वी य॑न्ति स॒द्यः ॥ तत्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑त॒ सं ज॑भार । य॒देदयु॑क्त ह॒रितः॑ स॒धस्था॒द् आद्रात्री॒ वास॑स्तनुते सि॒मिस्मै॑ ॥ तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो॑ रू॑पं कृ॑णुते द्योरु॒पस्थे॑ । अ॒न॒न्तम॒न्यद् रुश॑दस्य॒ पाजः॑ कृ॒ष्णम॒न्यद् ह॒रितः॒ सं भ॑रन्ति ॥ अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य॒ निरंह॑सः पिपृ॒ता निर॑व॒द्यात् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्तां॒ अदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥

जातवेदसे इत्यस्य कश्यप ऋषि: । त्रिष्टुप् छन्द​: । अग्निर्देवता - सन्ध्योपस्थाने विनियोग​:

जा॒तवे॑दसे सुनवाम॒ सोम॑ मरातीय॒तो निद॑हाति॒ वेद॑: । स न॑: पर्ष॒दति॑ दु॒र्गानि॒विश्वा॑ ना॒वेव॒ सिंधुं॑ दुरि॒तान्य॒ग्नि:॥

पिशङ्गभृष्टिमित्यस्य परुच्छेप​: ऋषि: । गायत्री छन्द​: । इन्द्रो देवता - उपस्थाने विनियोग​:

पि॒शंग॑भ्रुष्टि॒मम् भ्रु॒नम् पि॒शाचि॑मिंद्र॒सं मृ॑न । सर्वं॒ रक्षो॒ निब॑र्हय ॥

भद्रं कर्णेभि: इत्यस्य गोतम ऋषि: । त्रिष्टुप् छन्द​: । विश्वेदेवा देवता: - उपस्थाने विनियोग​:

भ॒द्रं कर्णे॑भि: श्रुनुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्रा: । स्थि॒रैरङ्गै॑: तुष्टु॒वाम्स॑: त॒नूभि॒र्व्य॑शेम दे॒वहि॑त॒म् यदायु॑: ॥

केशीत्यस्य जूति ऋषि: । अनुष्टुप् छन्द​: ।अग्निर्देवता - उपस्थाने विनियोग​:

के॒श्य १॒॑ ग्निं के॒शी वि॒षं के॒शी बि॑भर्ति॒ रोद॑सि । के॒शी विश्वं॒ स्व॑र्द्रु॒शे के॒शीदं ज्योति॑रुच्यते ॥

१. सन्ध्यायै नम​:२. सावित्र्यै नम​:
३. गायत्र्यै नम:४. सरस्वत्यै नम​:
५. सर्वाभ्यो देवताभ्यो नम​:६. प्राच्यै नम​:
७. दक्षिणायै नम​:८. प्रतीच्यै नम​:
९. उदीच्यै नम​:१०. ऊर्ध्वाय नम​:
११. अधराय नम​:१२. अन्तरिक्षाय नम​:
१३. भूम्यै नम​:१४. ब्रह्मणे नम​:
१५. विष्णवे नम​:१६. यमाय नम​:

इति ताम् ताम् दिशं प्रति अन्जलिं कृत्वा

यमाय धर्मराजाय मृत्यवे चांतकाय च । वैवस्वताय कालाय सर्वभूतक्षयाय च । औदुंबराय तध्नाय नीलाय परमेष्ठिने । व्रुकोधराय चित्राय चित्रगुप्ताय वै नम: ॥ चित्रगुप्ताय वै नमो नम इति ।

ऋतं सत्यं परं ब्रह्म पुरुषं क्रुष्ण पिंगलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपायवै नम: ॥ विश्वरूपायवै नमो नम इति ।

नर्मदायै नम: प्रातर्नर्मदायै नमो निशि । नमोस्तु नर्मदे तुभ्यं पाहिमां विषसर्पत: ॥ अपसर्प सर्प भत्रं ते दूरं गच्छ महायश: । जनमेजयस्य यञांते आस्तीक वचनं स्मरन् ॥ जरत्कारो जरत्कार्वां समुत्पन्नो महायशा: । आस्तीक: सत्य संधोमां पन्नगेभ्योभिरक्षतु ॥

