आचमनं

  • ओं अच्युताय नम​:
  • ओं अनन्ताय नम​:
  • ओं गोविन्दाय नम​:
केशवनारायणमाधव
गोविन्दविष्णुमधुसूदन
त्रिविक्रमवामनश्रीधर
हृषीकेश​पद्मनाभ​दामोदरा

श्री गणपति ध्यानं

शुक्लां बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्न वदनं ध्यायेत् सर्व विध्नोप शांतये ॥

प्राणायाम​:

ऒं भू: ऒं भुव: ऒं स्व: ऒं मह: ऒं जन​: ऒं तप: ऒं सत्यं । ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑त् ॥ ऒं आपो॒ ज्योती॒रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्वरोम् ।

सङ्कल्पम्

ममोपात्त समस्त दुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थं ब्रह्मयज्ञं करिष्ये । ब्रह्मयज्ञेन यक्ष्ये ।

यज्ञः

विद्यु॑दसि॒ विद्य॑ मे पा॒पमान॑मृ॒तात् स॒त्यमुपै॑मि ।

हस्तौ प्रक्षाल्य त्रिराचमेत् । उपस्थं कृत्वा ।

ॐ भूर्भुवः॒ स्वः॑ । तत् स॑वि॒तुर्वरे॑ण्यम् । भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया॑त् । ॐ तत् स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया॑त् । ॐ तत् स॑वि॒तुर्वरे॑ण्य॒ भर्गो॑ देवस्य॑ धीमहि धियो॒ यो नः प्रचो॒दया॑त् ।

अग्निमीळे – मधुच्छन्दः । अग्निः । गायत्री ।

॥ ऋग्वेदादिः ॥

अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विजं॑ । होता॑रं रत्न॒धात॑मम् ॥

अ॒ग्निः पूर्वे॑भि॒रृषि॑भि॒रीड्यो॒ नूत॑नैरु॒त । स दे॒वाँ एह व॑क्षति ॥

अ॒ग्निना॑ र॒यिम॑श्नव॒त् पोष॑मे॒व दि॒वेदि॑वे । य॒शसं॑ वी॒रव॑त्तमम् ॥

अग्ने॒ यं य॒ज्ञम॑ध्व॒रं वि॒श्वतः॑ परि॒भूरसि॑ । स इद्दे॒वेषु॑ गच्छति ॥

अ॒ग्निर्होता॑ क॒विक्र॑तुः स॒त्यश्चि॒त्रश्र॑वस्तमः । दे॒वो दे॒वेभि॒रा ग॑मत् ॥

यद॒ङ्ग दा॒शुषे॒ त्वमग्ने॑ भ॒द्रं क॑रि॒ष्यसि॑ । तवेत्तत्स॒त्यम॑ङ्गिरः ॥

उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्धि॒या व॒यम् । नमो॒ भर॑न्त॒ एम॑सि ॥

राज॑न्तमध्व॒राणां॑ गो॒पामृ॒तस्य॒ दीदि॑विम् । वर्ध॑मानं॒ स्वे दमे॑ ॥

स नः॑ पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व । सच॑स्वा नः स्व॒स्तये॑ ॥

॥ ऋग्वेद ब्राह्मणम् आरण्यकं च ॥

ॐ अग्निर्वै देवानामवमः । विष्णुः परमः । ओम् । ओम् अथ महाव्रतम् ओम् । ओम् एष पन्थाः एतत्कर्म ओम् । ओम् अथातः संहिताया उपनिषत् ओम् । ओम् विदा मघवन् विदा । ओम् । ओम् महाव्रतस्य पञ्चविंशतिं सामिधेन्यः ओम् ।

ॐ। उक्तानि वै तानि कानि । ॐ। यदिन्द्रादः दासराज्ञे। ॐ। इदं जनाः उपभृता।

॥ यजुः सामाथर्व वेदादयः ॥

  • हरिः ॐ। इ॒षेत्वो॒र्जे त्वा॑ वा॒यवः॑ स्थो पा॒यवः॑ स्थ दे॒वो वः॑ सवि॒ता प्राप॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑णे॥ हरिः॑ ॐ ॥
  • हरिः ॐ। अग्न॒ आया॑हि वी॒तये॑ गृणा॒नो ह॒व्यदा॑त॒ये। नि॒ि होता॑ सत्सि ब॒र्हिषि॑॥ हरिः॑ ॐ ॥
  • हरिः ॐ। शन्नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑। शं योर॒भिस्र॑वन्तु नः॥ हरिः॑ ॐ ॥
  • तपः स्वाध्यायनिरतम्। नारायणं नमस्कृत्य। पराशरम् मुनिवरम्।

ॐ नमो॒ ब्रह्म॑णे॒ नमो॑ अ॒स्त्व॒ग्नये॒ नमः॑ पृथि॒व्यै नम॒ ओष॑धीभ्यः । नमो॑ वा॒चे नमो॑ वा॒चस्प॑तये॒ नमो॒ विष्ण॑वे मह॒ते क॑रोमि॥ (एवं त्रिः)

वृष्टि॑रसि॒ वृश्च॑मे पा॒प्मान॑मृ॒तात्स॒त्यमुपागाम् ॥

हस्तौ प्रक्षाल्य ।

देवर्षि-पितृ-तर्पणं करिष्ये ॥

॥ देवर्षिपितृ – तर्पणम् ॥

उपवीती । सकृत् देवतीर्थेन ।

१.प्रजापतिस्तृप्यतु२.ब्रह्मा तृप्यतु३.वेदास्तृप्यन्तु
४.देवास्तृप्यन्तु५.ऋषयस्तृप्यन्तु६.सर्वाणि छन्दांसि तृप्यन्तु
७.ओङ्कारस्तृप्यतु८.वषट्कारस्तृप्यतु९.व्याहृतयस्तृप्यन्तु
१०.सावित्री तृप्यतु११.यज्ञास्तृप्यन्तु१२.द्यावापृथिवी तृप्येताम्
१३.अन्तरिक्षं तृप्यतु१४.अहोरात्राणि तृप्यतु१५.साङ्ख्यास्तृप्यन्तु
१६.सिद्धास्तृप्यन्तु१७.समुद्रास्तृप्यन्तु१८.नद्यस्तृप्यन्तु
१९.गिरयस्तृप्यन्तु२०.क्षेत्रौषधिवनस्पतिगन्धर्वाप्सरसस्तृप्यन्तु२१.नागास्तृप्यन्तु
२२.व्यांसि तृप्यन्तु२३.गावस्तृप्यन्तु२४.साध्यास्तृप्यन्तु
२५.विप्रास्तृप्यन्तु२६.यक्षास्तृप्यन्तु२७.रक्षांसि तृप्यन्तु
२८.भूतानि तृप्यन्तु२९.एवमन्तानि तृप्यन्तु ॥

निवीती । द्विः । ऋषितीर्थेन ।

१.शतर्चिनस्तृप्यन्तु२.माध्यमास्तृप्यन्तु३.गृत्समदस्तृप्यतु
४.विश्वामित्रस्तृप्यतु५.वामदेवस्तृप्यतु६.अत्रिस्तृप्यतु
७.भरद्वाजस्तृप्यतु८.वसिष्ठस्तृप्यतु९.प्रगाथास्तृप्यन्तु
१०.पावमान्यस्तृप्यन्तु११.क्षुद्रसूक्तास्तृप्यन्तु१२.महासूक्तास्तृप्यन्तु ॥

प्राचीनावीती । त्रिः । पितृतीर्थेन ।

१.सुमन्तु – जैमिनि – वैशम्पायन – पैल – सूत्र – भाष्य – भारत – महाभारत – धर्माचार्यास्तृप्यन्तु
२.जानन्ति – बाहवि – गार्ग्य – गौतम – शाकल – बाभ्रव्य – माण्डव्य – माण्डूकेयास्तृप्यन्तु
३.वाचक्नवी तृप्यतु४.वडवा प्रातीथेयी तृप्यतु
५.सुलभा मैत्रेयी तृप्यतु६.कहोळं तर्पयामि
७.कौषीतकं तर्पयामि८.महाकौषीतकं तर्पयामि
९.पैङ्ग्यं तर्पयामि१०.महापैङ्ग्यं तर्पयामि
११.सुयज्ञं तर्पयामि१२.साङ्ख्यायनं तर्पयामि
१३.ऐतरेयं तर्पयामि१४.महैतरेयं तर्पयामि
१५.शाकलं तर्पयामि१६.बाष्कलं तर्पयामि
१७.सुजातवक्रं तर्पयामि१८.औदवाहिं तर्पयामि
१९.महौदवाहिं तर्पयामि२०.सौजामिं तर्पयामि
२१.शौनकं तर्पयामि२२.आश्वलायनं तर्पयामि
२३.ये चान्ये आचार्यास्ते सर्वे तृप्यन्तु (त्रिः) ॥

पितृवर्ग / मातृवर्ग – तर्पणानि – जीवत्पितृकः न कुर्यात् ।

१.पितॄन् स्वधा नमस्तर्पयामि२.पितामहान् स्वधा नमस्तर्पयामि३.प्रपितामहान् स्वधा नमस्तर्पयामि
४.मातृः स्वधा नमस्तर्पयामि५.पितामही स्वधा नमस्तर्पयामि६.प्रपितामही स्वधा नमस्तर्पयामि
७.मातामहान् स्वधा नमस्तर्पयामि८.मातुः पितामहान् स्वधा नमस्तर्पयामि९.मातुः प्रपितामहान् स्वधा नमस्तर्पयामि
१०.मातामही स्वधा नमस्तर्पयामि११.मातुः पितामही स्वधा नमस्तर्पयामि१२.मातुः प्रपितामही स्वधा नमस्तर्पयामि
यत्र क्वचन संस्थानां क्षुत्तृष्णोपहतात्मनाम् । भूतानां तृप्तये तोयम् इदमस्तु यथासुखम् ॥ तृप्यत, तृप्यत, तृप्यत ॥

उपवीती

कायेन वाचा मनसेंद्रियैर्वा बुध्यात्मनावा प्रक्रुते स्वभावात् । करोमि यद्यत्सकलं परस्मै नारायाणायेति समर्पयामि ॥

आचमनं

  • ओं अच्युताय नम​:
  • ओं अनन्ताय नम​:
  • ओं गोविन्दाय नम​:
केशवनारायणमाधव
गोविन्दविष्णुमधुसूदन
त्रिविक्रमवामनश्रीधर
हृषीकेश​पद्मनाभ​दामोदरा

॥ ओं तत्सत् ब्रह्मार्पणमस्तु ॥

Read also in: English (IAST) देवनागरी தமிழ்

Leave a Reply

Your email address will not be published. Required fields are marked *