मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्री गुरु पूजा

श्री गुरु पूजा. Also called guru puja, guru pooja, guru vandana, vyasa puja.

3

आषाढपूर्णिमायां गुरुपूर्णिमायां विशेषतः कार्या। सन्न्यासिनां व्यासपूजा पृथग्विधिका। स्वगुरोः श्रीदक्षिणामूर्तेः श्रीशङ्करभगवत्पादानां वा चित्रपटं निधाय पूजयेत्। एकाकी सङ्घशो वा कर्तुं शक्यते।

पूर्वाङ्गपूजा. इदं पूर्वाङ्गं सर्वासु पूजासु समानम् — आदौ आचर्य पश्चात् प्रधानपूजां कुर्यात्। पूर्वाङ्गपूजा

पूर्वाङ्गपूजा

संवृणु
आचमनम्
ध्यानम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

प्राणायामः — सङ्कल्पः

अप उपस्पृश्य

ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं करिष्यमाणस्य कर्मणः निर्विघ्नेन परिसमाप्त्यर्थं आदौ विघ्नेश्वरपूजां करिष्ये।

महद्भन्दनम्

आब्रह्मलोकादारोहात् आलोकात् लोकपर्वतात्।

ये वसन्ति द्विजा देवास्तेभ्यो नित्यं नमो नमः ॥

आसनपूजा

पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता। आसने विनियोगः।

पृथिवि त्वया धृता लोका देवि त्वं विष्णुना धृता।

त्वं च धारय मां देवि पवित्रं चासनं कुरु ॥

घण्टापूजा

घण्टानादं कृत्वा।

आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्।

घण्टारवं करोम्यादौ देवताह्वानकारणम् ॥

विघ्नेश्वरपूजा

अस्मिन् हरिद्राबिम्बे श्रीविघ्नेश्वरं ध्यायामि।

आवाहयामि। आसनं समर्पयामि। पादयोः पाद्यं समर्पयामि। अर्घ्यं समर्पयामि। आचमनीयं समर्पयामि। मधुपर्कं समर्पयामि। स्नानं समर्पयामि। आचमनीयं समर्पयामि। वस्त्रं समर्पयामि। उपवीतं समर्पयामि। दिव्यपरिमलगन्धान् धारयामि। अक्षतान् समर्पयामि। पुष्पैः पूजयामि।

सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णिकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
सिद्धिविनायकाय नमः
श्रीमहागणपतये नमः
उपचाराः

धूपमाघ्रापयामि। दीपं दर्शयामि। निवेदयामि। कर्पूरनीराजनं दर्शयामि। समस्तोपचारपूजां समर्पयामि।

प्रार्थना

वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ।

निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

इति प्रार्थ्य। प्राणायामः।

सङ्कल्पः

शुभे शोभने मुहूर्ते आद्यब्रह्मणः द्वितीयपराधे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोर्दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिके प्रभवादिषष्टिसंवत्सराणां मध्ये …… नाम संवत्सरे …… अयने …… ऋतौ …… मासे …… पक्षे …… शुभतिथौ …… वासरयुक्तायां …… नक्षत्रयुक्तायां शुभयोगशुभकरणसकलविशेषणविशिष्टायामस्यां शुभतिथौ ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं श्रीगुरुप्रीत्यर्थं ज्ञानविवेकश्रुतधारणमेधावाग्मित्वादिसिद्ध्यर्थं श्रीगुरुपूजां करिष्ये।

अप उपस्पृश्य। श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च। इति विघ्नेश्वरमुद्राम्।

कलशपूजा

कलशं गन्धपुष्पाक्षतैरभ्यर्च्य। कलशजलेन तत्तद्देवतानाम योजयेत्। पूजाद्रव्याणि आत्मानं च प्रोक्ष्य।

गङ्गे च यमुने चैव गोदावरि सरस्वति।

नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥

गङ्गायै नमः
यमुनायै नमः
गोदावर्यै नमः
सरस्वत्यै नमः
नर्मदायै नमः
सिन्धवे नमः
कावेर्यै नमःपुष्पैः पूजयामि।
शङ्खपूजा

कलशोदकेन शङ्खं पूरयेत्। शङ्खजलेन पूजोपकरणानि द्रव्याणि आत्मानं च त्रिः प्रोक्ष्य, पुनः शङ्खं पूरयेत्।

त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे।

देवैश्च पूजितः सर्वैः पाञ्चजन्य नमोऽस्तु ते ॥

आत्मपूजा

देहो देवालयः प्रोक्तो जीवो देवः सनातनः।

त्यजाम्यज्ञाननिर्मूल्यं सोऽहंभावेन पूजये ॥

पीठपूजा
ओं सकलगुणात्मशक्तियुक्ताय योगपीठाय नमः
आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिवराहाय नमः
आदिकूर्माय नमः
अनन्ताय नमः
पृथिव्यै नमः
आदित्यादिनवग्रहदेवताभ्यो नमः
दशदिक्पालेभ्यो नमः
गुरुध्यानम्

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।

गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॥

श्रीगुरुं ध्यायामि।

प्रधानपूजा

ध्यानम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

श्रीगुरुध्यानम्

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः।

गुरुः साक्षात्परं ब्रह्म तस्मै श्रीगुरवे नमः॥

नित्यानन्दं परमसुखदं केवलं ज्ञानमूर्तिं भावातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम्।

एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं विश्वातीतं त्रिगुणरहितं सद्गुरुं तं नमामि॥

पटे श्रीगुरुं दृष्ट्वा मनसा ध्यायेत्। श्रीगुरवे नमः। श्रीगुरुं ध्यायामि। श्रीगुरुं आवाहयामि।

आसनम्

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया।

चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः॥

श्रीगुरवे नमः। आसनं समर्पयामि॥

पाद्यम्

चैतन्यं शाश्वतं शान्तं व्योमातीतं निरञ्जनम्।

नादबिन्दुकलातीतं तस्मै श्रीगुरवे नमः॥

श्रीगुरवे नमः। पाद्यं समर्पयामि॥

अर्घ्यम्

अखण्डमण्डलाकारं व्याप्तं येन चराचरम्।

तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः॥

श्रीगुरवे नमः। अर्घ्यं समर्पयामि॥

आचमनीयम्

स्थावरं जङ्गमं व्याप्तं यत्किञ्चित्सचराचरम्।

त्वंपदं दर्शितं येन तस्मै श्रीगुरवे नमः॥

श्रीगुरवे नमः। आचमनीयं समर्पयामि॥

मधुपर्कः

चिन्मयं व्यापितं सर्वं त्रैलोक्यं सचराचरम्।

असित्वं दर्शितं येन तस्मै श्रीगुरवे नमः॥

श्रीगुरवे नमः। मधुपर्कं समर्पयामि॥

स्नानम्

सच्चिदानन्दरूपाय व्यापिने परमात्मने।

नमः श्रीगुरुनाथाय प्रकाशानन्दमूर्तये॥

श्रीगुरवे नमः। स्नपयामि। आचमनीयं समर्पयामि॥

वस्त्रम्

ज्ञानशक्तिं समारुह्य तत्त्वमालाविभूषिणे।

भुक्तिमुक्तिप्रदात्रे ते तस्मै श्रीगुरवे नमः॥

श्रीगुरवे नमः। वस्त्राणि धारयामि॥ यज्ञोपवीतं समर्पयामि।

गन्धः

अनेकजन्मसंप्राप्तकर्मधर्मविदाहिने।

ज्ञानानल्पप्रभावेण तस्मै श्रीगुरवे नमः॥

श्रीगुरवे नमः। गन्धान्धारयामि। गन्धोपरि हरिद्राकुङ्कुमं धारयामि। अक्षतान्समर्पयामि।

पुष्पाणि

ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम्।

मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा॥

श्रीगुरवे नमः। पुष्पाणि समर्पयामि॥ पुष्पैः पूजयामि।

अर्चनम्

श्रीदक्षिणामूर्तेः श्रीशङ्करभगवत्पादानां स्वगुरूणां वा अष्टोत्तरशतनामावल्यापि अर्चनं कर्तुं शक्यते।

गुरवे नमः
परमगुरवे नमः
परमेष्ठिगुरवे नमः
परात्परगुरवे नमः
सत्यानन्दस्वरूपाय नमः
बोधैकसुखकारिणे नमः
वेदान्तवेद्याय नमः
बुद्धिसाक्षिणे नमः
शान्तात्मने नमः
गुह्यतमाय नमः
अचिन्त्याय नमः
अप्रमेयाय नमः
अनादिनिधनाय नमः
अमानिने नमः
मानदाय नमः
पुण्यश्लोकाय नमः
योगिने नमः
शिष्यशिक्षणदक्षाय नमः
लोकसंस्थितिहेतवे नमः
स्वनुष्ठितस्वधर्माय नमः
धर्ममार्गप्रदर्शिने नमः
शमादिषट्काश्रयाय नमः
स्थितप्रज्ञाय नमः
धीमते नमः
भक्तहार्दतमोभेददिव्यतेजःस्वरूपिणे नमः
श्रीगुरवे नमः
मानसार्चनम्

मानसपूजायाम्।

सत्यानन्दस्वरूपाय बोधैकसुखकारिणे।

नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे॥

नमः शान्तात्मने तुभ्यं नमो गुह्यतमाय च।

अचिन्त्यायाप्रमेयाय अनादिनिधनाय च॥

अमानिने मानदाय पुण्यश्लोकाय योगिने।

शिष्यशिक्षणदक्षाय लोकसंस्थितिहेतवे॥

स्वनुष्ठितस्वधर्माय धर्ममार्गप्रदर्शिने।

शमादिषट्काश्रयाय स्थितप्रज्ञाय धीमते॥

भक्तहार्दतमोभेददिव्यतेजःस्वरूपिणे॥

धूपः

नित्यं शुद्धं निराभासं निराकारं निरञ्जनम्।

नित्यबोधं चिदानन्दं गुरुं ब्रह्म नमाम्यहम्॥

श्रीगुरवे नमः। धूपमाघ्रापयामि। आचमनीयं समर्पयामि।

दीपः

यत्सत्येन जगत्सत्यं यत्प्रकाशेन भाति यत्।

यदानन्देन नन्दन्ति तस्मै श्रीगुरवे नमः॥

श्रीगुरवे नमः। दीपं दर्शयामि। आचमनीयं समर्पयामि।

महानैवेद्यम्

वन्देऽहं सच्चिदानन्दं भावातीतं जगद्गुरुम्।

नित्यं पूर्णं निराकारं निर्गुणं त्वात्मसंस्थितम्॥

श्रीगुरवे नमः। अमृतं महानैवेद्यं निवेदयामि। आचमनीयं समर्पयामि। ताम्बूलं समर्पयामि।

कर्पूरनीराजनम्

निरस्तसर्वसन्देहं एकीकृत्य सुदर्शनम्।

रहस्यं यो दर्शयति भजामि गुरुमीश्वरम्॥

श्रीगुरवे नमः। कर्पूरनीराजनं समर्पयामि॥

प्रदक्षिणनमस्काराः

हृदम्बुजे कर्णिकमध्यसंस्थसिंहासने संस्थितदिव्यमूर्तिम्।

वन्दे गुरुं चन्द्रकलाप्रकाशं सच्चित्सुखाभीष्टवरं दधानम्॥

श्रीगुरवे नमः। प्रदक्षिणनमस्कारान् समर्पयामि॥

गुरुस्तुतिः

वन्दे गुरुपदद्वन्द्वं अवाङ्मनसगोचरम्।

रक्तशुक्लप्रभामिश्रमतर्क्यं त्रैपुरं महः॥

ब्रह्माद्यशेषगुरुपारम्पर्यक्रमेण स्वगुरुपादाम्बुजं यावत्प्रणमामि।

मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः।

स्वात्मैव सर्वभूतात्मा तस्मै श्रीगुरवे नमः॥

गुरुः शिवो गुरुर्देवो गुरुर्बन्धुः शरीरिणाम्।

गुरुरात्मा गुरुर्जीवो गुरोरन्यन्न विद्यते॥

ब्रह्मानन्दं परमसुखदं योगिनामप्यगम्यं द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम्।

एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं विश्वातीतं त्रिगुणरहितं सद्गुरुं तं नमामि॥

श्रीदक्षिणामूर्तिस्तुतिः

गुरवे सर्वलोकानां भिषजे भवरोगिणाम्।

निधये सर्वविद्यानां दक्षिणामूर्तये नमः॥

चित्रं वटतरोर्मूले वृद्धाः शिष्या गुरुर्युवा।

गुरोस्तु मौनं व्याख्यानं शिष्यास्तु छिन्नसंशयाः॥

मौनव्याख्याप्रकटितपरब्रह्मतत्त्वं युवानं वर्षिष्ठान्तेवसदृषिगणैरावृतं ब्रह्मनिष्ठैः।

आचार्येन्द्रं करकलितचिन्मुद्रमानन्दमूर्तिं स्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे॥

ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम्।

आधारं सर्वविद्यानां हयग्रीवमुपास्महे॥

श्रीगुरुपादुकापञ्चकम्

दक्षिणामूर्त्यष्टकं दक्षिणामूर्तिवर्णमालास्तोत्रं च पठित्वा प्रणमेत्।

जगज्जनिस्तेमलयालयाभ्याम् अगण्यपुण्योदयभाविताभ्याम्।

त्रयीशिरोजातनिवेदिताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्॥ १॥

विपत्तमस्तोमविकर्तनाभ्यां विशिष्टसंपत्तिविवर्धनाभ्याम्।

नमज्जनाशेषविशेषदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्॥ २॥

समस्तदुस्तर्ककलङ्कपङ्कापनोदनप्रौढजलाशयाभ्याम्।

निराश्रयाभ्यां निखिलाश्रयाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्॥ ३॥

तापत्रयादित्यकरार्दितानां छायामयीभ्यामतिशीतलाभ्याम्।

आपन्नसंरक्षणदीक्षिताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्॥ ४॥

यतो गिरोऽप्राप्य धिया समस्ताः ह्रिया निवृत्ताः सममेव नित्याः।

ताभ्यामजेशाच्युतभाविताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्॥ ५॥

समर्पणम्

अनया पूजया श्रीगुरुः प्रीयताम्।

ओं तत्सद्ब्रह्मार्पणमस्तु।