नमस्सवित्रे जगदेक चक्षुषे जगत्प्रसूति-स्थिति नाशहेतवे । त्रयीमयाय त्रिगुणात्म धारिणे विरिंचि नारायण शंकरात्मने ॥ध्येयस्स्दा सवित्रुमंडल मध्यवर्ती नारायण: सरसिजासन सन्निविष्ट: ।केयूरवान् मकरकुंडलवान् किरीटिहारि हिराण्मय वपुर्ध्रुत शंख चक्र: ॥ शंखचक्र गदापाणे द्वारका निलयाच्युत । गोविंद पुंडरीकाक्ष रक्षमां शरणागतम् ॥ आकशात्पतितम्तोयं यथा गच्छति सागरम् । सर्व देव नमस्कार: केशवं प्रतिगच्छति ॥ केशवं प्रतिगच्छत्योम् नम इति ।

अभिवाद नमस्कार​:
Section titled “अभिवाद नमस्कार​:”

अभिवादये ___ त्रयार्षेय​/पञ्चार्षेय प्रवरान्वित ___ गोत्र​: ___ आश्वलायन सूत्र​: ___ ऋक्शाखाध्यायी ___ शर्मा नाम अहं अस्मि भो:।

  • ओं अच्युताय नम​:
  • ओं अनन्ताय नम​:
  • ओं गोविन्दाय नम​:
केशवनारायणमाधव
गोविन्दविष्णुमधुसूदन
त्रिविक्रमवामनश्रीधर
हृषीकेश​पद्मनाभ​दामोदरा

कायेन वाचा मनसेंद्रियैर्वा बुध्यात्मनावा प्रक्रुते स्वभावात् । करोमि यद्यत्सकलं परस्मै नारायाणायेति समर्पयामि ॥

अद्यानो देवेत्यस्य मन्त्रस्य । श्यावाश्व आत्रेय ऋषि: । सविता देवता - रक्षस्वीकरणे विनियोग​:

अ॒द्यानो देवसवितः प्र॒जाव॑त्सावी॒स्सौभ॑गम् । परा॑ दु॒ष्वप्नि॑यं सुव ॥ विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑सुव । यद्भ॒द्रं तन्म॒ आसु॑व ॥

जप स्थलं प्रोक्ष्य तन्मृदं हृदि धारयेत्

॥ ओं तत्सत् ब्रह्मार्पणमस्तु ॥

द्विराचम्य​

  • ओं अच्युताय नम​:
  • ओं अनन्ताय नम​:
  • ओं गोविन्दाय नम​:
केशवनारायणमाधव
गोविन्दविष्णुमधुसूदन
त्रिविक्रमवामनश्रीधर
हृषीकेश​पद्मनाभ​दामोदरा
श्री गणपति ध्यानं
Section titled “श्री गणपति ध्यानं”

நெற்றியின் இருபுறமும் இரண்டு கைகளால் மூன்று முறை குட்டிக் கொள்ளவும்.

शुक्लां बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्न वदनं ध्यायेत् सर्व विध्नोप शांतये ॥

ऒं भू: ऒं भुव: ऒं स्व: ऒं मह: ऒं जन​: ऒं तप: ऒं सत्यं । ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑त् ॥ ऒं आपो॒ ज्योती॒रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्वरोम् ।

इति त्रि: उक्त्वा - प्राणायामान्ते दक्षिण कर्णं स्पृष्ट्वा

ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं सायं सन्ध्यां उपासिष्ये ।

इति सङ्कल्प्य​

आपोहिष्ठेति - तृचस्य सिन्धुद्वीप ऋषि: । आपो देवता । गायत्री छन्द​: - अपां प्रोक्षणे विनियोग​:

आपो॒हिष्ठा म॑यो॒भुव॒स्तान॑ ऊ॒र्जे द॑धात न । म॒हेरना॑य॒ चक्ष॑से ॥ योव॑श्शि॒वत॑मो॒ रस॒स्तस्य॑ भाजय ते॒ह न॑: । उ॒श॒तीरि॑व मा॒तर॑: ॥ तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च न: ॥

इति शिरसि प्रोक्ष्य​

ओं भूर्भुव॒स्व॑: ।

इति आत्मानं परिषिच्य​

अग्निश्चेत्यस्य सूर्य​ऋषि: । अग्निर्देवता । देवी गायत्री छन्द​: - अपां प्राशने विनियोग​:

अक्ऩिश्च मामऩ्युश्च मन्युपतयश्च मन्यु॑क्रुते॒भ्य: । पापेभ्यो॑ रक्षं॒ताम् । यतऩ्हा पाप॑मका॒र्षम् । मऩसावाचा॑ हस्ता॒भ्यां पद्भ्यां उदरे॑णशि॒ष्न । अह॒स्तत॑व लुं॒पतु । यत्किंच॑ दुरि॒तं मयि॑ । इदमहमाममृ॑त यो॒नौ । सत्ये ज्योतिषि जुहो॑मि स्वा॒हा ।

इति अप​: प्राश्य​

  • ओं अच्युताय नम​:
  • ओं अनन्ताय नम​:
  • ओं गोविन्दाय नम​:
केशवनारायणमाधव
गोविन्दविष्णुमधुसूदन
त्रिविक्रमवामनश्रीधर
हृषीकेश​पद्मनाभ​दामोदरा

दधिक्राव्ण​: इत्यस्य मन्त्रस्य । वामदेव ऋषि: । दधिक्रावा देवता | अनुष्टुप् छन्द​: - अपां प्रोक्षणे विनियोग​:

द॒धिक्राव्णो॑ अकार्षं जि॒ष्णो रश्व॑स्य वा॒जि न॑: । सु॒र॒भिनो॒ मुका॑कर॒त् प्रण॒ आयूं॑षि तारिषत् ॥ आपो॒हिष्ठा म॑यो॒भुव॒स्तान॑ ऊ॒र्जे द॑धात न । म॒हेरना॑य॒ चक्ष॑से ॥ योव॑श्शि॒वत॑मो॒ रस॒स्तस्य॑ भाजय ते॒ह न॑: । उ॒श॒तीरि॑व मा॒तर॑: ॥ तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च न: ॥

इति शिरसि प्रोक्ष्य​

ओं भूर्भुव॒स्व॑: ।

इति आत्मानं परिषिच्य​

अर्घ्यप्रदान मन्त्रस्य विश्वामित्र ऋषि: । सविता देवता । गायत्री छन्द​: - अर्घ्य प्रदाने विनियोग​:

ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑॑त् ॥

इति अर्घ्यं त्रिवारं समन्त्रकं दद्यात्

ऒं भू: ऒं भुव: ऒं स्व: ऒं मह: ऒं जन​: ऒं तप: ऒं सत्यं । ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑त् ॥ ऒं आपो॒ ज्योती॒रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्वरोम् ।

इति त्रि: उक्त्वा - प्राणायामान्ते दक्षिण कर्णं स्पृष्ट्वा

प्रायश्चित्त अर्घ्यं
Section titled “प्रायश्चित्त अर्घ्यं”

ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं प्रात: सन्ध्या कालातीत प्रायश्चित्त अर्घ्यप्रदानं करिष्ये ॥

प्रायश्चित्तार्घ्यप्रदान मन्त्रस्य । नतस्येत्यस्य विश्वमना: ऋषि: । उष्णिक् छन्द​: । अग्निर्देवता - प्रायश्चित्तार्घ्यप्रदाने विनियोग​:

न तस्य॑ मा॒यया॑ च॒न रि॒पुरी॑शीत॒ मर्त्य॑: । यो अ॒ग्नये॑ त॒दाश॑ ह॒व्यता॑तिभि: ॥

इति एकं अर्घ्यं दत्वा

ओं भूर्भुव॒स्व॑: असावादित्यो ब्रह्मा

इति आत्मानं परिषिच्य​

नवग्रह​ - केशवादि तर्पणं
Section titled “नवग्रह​ - केशवादि तर्पणं”
१. आदित्यं तर्पयामि२.सोमम् तर्पयामि३.अङ्गारकम् तर्पयामि
४.बुधं तर्पयामि५.बृहस्पतिं तर्पयामि६.शुक्रं तर्पयामि
७.शनैश्चरं तर्पयामि८.राहुं तर्पयामि९.केतुं तर्पयामि
१०.केशवं तर्पयामि११.नारायणं तर्पयामि१२.माधवं तर्पयामि
१३.गोविन्दं तर्पयामि१३.गोविन्दं तर्पयामि१५.मधुसूदनं तर्पयामि
१६.त्रिविक्रमं तर्पयामि१७.वामनं तर्पयामि१८.श्रीधरं तर्पयामि
१९.हृषीकेशं तर्पयामि२०.पद्मनाभं तर्पयामि२१.दामोदरं तर्पयामि

