मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

लघु श्रीचक्र पूजा

लघु श्रीचक्र पूजा. Also called srichakra puja, sri chakra puja, srichakra pooja, laghu srichakra.

3

श्रीविद्यामन्त्रदीक्षितेनैव गुरोरनुज्ञया कर्तव्या। त्रिखण्डा-योनिमुद्रादयो मुद्रा गुरुमुखादेव ज्ञातव्याः।

पूर्वाङ्गपूजा. इदं पूर्वाङ्गं सर्वासु पूजासु समानम् — आदौ आचर्य पश्चात् प्रधानपूजां कुर्यात्। पूर्वाङ्गपूजा

पूर्वाङ्गपूजा

संवृणु
आचमनम्
ध्यानम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

प्राणायामः — सङ्कल्पः

अप उपस्पृश्य

ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं करिष्यमाणस्य कर्मणः निर्विघ्नेन परिसमाप्त्यर्थं आदौ विघ्नेश्वरपूजां करिष्ये।

महद्भन्दनम्

आब्रह्मलोकादारोहात् आलोकात् लोकपर्वतात्।

ये वसन्ति द्विजा देवास्तेभ्यो नित्यं नमो नमः ॥

आसनपूजा

पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता। आसने विनियोगः।

पृथिवि त्वया धृता लोका देवि त्वं विष्णुना धृता।

त्वं च धारय मां देवि पवित्रं चासनं कुरु ॥

घण्टापूजा

घण्टानादं कृत्वा।

आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्।

घण्टारवं करोम्यादौ देवताह्वानकारणम् ॥

विघ्नेश्वरपूजा

अस्मिन् हरिद्राबिम्बे श्रीविघ्नेश्वरं ध्यायामि।

आवाहयामि। आसनं समर्पयामि। पादयोः पाद्यं समर्पयामि। अर्घ्यं समर्पयामि। आचमनीयं समर्पयामि। मधुपर्कं समर्पयामि। स्नानं समर्पयामि। आचमनीयं समर्पयामि। वस्त्रं समर्पयामि। उपवीतं समर्पयामि। दिव्यपरिमलगन्धान् धारयामि। अक्षतान् समर्पयामि। पुष्पैः पूजयामि।

सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णिकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
सिद्धिविनायकाय नमः
श्रीमहागणपतये नमः
उपचाराः

धूपमाघ्रापयामि। दीपं दर्शयामि। निवेदयामि। कर्पूरनीराजनं दर्शयामि। समस्तोपचारपूजां समर्पयामि।

प्रार्थना

वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ।

निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

इति प्रार्थ्य। प्राणायामः।

सङ्कल्पः

शुभे शोभने मुहूर्ते आद्यब्रह्मणः द्वितीयपराधे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोर्दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिके प्रभवादिषष्टिसंवत्सराणां मध्ये …… नाम संवत्सरे …… अयने …… ऋतौ …… मासे …… पक्षे …… शुभतिथौ …… वासरयुक्तायां …… नक्षत्रयुक्तायां शुभयोगशुभकरणसकलविशेषणविशिष्टायामस्यां शुभतिथौ ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं श्रीललितामहात्रिपुरसुन्दरीप्रीत्यर्थं श्रीचक्रपूजां करिष्ये।

अप उपस्पृश्य। श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च। इति विघ्नेश्वरमुद्राम्।

कलशपूजा

कलशं गन्धपुष्पाक्षतैरभ्यर्च्य। कलशजलेन तत्तद्देवतानाम योजयेत्। पूजाद्रव्याणि आत्मानं च प्रोक्ष्य।

गङ्गे च यमुने चैव गोदावरि सरस्वति।

नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥

गङ्गायै नमः
यमुनायै नमः
गोदावर्यै नमः
सरस्वत्यै नमः
नर्मदायै नमः
सिन्धवे नमः
कावेर्यै नमःपुष्पैः पूजयामि।
शङ्खपूजा

कलशोदकेन शङ्खं पूरयेत्। शङ्खजलेन पूजोपकरणानि द्रव्याणि आत्मानं च त्रिः प्रोक्ष्य, पुनः शङ्खं पूरयेत्।

