कुलदेवतात्वेन वेङ्कटेशं भजमानाः शुभकार्येभ्यः पूर्वं कन्यामासशनिवासरेषु च पूजयन्ति। उलूखलं गोमयेन मृदा वा पूरयित्वा तोरणपुष्पमालाभिरलङ्कृत्य तस्योपरि तण्डुलपिष्टमयं घृतदीपं प्रज्वाल्य उलूखले सप्तगिरिरूपं शैलराजं दीपज्वालायां श्रीनिवासं चावाहयेत्। दीपं दम्पती त्रिः प्रदक्षिणीकृत्य उलूखले निदध्याताम्। दीपे स्वयं शान्ते क्षीरफलादिकं निवेद्य गिरेरवरोहणं प्रार्थयेयुः। ब्राह्मणभोजनं समाराधनं च।
पूर्वाङ्गपूजा. इदं पूर्वाङ्गं सर्वासु पूजासु समानम् — आदौ आचर्य पश्चात् प्रधानपूजां कुर्यात्। पूर्वाङ्गपूजा
पूर्वाङ्गपूजा
संवृणु
आचमनम्
ध्यानम्
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
प्राणायामः — सङ्कल्पः
अप उपस्पृश्य
ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं करिष्यमाणस्य कर्मणः निर्विघ्नेन परिसमाप्त्यर्थं आदौ विघ्नेश्वरपूजां करिष्ये।
महद्भन्दनम्
आब्रह्मलोकादारोहात् आलोकात् लोकपर्वतात्।
ये वसन्ति द्विजा देवास्तेभ्यो नित्यं नमो नमः ॥
आसनपूजा
पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता। आसने विनियोगः।
पृथिवि त्वया धृता लोका देवि त्वं विष्णुना धृता।
त्वं च धारय मां देवि पवित्रं चासनं कुरु ॥
घण्टापूजा
घण्टानादं कृत्वा।
आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्।
घण्टारवं करोम्यादौ देवताह्वानकारणम् ॥
विघ्नेश्वरपूजा
अस्मिन् हरिद्राबिम्बे श्रीविघ्नेश्वरं ध्यायामि।
आवाहयामि। आसनं समर्पयामि। पादयोः पाद्यं समर्पयामि। अर्घ्यं समर्पयामि। आचमनीयं समर्पयामि। मधुपर्कं समर्पयामि। स्नानं समर्पयामि। आचमनीयं समर्पयामि। वस्त्रं समर्पयामि। उपवीतं समर्पयामि। दिव्यपरिमलगन्धान् धारयामि। अक्षतान् समर्पयामि। पुष्पैः पूजयामि।
| सुमुखाय नमः |
| एकदन्ताय नमः |
| कपिलाय नमः |
| गजकर्णिकाय नमः |
| लम्बोदराय नमः |
| विकटाय नमः |
| विघ्नराजाय नमः |
| विनायकाय नमः |
| धूमकेतवे नमः |
| गणाध्यक्षाय नमः |
| फालचन्द्राय नमः |
| गजाननाय नमः |
| वक्रतुण्डाय नमः |
| शूर्पकर्णाय नमः |
| हेरम्बाय नमः |
| स्कन्दपूर्वजाय नमः |
| सिद्धिविनायकाय नमः |
| श्रीमहागणपतये नमः |
उपचाराः
धूपमाघ्रापयामि। दीपं दर्शयामि। निवेदयामि। कर्पूरनीराजनं दर्शयामि। समस्तोपचारपूजां समर्पयामि।
प्रार्थना
वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
इति प्रार्थ्य। प्राणायामः।
सङ्कल्पः
शुभे शोभने मुहूर्ते आद्यब्रह्मणः द्वितीयपराधे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोर्दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिके प्रभवादिषष्टिसंवत्सराणां मध्ये …… नाम संवत्सरे …… अयने …… ऋतौ …… मासे …… पक्षे …… शुभतिथौ …… वासरयुक्तायां …… नक्षत्रयुक्तायां शुभयोगशुभकरणसकलविशेषणविशिष्टायामस्यां शुभतिथौ ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं अलमेलुमङ्गासमेतश्रीवेङ्कटेशप्रीत्यर्थं यथाशक्ति षोडशोपचारैः अलमेलुमङ्गासमेतश्रीवेङ्कटेशपूजां करिष्ये।
अप उपस्पृश्य। श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च। इति विघ्नेश्वरमुद्राम्।
कलशपूजा
कलशं गन्धपुष्पाक्षतैरभ्यर्च्य। कलशजलेन तत्तद्देवतानाम योजयेत्। पूजाद्रव्याणि आत्मानं च प्रोक्ष्य।
गङ्गे च यमुने चैव गोदावरि सरस्वति।
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥
| गङ्गायै नमः | |
| यमुनायै नमः | |
| गोदावर्यै नमः | |
| सरस्वत्यै नमः | |
| नर्मदायै नमः | |
| सिन्धवे नमः | |
| कावेर्यै नमः | पुष्पैः पूजयामि। |
शङ्खपूजा
कलशोदकेन शङ्खं पूरयेत्। शङ्खजलेन पूजोपकरणानि द्रव्याणि आत्मानं च त्रिः प्रोक्ष्य, पुनः शङ्खं पूरयेत्।
त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे।
देवैश्च पूजितः सर्वैः पाञ्चजन्य नमोऽस्तु ते ॥
आत्मपूजा
देहो देवालयः प्रोक्तो जीवो देवः सनातनः।
त्यजाम्यज्ञाननिर्मूल्यं सोऽहंभावेन पूजये ॥
पीठपूजा
| ओं सकलगुणात्मशक्तियुक्ताय योगपीठाय नमः |
| आधारशक्त्यै नमः |
| मूलप्रकृत्यै नमः |
| आदिवराहाय नमः |
| आदिकूर्माय नमः |
| अनन्ताय नमः |
| पृथिव्यै नमः |
| आदित्यादिनवग्रहदेवताभ्यो नमः |
| दशदिक्पालेभ्यो नमः |
गुरुध्यानम्
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॥
श्रीगुरुं ध्यायामि।
प्रधानपूजा
ध्यानम्
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
ध्यानम्
ध्यायामो वेङ्कटेशं कलिमलहरणं काञ्चनाराधिताङ्घ्रिं
शेषाद्रौ सन्निविष्टं चिरमपि रमया भूमिवैकुण्ठनाथम्।
सुब्रह्मण्यं सुरेशं सकलमुनिगणैस्सेवितं मन्त्रमूर्तिं
भक्तेष्टार्थप्रदानप्रविततयशसं विष्णुमर्चावतारम् ॥
सहस्रशिरसं देवं सहस्राक्षं जगन्मयम्।
