यो॑ऽपां पुष्पं॒ वेद॑ । पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति ।
च॒न्द्रमा॒ वा अ॒पां पुष्पम्᳚ । पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति । अ॒ग्निर्वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवान् भवति । यो᳚ऽग्नेरा॒यत॑नं॒ वेद॑ ॥
आ॒यत॑नवान् भवति । आपो॒ वा अ॒ग्नेरा॒यत॑नम् ।
आ॒यत॑नवान् भवति । य ए॒वं वेद॑ ।
यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
वा॒युर्वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति ।
यो वा॒योरा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥
आपो॒ वै वा॒योरा॒यत॑नम् । आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति । अ॒सौ वै तप॑न्न॒पामा॒यत॑नम् ।
आ॒यत॑नवान् भवति । यो॑ऽमुष्य॒ तप॑त आ॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति । आपो॒ वा अ॒मुष्य॒ तप॑त आ॒यत॑नम् ॥
आ॒यत॑नवान् भवति । य ए॒वं वेद॑ ।
यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
च॒न्द्रमा॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति ।
यश्च॒न्द्रम॑स आ॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
आपो॒ वै च॒न्द्रम॑स आ॒यत॑नम् । आ॒यत॑नवान् भवति ॥
य ए॒वं वेद॑। यो॑ऽपामा॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति । नक्ष॑त्राणि॒ वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवान् भवति । यो नक्ष॑त्राणामा॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति । आपो॒ वै नक्ष॑त्राणामा॒यत॑नम् ।
आ॒यत॑नवान् भवति । य ए॒वं वेद॑ ॥
यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति ।
यः प॒र्जन्य॑स्या॒ऽ॒ऽ॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
आपो॒ वै प॒र्जन्य॑स्या॒ऽ॒ऽ॒यत॑नम् । आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ ॥
आ॒यत॑नवान् भवति । सं॒व॒त्स॒रो वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवान् भवति । यः सं॑वत्स॒रस्या॒ऽऽयत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति । आपो॒ वै सं॑वत्स॒रस्या॒ऽऽयत॑नम् ।
आ॒यत॑नवान् भवति । य ए॒वं वेद॑ ।
यो᳚ऽफ्सु नावं॒ प्रति॑ष्ठितां॒ वेद॑ । प्रत्ये॒व ति॑ष्ठति ॥
रा॒जा॒धि॒रा॒जाय॑ प्रसह्यसा॒हिने᳚ ।
नमो॑ व॒यं वै᳚श्रव॒णाय॑ कुर्महे । स मे॒ कामा॒न्काम॒कामा॑य॒ मह्यम्᳚ ।
का॒मे॒श्व॒रो वै᳚श्रव॒णो द॑दातु। कु॒बे॒राय॑ वैश्रव॒णाय॑ ।
म॒हा॒रा॒जाय॒ नमः॑ ॥
॥ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥
Read also in: English (IAST) देवनागरी தமிழ்