मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

मन्त्रपुष्पम्

मन्त्रपुष्पम्. Also called mantra pushpam, Mantrapuṣpam. Svara-marked text on Vaidhika Dharma.

MD
अध्ययनम्
अनुक्रमणिका
संहिता निर्देशाः
मूलम्

तै॰आ॰ १.२२

यो॑ऽपां पुष्पं॒ वेद॑। पुष्प॑वान्‌ प्र॒जावा᳚न् पशु॒मान् भ॑वति।

च॒न्द्रमा॒ वा अ॒पां पुष्पम्᳚। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान्‌ भ॑वति।

य ए॒वं वेद॑। यो॑ऽपामा॒यत॑नं॒ वेद॑।

आ॒यत॑नवान्‌ भवति। अ॒ग्निर्वा अ॒पामा॒यत॑नम्।

आ॒यत॑नवान्‌ भवति। यो᳚ऽग्नेरा॒यत॑नं॒ वेद॑॥७८॥

आ॒यत॑नवान्‌ भवति। आपो॒ वा अ॒ग्नेरा॒यत॑नम्।

आ॒यत॑नवान्‌ भवति। य ए॒वं वेद॑।

यो॑ऽपामा॒यत॑नं॒ वेद॑। आ॒यत॑नवान्‌ भवति।

वा॒युर्वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान्‌ भवति।

यो वा॒योरा॒यत॑नं॒ वेद॑। आ॒यत॑नवान्‌ भवति॥७९॥

आपो॒ वै वा॒योरा॒यत॑नम्। आ॒यत॑नवान्‌ भवति।

य ए॒वं वेद॑। यो॑ऽपामा॒यत॑नं॒ वेद॑।

आ॒यत॑नवान्‌ भवति। अ॒सौ वै तप॑न्न॒पामा॒यत॑नम्।

आ॒यत॑नवान्‌ भवति। यो॑ऽमुष्य॒ तप॑त आ॒यत॑नं॒ वेद॑।

आ॒यत॑नवान्‌ भवति। आपो॒ वा अ॒मुष्य॒ तप॑त आ॒यत॑नम्॥८०॥

आ॒यत॑नवान्‌ भवति। य ए॒वं वेद॑।

यो॑ऽपामा॒यत॑नं॒ वेद॑। आ॒यत॑नवान्‌ भवति।

च॒न्द्रमा॒ वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान्‌ भवति।

यश्च॒न्द्रम॑स आ॒यत॑नं॒ वेद॑। आ॒यत॑नवान्‌ भवति।

आपो॒ वै च॒न्द्रम॑स आ॒यत॑नम्। आ॒यत॑नवान्‌ भवति॥८१॥

य ए॒वं वेद॑। यो॑ऽपामा॒यत॑नं॒ वेद॑।

आ॒यत॑नवान्‌ भवति। नक्ष॑त्राणि॒ वा अ॒पामा॒यत॑नम्।

आ॒यत॑नवान्‌ भवति। यो नक्ष॑त्राणामा॒यत॑नं॒ वेद॑।

आ॒यत॑नवान्‌ भवति। आपो॒ वै नक्ष॑त्राणामा॒यत॑नम्।

आ॒यत॑नवान्‌ भवति। य ए॒वं वेद॑॥८२॥

यो॑ऽपामा॒यत॑नं॒ वेद॑। आ॒यत॑नवान्‌ भवति।

प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान्‌ भवति।

यः प॒र्जन्य॑स्या॒ऽ॒ऽ॒यत॑नं॒ वेद॑। आ॒यत॑नवान्‌ भवति।

आपो॒ वै प॒र्जन्य॑स्या॒ऽ॒ऽ॒यत॑नम्। आ॒यत॑नवान्‌ भवति।