सहस्रपदमव्यक्तं वेङ्कटाद्रिस्थितं हरिम् ॥
सर्वसम्पत्प्रदातारं सर्वापत्क्षयकारिणम्।
मम सौभाग्यसिद्ध्यर्थं ध्यायाम्यत्र जगत्प्रभुम् ॥
शेषशैलपतये शेषाय नमः — ध्यायामि।
आवाहनम्
एहि सर्वजगन्नाथ सर्वसौभाग्यदायक।
आगच्छ कृपया देव मम पूजां गृहाण भोः ॥
शेषविभूषणाय नमः — आवाहयामि।
आसनम्
वेङ्कटेश्वर सर्वज्ञ भक्तानामिष्टदायक।
आसनं ते प्रदास्यामि गृहाण सुरवन्दित ॥
शेषशायिने कुमाराय नमः — आसनं समर्पयामि।
पाद्यम्
तीर्थपाद नमस्तुभ्यं नारायण जगन्मय।
मम तापनिवृत्त्यर्थं पाद्यं दास्यामि केशव ॥
सुब्रह्मण्याय परायणाय वेङ्कटाचलनाथाय नमः — पाद्यं समर्पयामि।
अर्घ्यम्
वेङ्कटाद्रिनिवासाय भक्तानां सौख्यदायिने।
सर्वलोकशरण्याय दत्तमर्घ्यमिदं मया ॥
वेङ्कटेशाय कलितारकाय नमः — अर्घ्यं समर्पयामि।
आचमनीयम्
आचम्यतां जगद्वन्द्य सर्वपापनिवारक।
मया दत्तेन तीर्थेन अन्तः शुद्धिं कुरुष्व भोः ॥
शुभक्षेत्रप्रसन्नाय श्रीमते नमः — आचमनीयं समर्पयामि।
मधुपर्कः
कुमाररूपिणे तुभ्यं दधिमध्वाज्यसम्युतम्।
मधुपर्कं प्रदास्यामि श्रीनिवास नमोऽस्तु ते ॥
श्रीवेङ्कटाचलपतये नमः — मधुपर्कं समर्पयामि।
स्नानम्
गङ्गादिसर्वतीर्थेभ्यः समाहृतमिदं जलम्।
स्नानार्थं ते प्रदास्यामि स्वीकुरुष्व जनार्दन ॥
स्वामिपुष्करणीपतये लोकेश्वराय नमः — स्नानं समर्पयामि। आचमनीयं समर्पयामि।
वस्त्रम्
वासुदेव नमस्तुभ्यं पीताम्बरधराय च।
आनीतं वस्त्रयुग्मं ते गृहाण सुरसत्तम ॥
धनपतये विष्णवे नमः — वस्त्रं समर्पयामि।
उपवीतम्
त्रिगुणात्मन् जगन्नाथ त्रिगुणीकृतमादरात्।
गृह्यतामुपवीतं च ब्रह्मग्रन्थियुतं शुभम् ॥
वीतकामाय सर्वेश्वरेश्वराय नमः — उपवीतं समर्पयामि।
गन्धः
श्रीगन्धं कुङ्कुमोपेतं कर्पूराद्यैः समन्वितम्।
लेपनार्थं प्रदास्यामि गृहाणामरवन्दित ॥
सर्वेश्वराय कल्याणगुणपूर्णाय नमः — गन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।
अक्षताः
शालीयान् चन्द्रवर्णाभान् शङ्खशुभ्रान्मनोहरान्।
हरिद्राचूर्णसंमिश्रान् अक्षतान् संगृहाण भोः ॥
अक्षतविग्रहाय सुन्दराय नमः — अक्षतान् समर्पयामि।
पुष्पाणि
जातीचम्पकपुन्नागतुलसीशतपत्रकैः।
पुष्पैः पूजां करोम्यद्य प्रसादं कुरु मे प्रभो ॥
काङ्क्षितार्थप्रदायकाय श्रीभूसहचराय नमः। पुष्पाणि समर्पयामि।
अङ्गपूजा
| कपिलातीर्थपदे नमः | पादौ पूजयामि। |
