skipLink.label

ईशावास्योपनिषद् — वाजसनेयी संहिता (काण्व) (18 मन्त्राः)

ईशोपनिषद्

अथ चत्वारिंशोऽध्यायः।

ई॒शा वा॒स्य॑मि॒दं सर्वं॒ यत्किं च॒ जग॑त्यां॒ जग॑त् ।

तेन॑ त्य॒क्तेन॑ भुञ्जीथा॒ मा गृ॑धः॒ कस्य॑ स्वि॒द्धन॑म्

॥४०.१॥

कु॒र्वन्ने॒वेह कर्मा॑णि जिजीवि॒षेच्छ॒त समाः॑ ।

ए॒वं त्वयि॒ नान्यथे॒तो॑ऽस्ति॒ न कर्म॑ लिप्यते॒ नरे॑

॥४०.२॥

अ॒सु॒र्या॒ नाम॑ ते लो॒का अ॒न्धेन॒ तम॒सावृ॑ताः ।

तास्ते प्रेत्या॒भिग॑च्छन्ति॒ ये के चा॑त्म॒हनो॒ जनाः॑

॥४०.३॥

अने॑ज॒देकं॒ मन॑सो॒ जवी॑यो॒ नैन॑द्दे॒वा आ॑प्नुव॒न्पूर्व॒मर्श॑त् ।

तद्धाव॑तो॒ऽन्यानत्ये॑ति॒ तिष्ठ॒त्तस्मि॑न्न॒पो मा॑त॒रिश्वा॑ दधाति

॥४०.४॥

तदे॑जति॒ तन्नै॑जति॒ तद्दू॒रे तद्व॑न्ति॒के ।

तद॒न्तर॑स्य॒ सर्व॑स्य॒ तदु॒ सर्व॑स्यास्य बाह्य॒तः

॥४०.५॥

यस्तु सर्वा॑णि भू॒तान्या॒त्मन्ने॒वानु॒पश्य॑ति ।

स॒र्व॒भू॒तेषु॑ चा॒त्मानं॒ ततो॒ न वि जु॑गुप्सते

॥४०.६॥

यस्मि॒न्त्सर्वा॑णि भू॒तान्या॒त्मैवाभू॑द्विजान॒तः ।

तत्र॒ को मोहः॒ कः शोक॑ एक॒त्वम॑नु॒पश्य॑तः

॥४०.७॥

स पर्य॑गाच्छु॒क्रम॑का॒यम॑व्र॒णम॑स्नावि॒र शु॒द्धमपा॑पविद्धम् ।

क॒विर्म॑नी॒षी प॑रि॒भूः स्व॑यं॒भूर्या॑थातथ्य॒तोऽर्था॒न्व्य॑द धाच्छाश्व॒ती भ्यः॒ समा॑भ्यः

॥४०.८॥

अ॒न्धं तमः॒ प्र वि॑शन्ति॒ येऽवि॑द्यामु॒पास॑ते ।

ततो॒ भूय॑ इव॒ ते तमो॒ य उ॑ वि॒द्याया॑ र॒ताः

॥४०.९॥

अ॒न्यदे॒वाहुर्वि॒द्यया॒न्यदा॑हु॒रवि॑द्याया ।

इति॑ शुश्रुम॒ धीरा॑णां॒ ये न॒स्तद्वि॑चचक्षि॒रे

॥४०.१०॥

वि॒द्यां चावि॑द्यां च॒ यस्तद्वेदो॒भय॑ स॒ह ।

अवि॑द्यया मृ॒त्युं ती॒र्त्वा वि॒द्यया॒मृत॑मश्नुते

॥४०.११॥

अ॒न्धं तमः॒ प्रवि॑शन्ति॒ येऽसं॑भूतिमु॒पास॑ते ।

ततो॒ भूय॑ इव॒ ते तमो॒ य उ॒ संभू॑त्या र॒ताः

॥४०.१२॥

अ॒न्यदे॒वाहुः सं॑भ॒वाद॒न्यदा॑हु॒रसं॑भवात् ।

इति॑ शुश्रुम॒ धीरा॑णां॒ ये न॒स्तद्वि॑चचक्षि॒रे

॥४०.१३॥

संभू॑तिं च विना॒शं च॒ यस्तद्वेदो॒भय॑ स॒ह ।

वि॒ना॒शेन॑ मृ॒त्युं ती॒र्त्वा संभू॑त्या॒मृत॑मश्नुते

॥४०.१४॥

हि॒र॒ण्मये॑न॒ पात्रे॑ण स॒त्यस्यापि॑हितं॒ मुख॑म् ।

तत्त्वं पू॑ष॒न्नपावृ॑णु स॒त्यध॑र्माय दृ॒ष्टये॑

॥४०.१५॥

तेजो॒ यत्ते॑ रू॒पे कल्या॑णतमं॒ तत्ते॑ पश्यामि ।

यो॒ऽसाव॒सौ पुरु॑षः॒ सो॒ऽहम॑स्मि

॥४०.१६॥

वा॒युरनि॑लम॒मृत॒मथे॒दं भस्मा॑न्त॒ शरी॑रम् ।

ओम्३ क्रतो॒ स्मर॑ कृ॒त स्म॑र॒ क्रतो॒ स्मर॑ कृ॒त स्म॑र

॥४०.१७॥

अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।

यु॒यो॒ध्य॒स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ उ॒क्तिं विधेम

॥४०.१८॥