आचमनं

  • ओं अच्युताय नम​:
  • ओं अनन्ताय नम​:
  • ओं गोविन्दाय नम​:
केशवनारायणमाधव
गोविन्दविष्णुमधुसूदन
त्रिविक्रमवामनश्रीधर
हृषीकेश​पद्मनाभ​दामोदरा

श्री गणपति ध्यानं

शुक्लां बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्न वदनं ध्यायेत् सर्व विध्नोप शांतये ॥

प्राणायाम​:

ऒं भू: ऒं भुव: ऒं स्व: ऒं मह: ऒं जन​: ऒं तप: ऒं सत्यं ।

ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑त् ॥

ऒं आपो॒ ज्योती॒रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्वरोम् ।

सङ्कल्पम्

ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं अपवित्र: पवित्रो वा सर्वावस्थां गतोऽपिवा । यस्मरॆत् पुण्डरीकाक्षं स बाह्य अभ्यंतर: शुचि: ॥

मानसं वाचिकं पापं कर्मणा समुपार्जितम् । श्री राम स्मरणेनैव व्यपोहति न संशय: ॥ श्री राम राम राम – तिथिर्विष्णु: तथा वारो नक्षत्रं विष्णुरेव च । योगश्च करणं चैव सर्वं विष्णु मयं जगत् ॥

श्री गोविन्द गोविन्द गोविन्द – अद्य श्री भगवत: महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणः द्वितीये परार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरो: दक्षिणे पार्श्वे दण्डकारण्ये शकाब्दे अस्मिन् वर्तमाने व्यावहारिके प्रभवादीनां षष्टयाः संवत्सराणां मध्ये ___नाम संवत्सरे, ___अयने, ___ऋतौ, ___मासे, कृष्णपक्षे अमावास्यायां पुण्यतिथौ ___ वासर युक्तायां, ___ नक्षत्र युक्तायां विष्णुयोग विष्णुकरण एवंगुण विशेषण विशिष्टायां अस्यां अमावास्यायां पुण्यतिथौ (प्राचीनावीती) ___ गोत्राणां ___ शर्मणां वसु रुद्र आदित्य स्वरूपाणां पितृ पितामह प्रपितामहानाम् ___गोत्राणां, ___दानां वसु रुद्र आदित्य स्वरूपाणां मातृ पितामही प्रपितामहीनां ___ गोत्राणां, ___ शर्मणां, ___ गोत्राणां, ___ दानां वसु रुद्र आदित्य स्वरूपाणां सपत्नीक मातामह मातुः पितामह- मातुः प्रपितामहानां उभयवंश पितॄणाम् अक्षय्यतृप्त्यर्थं अमावास्या पुण्यकाले दर्शश्राद्धं तिलतर्पण रूपेण अद्य करिष्ये ॥

(उपवीती) अप उपस्पृश्य – (प्राचीनावीती)

आवाहनम्

उशन्तस्त्वा निधीमहि उशन्तः समिधीमहि । उशन्नुशत आवह पितॄन् हविषे अत्तवे ॥ अस्मिन् कूर्चे ___ गोत्रान् ___ शर्मणः वसु रुद्र आदित्य स्वरूपान् अस्मत् पितृ पितामह प्रपितामहान् ___ गोत्त्रान् ___शर्मणः वसुरुद्रादित्यस्वरूपान् अस्मत् सपत्नीक मातामह मातु:पितामह मातु:प्रपितामहान् आवाहयामि

आयन्तु नः पितरः सोम्यासः अग्निष्वात्ताः पथिभिर्देवयानैः । अस्मिन् यज्ञे स्वधया मदन्तु अधिब्रुवन्तु ते अवन्त्वस्मान् ॥ वर्गद्वय पितॄणाम् इदमासनम् । सकलाराधनैः स्वर्चितम्

तर्पणम्

१। ___गोत्रान् ___ शर्मणः वसुरूपान् अस्मत्पितॄन् स्वधा नमस्तर्पयामि । (x ३) २। ___गोत्रान् ___ शर्मणः रुद्ररूपान् अस्मत्पितामहान् स्वधा नमस्तर्पयामि । (x ३) ३। ___गोत्रान् ___ शर्मणः आदित्यरूपान् अस्मत्प्रपितामहान् स्वधा नमस्तर्पयामि । (x ३)