इति जलेन नव - द्वादश च तर्पणानि कृत्वा

  • ओं अच्युताय नम​:
  • ओं अनन्ताय नम​:
  • ओं गोविन्दाय नम​:
केशवनारायणमाधव
गोविन्दविष्णुमधुसूदन
त्रिविक्रमवामनश्रीधर
हृषीकेश​पद्मनाभ​दामोदरा

आसन मन्त्रस्य । मेरो: पृष्ठ ऋषि: । कूर्मो देवता । सुतलं छन्द​: - आसने विनियोग​:: ।

पृथ्वि त्वया धृता लोका: देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥

इति अन्जलिं कृत्वा - भूमिं प्रार्थ्य​

प्राणायाम - न्यासं
Section titled “प्राणायाम - न्यासं”
  • प्रणवस्य ऋषि: ब्रह्मा, देवी गायत्री छंद​:, परमात्मा देवता
  • भूरादि सप्त व्याह्रुतीनाम् अत्रि - भ्रुगु - कुत्स - वसिष्ठ - गौतम - काष्यप - आङ्गीरस​ ऋषय:
  • गायत्रि - उष्णिक् - अनुष्टुप् - ब्रुहती - पङ्ती - त्रिष्टुप् - जगत्यश्छ्न्दांसि
  • अग्नि - वायु - अर्क - वागीश - वरुण - इन्द्र - विश्वेदेवा देवता: प्राणायामे विनियोग:

ऒं भू: ऒं भुव: ऒं स्व: ऒं मह: ऒं जन​: ऒं तप: ऒं सत्यं । ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑त् ॥ ऒं आपो॒ ज्योती॒रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्वरोम् ।

इति त्रि: उक्त्वा - प्राणायामान्ते दक्षिण कर्णं स्पृष्ट्वा

गायत्री आवाहनम्
Section titled “गायत्री आवाहनम्”

आयात्विति अनुवाकस्य वामदेव ऋषि: । अनुष्टुप् छंद​: । गायत्री देवता - गायत्री आवाहने विनियोग:

आया॑तु॒ वर॑दा दे॒वि॒ अ॒क्षरं॑ ब्रह्म॒ सम्मि॑तम् । गा॒य॒त्री॑म् छंद॑सांमा॒तेतम् ब्र॑ह्म जु॒षस्व॑मे ॥ ओजो॑सि॒ - सहो॑सि॒ - बल॑मसि॒ - भ्राजो॑सि - दे॒वाना॒म् धाम॒नामा॑सि॒ - विश्व॑मसि वि॒श्वायु॒: सर्व॑मसि स॒र्वायुरभिभूरोम्

  • गायत्रीं आवाहयामि
  • सावित्रीं आवाहयामि
  • सरस्वतीं आवाहयामि

इति गायत्रीं सूर्य मण्डले स्वहृदये वा आवाह्य​

विष्वामित्र ऋषि: । सविता देवता । निचृत् गायत्री छंद​: - प्रात​: सन्ध्या जपे विनियोग​:

मुक्ता - विद्रुम - हेम - नील - धवलच्छायैर्मुखैस्त्रीक्षणै: युक्तामिंदुकला-निबद्धरत्ऩमकुटाम् तत्त्वार्थ - वर्णात्मिकाम् । गायत्रीं वरदाभयांकुश - कशा​:शुभ्रम्गपालं गदां शंखं - चक्र - मथारविंदयुगलं हस्तैर्वहंतीं भजे ॥ यो देवस्सवितास्माकं धियो धर्मादि गोचराः । प्रेरयेत्तस्य यद्भर्गस्तद्वरेण्य उपास्महे ॥

ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑॑त् ॥

कणिष्ठिकामूलमारभ्य प्रादक्षिण्येन गणयन् यथासङ्कल्पं पन्चावसानं गायत्री मन्त्रं जपेत्

ऒं भू: ऒं भुव: ऒं स्व: ऒं मह: ऒं जन​: ऒं तप: ऒं सत्यं । ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑त् ॥ ऒं आपो॒ ज्योती॒रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्वरोम् ।

इति त्रि: उक्त्वा - प्राणायामान्ते दक्षिण कर्णं स्पृष्ट्वा

गायत्र्युद्वासनम्
Section titled “गायत्र्युद्वासनम्”

उत्तम इत्यनुवाकस्य वामदेवः ऋषिः । अनुष्टुप् छन्दः । गायत्री देवता । गायत्री उद्वासने विनियोगः