| दामोदराय नमः | गुल्फौ पूजयामि। |
| दैत्यारये नमः | जङ्घे पूजयामि। |
| पीताम्बरधारिणे नमः | ऊरू पूजयामि। |
| स्वर्णसूत्रधारिणे नमः | कटिं पूजयामि। |
| जगत्कुक्षये नमः | नाभिं पूजयामि। |
| भक्तवश्याय नमः | हृदयं पूजयामि। |
| मुक्ताहारिणे नमः | कण्ठं पूजयामि। |
| पुण्डरीकाक्षाय नमः | नेत्रे पूजयामि। |
| स्मितवक्त्राय नमः | मुखं पूजयामि। |
| किरीटिने नमः | शिरः पूजयामि। |
| सर्वेशाय नमः | सर्वाण्यङ्गानि पूजयामि। |
अष्टोत्तरशतनामार्चना
वेङ्कटेश अष्टोत्तरशत नामावलिः (वराहपुराण अन्तर्गता)पृथक्पृष्ठे पठ
- १ॐ वेङ्कटेशाय नमः
- २ॐ शेषाद्रिनिलयाय नमः
- ३ॐ वृषदृग्गोचराया नमः
- ४ॐ विष्णवे नमः
- ५ॐ सदञ्जनगिरीशाय नमः
- ६ॐ वृषाद्रिपतये नमः
- ७ॐ मेरुपुत्रगिरीशाय नमः
- ८ॐ सरस्स्वामितटीजुषे नमः
- ९ॐ कुमारकल्पसेव्याय नमः
- १०ॐ वज्रदृग्विषयाय नमः
- ११ॐ सुवर्चलासुतन्यस्तसेनापत्यभराय नमः
- १२ॐ रामाय नमः
- १३ॐ पद्मनाभाय नमः
- १४ॐ वायुस्तुताय नमः
- १५ॐ त्यक्तवैकुण्ठलोकाय नमः
- १६ॐ गिरिकुञ्जविहारिणे नमः
- १७ॐ हरिचन्दनगोत्रेन्द्रस्वामिने नमः
- १८ॐ शङ्खराजन्यनेत्राब्जविषयाय नमः
- १९ॐ वसूपरिचरत्रात्रे नमः
- २०ॐ कृष्णाय नमः
- २१ॐ अब्धिकन्यापरिष्वक्तवक्षसे नमः
- २२ॐ वेङ्कटाय नमः
- २३ॐ सनकादिमहायोगिपूजिताय नमः
- २४ॐ देवजित्प्रमुखानन्तदैत्यसङ्घप्रणाशिने नमः
- २५ॐ श्वेतद्वीपवसन्मुक्तपूजिताङ्घ्रियुगाय नमः
- २६ॐ शेषपर्वतरूपत्वप्रकाशन- पराय नमः
- २७ॐ सानुस्थापिततार्क्ष्याय नमः
- २८ॐ तार्क्ष्याचलनिवासिने नमः
- २९ॐ मायागूढविमानाय नमः
- ३०ॐ गरुडस्कन्धवासिने नमः
- ३१ॐ अनन्तशिरसे नमः
- ३२ॐ अनन्ताक्षाय नमः
- ३३ॐ अनन्तचरणाया नमः
- ३४ॐ श्रीशैलनिलयाय नमः
- ३५ॐ दामोदरय नमः
- ३६ॐ नीलमेघनिभाय नमः
- ३७ॐ ब्रह्मादिदेवदुर्दर्शविश्वरूपाय नमः
- ३८ॐ वैकुण्ठगतसद्धेमविमानान्तर्गताय नमः
- ३९ॐ अगस्त्याभ्यर्थिताशेषजनदृग्गोचराय नमः
- ४०ॐ वासुदेवाय नमः
- ४१ॐ हरये नमः
- ४२ॐ तीर्थपञ्चकवासिने नमः
- ४३ॐ वामदेवप्रियाय नमः
- ४४ॐ जनकेष्टप्रदाय नमः
- ४५ॐ मार्कण्डेयमहातीर्थजातुपुण्यप्रदाय नमः
- ४६ॐ वाक्पतिब्रह्मधात्रे नमः
- ४७ॐ चन्द्रलावण्यदायिने नमः
- ४८ॐ नारायणनगेशाय नमः
- ४९ॐ ब्रह्मकॄप्तोत्सवाय नमः
- ५०ॐ शङ्खचक्रवरानम्रलसत्करतलाय नमः
- ५१ॐ द्रवन्मृगमदासक्तविग्रहाय नमः
- ५२ॐ केशवाय नमः
- ५३ॐ नित्ययौवनमूर्तये नमः
- ५४ॐ अर्थितार्थप्रदात्रे नमः
- ५५ॐ विश्वतीर्थाघहारिणे नमः
- ५६ॐ तीर्थस्वामिसरःस्नातजनाभीष्टप्रदायिने नमः
- ५७ॐ कुमारधारिकावासस्कन्दाभीष्टप्रदाय नमः
- ५८ॐ जानुदघ्नसमुद्भूतपोत्रिणे नमः
- ५९ॐ कूर्ममूर्तये नमः
- ६०ॐ किन्नरद्वन्द्वशापान्तप्रदात्रे नमः
- ६१ॐ विभवे नमः
- ६२ॐ वैखानसमुनिश्रेष्ठपूजिताय नमः
- ६३ॐ सिंहाचलनिवासाय नमः
- ६४ॐ श्रीमन्नारायणाय नमः
- ६५ॐ सद्भक्तनीलकण्ठार्च्यनृसिंहाय नमः
- ६६ॐ कुमुदाक्षगणश्रेष्ठसेनापत्यप्रदाय नमः
- ६७ॐ दुर्मेधः प्राणहर्त्रे नमः
- ६८ॐ श्रीधराय नमः
- ६९ॐ क्षत्रियान्तकरामाय नमः
- ७०ॐ मत्स्यरूपाय नमः
- ७१ॐ पाण्डवारिप्रहर्त्रे नमः
- ७२ॐ श्रीकराय नमः
- ७३ॐ उपत्यकाप्रदेशस्थशङ्करध्यानमूर्तये नमः
- ७४ॐ रुक्माब्जसरसीकूललक्ष्मीकृततपस्विने नमः
- ७५ॐ लसल्लक्ष्मीकराम्भोजदत्तकल्हारकस्रजे नमः
- ७६ॐ शालग्रामनिवासाय नमः
- ७७ॐ शुकदृग्गोचराय नमः
- ७८ॐ नारायणार्थिताशेषजनदृग्विषयाय नमः
- ७९ॐ मृगयारसिकाय नमः
- ८०ॐ ऋषभासुरहारिणे नमः
- ८१ॐ अञ्जनागोत्रपतये नमः
- ८२ॐ वृषभाचलवासिने नमः
- ८३ॐ अञ्जनासुतदात्रे नमः
- ८४ॐ माधवीयाघहारिणे नमः
- ८५ॐ प्रियाङ्गुप्रियभ्क्षाय नमः
- ८६ॐ श्वेतकोलवराय नमः
- ८७ॐ नीलधेनुपयोधारासेकदेहोद्भवाय नमः
- ८८ॐ शङ्करप्रियमित्राय नमः
- ८९ॐ चोलपुत्रप्रियाय नमः
- ९०ॐ सुधर्मिणे नमः
- ९१ॐ सुचैतन्यप्रदात्रे नमः
- ९२ॐ मधुघातिने नमः
- ९३ॐ कृष्णाख्यविप्रवेदान्तदेशिकत्वप्रदाय नमः
- ९४ॐ वराहाचलनाथाय नमः
- ९५ॐ बलभद्राय नमः
- ९६ॐ त्रिविक्रमाय नमः
- ९७ॐ महते नमः
- ९८ॐ हृषीकेशाय नमः
- ९९ॐ अच्युताय नमः
- १००ॐ नीलाद्रिनिलयाय नमः
- १०१ॐ क्षीराब्धिनाथाय नमः
- १०२ॐ वैकुण्ठाचलवासिने नमः
- १०३ॐ मुकुन्दाय नमः
- १०४ॐ अनन्ताय नमः
- १०५ॐ विरिञ्चाभ्यर्तितानीतसौम्यरूपाय नमः
- १०६ॐ सुवर्णमुखरीस्नातमनुजाभीष्टदायिने नमः
- १०७ॐ हलायुधजगत्तीर्थसमस्तफलदायिने नमः
- १०८ॐ गोविन्दाय नमः
- १०९ॐ श्रीनिवासाय नमः
धूपः
दशाङ्गं गुग्गुलूपेतं सुगन्धं सुमनोहरम्।
धूपं गृहाण देवेश वासुदेव नमोऽस्तु ते ॥
कलिप्रत्यक्षदैवताय म्लेच्छराजसुतोद्वाहरक्षितास्तिकमण्डलाय नमः — धूपमाघ्रापयामि।
दीपः
अज्ञानध्वान्तनाशाय अखण्डालोकशालिने।
घृताक्तवर्तिसंयुक्तं दीपं दास्येऽद्य भक्तितः ॥
महिमोदयमूलाय देवाय नमः — दीपं संदर्शयामि।
नैवेद्यम्
नानाभक्ष्यसमायुक्तं नानाफलसमन्वितम्।
नैवेद्यं गृह्यतां देव परमान्नेन संयुतम् ॥
पतितपावनाय नमः — अमृतं महानैवेद्यं समर्पयामि। आचमनीयं समर्पयामि।
ताम्बूलम्
पूगीफलसमायुक्तं नागवल्लीदलैर्युतम्।
कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
श्रीवेङ्कटाचलपतये नमः। ताम्बूलं समर्पयामि।
नीराजनम्
नीराजनं हृषीकेश कोटिसूर्यप्रकाशक।
अहं भक्त्या प्रदास्यामि स्वीकुरुष्व दयानिधे ॥
नरापद्विनिवारकाय पुराणपुरुषाय नमः — कर्पूरनीराजनं दर्शयामि।
मन्त्रपुष्पम्
श्रीवेङ्कटाचलपतये नमः — मन्त्रपुष्पाञ्जलिं समर्पयामि।
दीपपूजा — सङ्कल्पः
उलूखलं तत्समीपे घृतदीपं च निधाय अलङ्कृत्य। शुक्लाम्बरधरं विष्णुं …… सर्वविघ्नोपशान्तये। ममोपात्त …… (अप उपस्पृश्य)
श्रीवेङ्कटेशप्रीत्यर्थं शैलराजपूजां दीपराजपूजां च करिष्ये।
शैलराजदीपराजावाहनम्
उलूखले शैलराजं दीपज्वालायां श्रीवेङ्कटेशं च पूजयेत्।
एहि वैश्वानर स्वामिन्नागच्छ कृपयाऽधुना।
शैलराज सदानन्द वह्नेर्वाहनकारण।
आगच्छ देवतुष्ट्यर्थं प्रत्यहं ते नमो नमः ॥
अस्मिन् उलूखले शैलराजं ध्यायामि आवाहयामि। अस्यां दीपज्वालायां महाविष्णुं वेङ्कटेशं ध्यायामि आवाहयामि।
उपचाराः
पूर्ववत् — आसनाद्युपचाराः। अथवा
श्रीवेङ्कटेशाय नमः। शैलराजाय नमः — आसनं समर्पयामि। पाद्यं समर्पयामि। अर्घ्यं समर्पयामि। आचमनीयं समर्पयामि। मधुपर्कं समर्पयामि। स्नानं समर्पयामि। आचमनीयं समर्पयामि। वस्त्राणि समर्पयामि। उपवीतं समर्पयामि। आभरणानि समर्पयामि। गन्धान् धारयामि। हरिद्राकुङ्कुमं समर्पयामि। अक्षतान् समर्पयामि। पुष्पाणि समर्पयामि।
शैलराजनामावली
| ओं शैलराजाय नमः |
| दीपवाहाय नमः |
| दीपराजाय नमः |
| ज्योतीरूपाय नमः |
| अनुग्रहदात्रे नमः |
| जगद्रक्षकाय नमः |
| वरदाय नमः |
| सर्वतोमुखाय नमः |
| तमोऽपहन्त्रे नमः |
| प्राणिजीवनाय नमः |
| शेषाचलाय नमः |
| अञ्जनाचलाय नमः |
| वृषभाचलाय नमः |
| नारायणाचलाय नमः |
| वेदाचलाय नमः |
| गरुडाचलाय नमः |
| श्रीवेङ्कटाचलाय नमः |
उत्तरपूजा
दीपज्वालायां श्रीवेङ्कटेशं पूजयेत्।
शैलराजाय नमः। वेङ्कटेशाय नमः। अङ्गपूजा, अष्टोत्तरशतनामार्चना। नानाविधपत्रपुष्पाणि समर्पयामि। धूपमाघ्रापयामि। दीपं दर्शयामि। अमृतं महानैवेद्यं निवेदयामि। कर्पूरताम्बूलं समर्पयामि। नीराजनं दर्शयामि।
दीपप्रदक्षिणम्
दीपं गृहीत्वा उलूखलं श्रीवेङ्कटेशं च प्रदक्षिणीकृत्य उलूखलोपरि दीपं निधाय निवेदनं कृत्वा कर्पूरनीराजनं कुर्यात्।
| श्रीवेङ्कटेशाय नमः | उत्तरनीराजनं दर्शयामि। |
| श्रीवेङ्कटेशाय नमः | स्वर्णपुष्पं समर्पयामि। |
| श्रीवेङ्कटेशाय नमः | समस्तराजोपचारान् समर्पयामि। |
प्रदक्षिणम्
यानि कानि च पापानि जन्मान्तरकृतानि च।
तानि तानि विनश्यन्ति प्रदक्षिणपदे पदे ॥
प्रकृष्टपापनाशाय प्रकृष्टफलसिद्धये।
प्रदक्षिणं करोमीश प्रसीद पुरुषोत्तम ॥
श्रीवेङ्कटेशाय नमः प्रदक्षिणम् समर्पयामि।
नमस्कारः
नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे।
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः ॥
अकारादिक्षकारान्तवर्णैर्यः प्रतिपाद्यते।
कलौ स वेङ्कटेशाख्यः शरणं मे रमापतिः ॥
ओं नमो वेङ्कटेशाय शेषाद्रिनिलयाय च।
सदञ्जनगिरीशाय वृषाद्रिपतये नमः ॥
अनाथजनरक्षकाय नमः नमस्कारान् समर्पयामि।
मङ्गलम्
श्रीवेङ्कटाचलाधीशं श्रियाऽध्यासितवक्षसम्।
श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥
श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम्।
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥
कल्याणाद्भुतगात्राय कामितार्थप्रदायिने।
श्रीमद्वेङ्कटनाथाय श्रीनिवासाय मङ्गलम् ॥
श्रीवेङ्कटाद्रिनिलयः कमलाकामुकः पुमान्।
अभङ्गुरविभूतिर्नः तरङ्गयतु मङ्गलम् ॥
प्रार्थना
विना वेङ्कटेशं न नाथो न नाथः सदा वेङ्कटेशं स्मरामि स्मरामि।
हरे वेङ्कटेश प्रसीद प्रसीद प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ ॥
सर्वत्र सर्वकालेषु मङ्गाम्बाजानिरीश्वरः।
पालयेन्मां तथा कर्मसाफल्यं नः प्रयच्छतु ॥
अर्घ्यप्रदानम्
वेङ्कटाद्रिनिवासाय सप्ताद्रिपतये नमः।
इदमर्घ्यं प्रदास्यामि सुप्रीतो वरदो भव ॥
श्रीवेङ्कटेश्वराय नमः इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम्।
त्रिः अर्घ्यं दद्यात्।
उपायनदानम्
आचार्याय सदक्षिणाकम् उपायनं दद्यात्।
वेङ्कटेश्वरस्वरूपस्य ब्राह्मणस्येदमासनं — सकलाराधनैः स्वर्चितम्।
अद्रीशः प्रतिगृह्णाति अद्रीशो वै ददाति च।
उभयोस्तारकोऽद्रीशः अद्रीशाय नमो नमः ॥
इदमुपायनं सदक्षिणाकं सताम्बूलं वेङ्कटेशप्रीतिं कामयमानस्तुभ्यमहं सम्प्रददे।
॥ ओं तत् सत् ॥