य ए॒वं वेद॑। यो॑ऽपामा॒यत॑नं॒ वेद॑॥८३॥

आ॒यत॑नवान्‌ भवति। सं॒व॒थ्स॒रो वा अ॒पामा॒यत॑नम्।

आ॒यत॑नवान्‌ भवति। यः सं॑वथ्स॒रस्या॒ऽ॒ऽ॒यत॑नं॒ वेद॑।

आ॒यत॑नवान्‌ भवति। आपो॒ वै सं॑वथ्स॒रस्या॒ऽ॒ऽ॒यत॑नम्।

आ॒यत॑नवान्‌ भवति। य ए॒वं वेद॑।

यो᳚ऽफ्सु नावं॒ प्रति॑ष्ठितां॒ वेद॑। प्रत्ये॒व ति॑ष्ठति॥८४॥

इ॒मे वै लो॒का अ॒फ्सु प्रति॑ष्ठिताः। तदे॒षाऽभ्यनू᳚क्ता।

अ॒पाꣳ रस॒मुद॑यꣳसन्। सूर्ये॑ शु॒क्रꣳ स॒माभृ॑तम्।

अ॒पाꣳ रस॑स्य॒ यो रसः॑। तं वो॑ गृह्णाम्युत्त॒ममिति॑।

इ॒मे वै लो॒का अ॒पाꣳ रसः॑। ते॑ऽमुष्मि॑न्नादि॒त्ये स॒माभृ॑ताः।

जा॒नु॒द॒घ्नीमु॑त्तरवे॒दीं खा॒त्वा। अ॒पां पू॑रयि॒त्वा गु॑ल्फद॒घ्नम्॥८५॥

पुष्करपर्णैः पुष्करदण्डैः पुष्करैश्च॑ सꣴस्ती॒र्य। तस्मि॑न्विहा॒यसे।

अ॒ग्निं प्र॒णीयो॑पसमा॒धाय॑। ब्र॒ह्म॒वा॒दिनो॑ वदन्ति।

कस्मा᳚त्प्रणी॒तेऽयम॒ग्निश्ची॒यते᳚। साप्र॑णी॒तेऽयम॒फ्सु ह्ययं॑ ची॒यते᳚।

अ॒सौ भुव॑ने॒ऽप्यना॑हिताग्निरे॒ताः। तम॒भित॑ ए॒ता अ॒बीष्ट॑का॒ उप॑दधाति।

अ॒ग्नि॒हो॒त्रे द॑र्शपूर्णमा॒सयोः᳚। प॒शु॒ब॒न्धे चा॑तुर्मा॒स्येषु॑॥८६॥

अथो॑ आहुः। सर्वे॑षु यज्ञक्र॒तुष्विति॑।

ए॒तद्ध॑ स्म॒ वा आ॑हुः शण्डि॒लाः। कम॒ग्निं चि॑नुते।

स॒त्रि॒यम॒ग्निं चि॑न्वा॒नः। सं॒व॒थ्स॒रं प्र॒त्यक्षे॑ण।

कम॒ग्निं चि॑नुते। सा॒वि॒त्रम॒ग्निं चि॑न्वा॒नः।

अ॒मुमा॑दि॒त्यं प्र॒त्यक्षे॑ण। कम॒ग्निं चि॑नुते॥८७॥

ना॒चि॒के॒तम॒ग्निं चि॑न्वा॒नः।

प्रा॒णान्प्र॒त्यक्षे॑ण। कम॒ग्निं चि॑नुते। चा॒तु॒र्॒‌हो॒त्रि॒यम॒ग्निं चि॑न्वा॒नः।

ब्रह्म॑ प्र॒त्यक्षे॑ण। कम॒ग्निं चि॑नुते। वै॒श्व॒सृ॒जम॒ग्निं चि॑न्वा॒नः।

शरी॑रं प्र॒त्यक्षे॑ण। कम॒ग्निं चि॑नुते। उ॒पा॒नु॒वा॒क्य॑मा॒शुम॒ग्निं चि॑न्वा॒नः॥८८॥

इ॒माँल्लो॒कान्प्र॒त्यक्षे॑ण। कम॒ग्निं चि॑नुते।

इ॒ममा॑रुणकेतुकम॒ग्निं चि॑न्वा॒न इति॑। य ए॒वासौ।

इ॒तश्चा॒ऽमुत॑श्चाऽव्यतीपा॒ती। तमिति॑।

यो᳚ऽग्नेर्मि॑थू॒या वेद॑। मि॒थु॒न॒वान्भ॑वति।

आपो॒ वा अ॒ग्नेर्मि॑थू॒याः। मि॒थु॒न॒वान्भ॑वति। य ए॒वं वेद॑॥८९॥TA 1.22

॥१॥