उ॒त्तमे॑ शिख॑रे दे॒वी॒ भू॒म्यां प॑र्वत॒ मूर्ध॑नि । ब्रा॒ह्मणेभ्यो ह्य॑नुज्ञा॒नं ग॒च्छ दे॑वि य॒थासु॑खम् ॥

इति गायत्रीं उद्यास्य​

ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं सायं सन्ध्या उपस्थानं करिष्ये ॥

इति सङ्कल्प्य​

इमं मे - तत्वा - यच्चिद्धि - यत्किन्च - कितवास​: इति मन्त्राणां । शुनश्शेप् - वसिष्ठ - अत्रय​: ऋषय​: । गायत्री - त्रिष्टुप् - गायत्री - त्रिष्टुभश्छन्दांसि । वरुण​: - सूर्यो वा देवता । सायं सन्ध्योपस्थाने विनियोग​:

ॐ इ॒मं मे॑ वरुण श्रुधी॒हव॑ म॒द्या च॑ म्रुळय । त्वाम॑ व॒स्युराच॑के ॥ तत्व॑यामि ब्र॒ह्मणा॒ वंद॑मान॒: तदा शा॑स्ते॒ यज॑मानो ह॒विर्भि: । अहे॑ळमानो वरुणे॒ह पो॒ध्युरु॑शम्स॒ मान॒ आयु॒: प्रमो॑षी: ॥ यच्चि॒द्धिते॒ विशो॑ यथा॒ प्रदे॑व वरुण व्र॒तम् । मि॒नी॒मसि॒ द्यवि॑द्यवि ॥ यत्किंचे॒दं व॑रुण॒ दैव्ये॒ जने॑भि द्रो॒हं म॑नु॒ष्या३॒॑ श्चरामसि । अचि॑त्ती॒ यत्तव॒ धर्मा॑ युयोपिम॒ मा न॒स्तस्मा॒ देन॑सो देव रीरिष: ॥ कि॒त॒वासो॒ यत् रि॑रि॒पुर्न दी॒वि यद् वा॑ घा स॒त्यमु॒त यन्न वि॒द्म । सर्वा॒ ता विष्य॑ शिथि॒रेव॑ दे॒वाऽधा॑ ते स्याम वरुण प्रि॒यास॑: ॥

जातवेदसे इत्यस्य कश्यप ऋषि: । त्रिष्टुप् छन्द​: । अग्निर्देवता - सन्ध्योपस्थाने विनियोग​:

जा॒तवे॑दसे सुनवाम॒ सोम॑ मरातीय॒तो निद॑हाति॒ वेद॑: । स न॑: पर्ष॒दति॑ दु॒र्गानि॒विश्वा॑ ना॒वेव॒ सिंधुं॑ दुरि॒तान्य॒ग्नि:॥

पिशङ्गभृष्टिमित्यस्य परुच्छेप​: ऋषि: । गायत्री छन्द​: । इन्द्रो देवता - उपस्थाने विनियोग​:

पि॒शंग॑भ्रुष्टि॒मम् भ्रु॒नम् पि॒शाचि॑मिंद्र॒सं मृ॑न । सर्वं॒ रक्षो॒ निब॑र्हय ॥

भद्रं कर्णेभि: इत्यस्य गोतम ऋषि: । त्रिष्टुप् छन्द​: । विश्वेदेवा देवता: - उपस्थाने विनियोग​:

भ॒द्रं कर्णे॑भि: श्रुनुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्रा: । स्थि॒रैरङ्गै॑: तुष्टु॒वाम्स॑: त॒नूभि॒र्व्य॑शेम दे॒वहि॑त॒म् यदायु॑: ॥

केशीत्यस्य जूति ऋषि: । अनुष्टुप् छन्द​: ।अग्निर्देवता - उपस्थाने विनियोग​:

के॒श्य १॒॑ ग्निं के॒शी वि॒षं के॒शी बि॑भर्ति॒ रोद॑सि । के॒शी विश्वं॒ स्व॑र्द्रु॒शे के॒शीदं ज्योति॑रुच्यते ॥

१. सन्ध्यायै नम​:२. सावित्र्यै नम​:
३. गायत्र्यै नम:४. सरस्वत्यै नम​:
५. सर्वाभ्यो देवताभ्यो नम​:६. प्रतीच्यै नम​:
७. उदीच्यै नम​:८. प्राच्यै नम​:
९. दक्षिणायै नम​:१०. ऊर्ध्वाय नम​: