ओं ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता᳚त् । वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः ।
स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः । स॒तश्च॒ योनि॒मस॑तश्च॒ विव॑: ॥
पि॒ता वि॒राजा॑मृष॒भो र॑यी॒णाम् । अ॒न्तरि॑क्षं वि॒श्वरू॑प॒ आवि॑वेश ।
तम॒र्कैर॒भ्य॑र्चन्ति व॒त्सम् । ब्रह्म॒ सन्तं॒ ब्रह्म॑णा व॒र्धय॑न्तः ॥
ब्रह्म॑ दे॒वान॑जनयत् । ब्रह्म॒ विश्व॑मि॒दं जग॑त् ।
ब्रह्म॑णः क्ष॒त्रं निर्मि॑तम् । ब्रह्म॑ ब्राह्म॒ण आ॒त्मना᳚ ॥
अ॒न्तर॑स्मिन्नि॒मे लो॒काः । अ॒न्तर्विश्व॑मि॒दं जग॑त् ।
ब्रह्मै॒व भू॒तानां॒ ज्येष्ठम्᳚ । तेन॒ को॑ऽर्हति॒ स्पर्धि॑तुम् ॥
ब्रह्म॑न् दे॒वास्त्रय॑स्त्रिꣳशत् । ब्रह्म॑न्निन्द्र प्रजाप॒ती ।
ब्रह्म॑न् ह॒ विश्वा॑ भू॒तानि॑ । ना॒वीवा॒न्तः स॒माहि॑ता ॥
चत॑स्र॒ आशा॒: प्रच॑रन्त्व॒ग्नय॑: । इ॒मं नो॑ य॒ज्ञं न॑यतु प्रजा॒नन् ।
घृ॒तं पिन्व॑न्न॒जरꣳ सु॒वीरम्᳚ । ब्रह्म॑ स॒मिद्भ॑व॒त्याहु॑तीनाम् ॥
॥ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥
Read also in: English (IAST) देवनागरी தமிழ்