४। ___ गोत्राः ___नाम्नी: अस्मन्मातृ: स्वधा नमस्तर्पयामि । (x ३) ५। ___ गोत्राः ___नाम्नी: अस्मत्पितामहीः स्वधा नमस्तर्पयामि । (x ३) ६। ___ गोत्राः ___नाम्नी: अस्मत्प्रपितामहीः स्वधा नमस्तर्पयामि ॥ (x ३)

१। ___गोत्रान् ___ शर्मणःवसुरूपान् अस्मन्मातुः पितॄन् स्वधा नमस्त- र्पयामि । (x ३) २। ___गोत्रान् ___ शर्मणः शर्मणः रुद्ररूपान् अस्मन्मातुः पितामहान् स्वधा नमस्तर्पयामि । (x ३) ३। ___गोत्रान् ___ शर्मणः आदित्यरूपान् अस्मन्मातुः प्रपितामहान् स्वधा नमस्तर्पयामि । (x ३)

४। ___ गोत्राः ___नाम्नी: अस्मन्मातामहीः स्वधा नमस्तर्पयामि । (x ३) ५। ___ गोत्राः ___नाम्नी: अस्मन्मातुः पितामहीः स्वधा नमस्तर्पयामि । (x ३) ६। ___ गोत्राः ___नाम्नी: अस्मन्मातुः प्रपितामहीः स्वधा नमस्तर्पयामि । (x ३)

  • ज्ञाताज्ञात पितॄन् स्वधा नमस्तर्पयामि ।
  • ज्ञाताज्ञात पितॄन् स्वधा नमस्तर्पयामि ।
  • ज्ञाताज्ञात पितॄन् स्वधा नमस्तर्पयामि ।

उपस्थानम् –

ओम् नमो वः पितर इषे । नमो वः पितर ऊर्जे । नमो वः पितरः शुष्माय । नमो वः पितरां घोराय । नमो वः पितरो जीवाय । नमो वः पितरो रसाय । स्वधाः वः पितरः । नमो वः पितरः । नमः एता युष्माकं पितरः । इमाः अस्माकम् । जीवाः वः । जीवन्तः इह सन्तः स्याम ।

मनोन्वाहुवामहे नाराशंसेन सोमेन । पितॄणां च मन्मभिः ॥ आत एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक् च सूर्य दृशे ॥ पुनः पितरो ददातु दैव्यो जनः । जीवं व्रातं सचेमहि ॥

देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नमः स्वधायै स्वाहायै नित्यमेव नमो नमः ।

(उपवीती)

अभिवाद नमस्कार​:

सय् अभिवद अन्द् दो सस्ह्तन्ग नमस्करम्।

अभिवादये ___ त्रयार्षेय ​/ पञ्चार्षेय प्रवरान्वित ___ गोत्र​: ___ आश्वलायन सूत्र​: ___ ऋग्वेदान्तर्गत शाकल शाखाध्यायी ___ शर्मा नाम अहं अस्मि भो:।

(प्राचीनावीती)

उशन्तस्त्वा निधीमहि उशन्तः समिधीमहि । उशन्नुशत आवह पितॄन् हविषे अत्तवे ॥ अस्मिन कूर्चे आवाहित वर्गद्वय पितॄन् यथास्थानं प्रतिष्ठापयामि ।

येषां न माता न पिता न भ्राता न बन्धुः नान्यगोत्रिणः । ते सर्वे तृप्तिमायान्तु मयोत्सृष्टैः कुशोदकैः ॥ रेमोवे पवित्र अन्द् दो अछमनम्।

आचमनं

  • ओं अच्युताय नम​:
  • ओं अनन्ताय नम​:
  • ओं गोविन्दाय नम​:
केशवनारायणमाधव
गोविन्दविष्णुमधुसूदन
त्रिविक्रमवामनश्रीधर
हृषीकेश​पद्मनाभ​दामोदरा

सात्त्विकत्यागं

कायेन वाचा मनसेन्द्रियैर्वा बुध्यात्मनावा प्रक्रुते स्वभावात् । करोमि यद्यत्सकलं परस्मै नारायाणायेति समर्पयामि ॥

॥ ओं तत्सत् ब्रह्मार्पणमस्तु ॥

Read also in: English (IAST) देवनागरी தமிழ்

Leave a Reply

Your email address will not be published. Required fields are marked *