त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे।

देवैश्च पूजितः सर्वैः पाञ्चजन्य नमोऽस्तु ते ॥

आत्मपूजा

देहो देवालयः प्रोक्तो जीवो देवः सनातनः।

त्यजाम्यज्ञाननिर्मूल्यं सोऽहंभावेन पूजये ॥

पीठपूजा
ओं सकलगुणात्मशक्तियुक्ताय योगपीठाय नमः
आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिवराहाय नमः
आदिकूर्माय नमः
अनन्ताय नमः
पृथिव्यै नमः
आदित्यादिनवग्रहदेवताभ्यो नमः
दशदिक्पालेभ्यो नमः
गुरुध्यानम्

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।

गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॥

श्रीगुरुं ध्यायामि।

प्रधानपूजा

ध्यानम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

पूर्वाङ्गपूजा

आसनपूजा। घण्टापूजा। कलशपूजा। शंखपूजा। आत्मपूजा। पीठपूजा।

योगिनीनमस्कारः

समस्तप्रकट-गुप्त-गुप्ततर-संप्रदाय-कुलोत्तीर्ण-निगर्भ-रहस्य-अतिरहस्य-परापरातिरहस्य-योगिनीभ्यो नमः॥

गुर्वनुज्ञा

श्रीगुरो दक्षिणामूर्ते भक्तानुग्रहकारक।

अनुज्ञां देहि भगवन् श्रीचक्रयजनाय मे॥

दीपप्रार्थना

दीपदेवि महादेवि शुभं भवतु मे सदा।

यावत् पूजासमाप्तिः स्यात् तावत्प्रज्वल सुस्थिरा॥

भूतशुद्धिः

मूलशृंगाटकात् सुषुम्नापथेन जीवशिवं परमशिवपदे योजयामि स्वाहा॥

यं (१६) संकोचशरीरं शोषय शोषय स्वाहा।

रं (१६) संकोचशरीरं दह दह पच पच स्वाहा।

वं (१६) परमशिवामृतं वर्षय वर्षय स्वाहा।

लं (१६) शांभवशरीरमुत्पादय उत्पादय स्वाहा।

हंसः सोहं अवतर अवतर शिवपदात् जीव सुषुम्नापथेन प्रविश मूलशृंगाटकं उल्लसोल्लस ज्वल ज्वल प्रज्वल प्रज्वल हंसः सोहं स्वाहा।

(इति परमशिवेन एकीकृतं जीवं पुनः सुषुम्नावर्त्मना मूलाधारे स्थापितं चिन्तयेत्॥)

आत्मप्राणप्रतिष्ठा

ओं ऐं ह्रीं श्रीं आं सोहं॥

इति त्रिः पठेत्।

विशेषार्घ्यम्

पंचदशाक्षरीजपं कृत्वा॥

४ ऐं क-५ अं अग्निमण्डलाय धर्मप्रददशकलात्मने श्रीमहात्रिपुरसुन्दर्या विशेषार्घ्यपात्राधाराय नमः।

४ क्लीं ह-६ उं सूर्यमण्डलाय अर्थप्रदद्वादशकलात्मने श्रीमहात्रिपुरसुन्दर्या विशेषार्घ्यपात्राय नमः। (इति आधारोपरि संस्थाप्य)

४ सौः स-४ मं सोममण्डलाय कामप्रदषोडशकलात्मने श्रीमहात्रिपुरसुन्दर्या विशेषार्घ्यामृताय नमः॥ (अकारादिक्षकारान्तं मातृकया अर्पितेन समधुक्षीरेण अमृतेनापूर्य)

४ ओं वं जुं सः स्वाहा (इति अष्टवारमभिमन्त्र्य)

४ मूलं। चिन्मयीं आनन्दलक्षणां अमृतकलशपिशितहस्तद्वयां प्रसन्नां देवीं पूजयामि नमः स्वाहा॥

(आत्मपात्रे किंचिद्विशेषार्घ्यामृतं उद्धृत्य कुण्डलिन्यधिष्ठितं चिदग्निमण्डलं ध्यात्वा॥)

अन्तर्होमः

पुण्यं जुहोमि स्वाहा। पापं जुहोमि स्वाहा।

कृत्यं जुहोमि स्वाहा। अकृत्यं जुहोमि स्वाहा।

संकल्पं जुहोमि स्वाहा। विकल्पं जुहोमि स्वाहा।

धर्मं जुहोमि स्वाहा। अधर्मं जुहोमि स्वाहा।

मूलं। अधर्मं जुहोमि वौषट्॥

इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारतः जाग्रत्स्वप्नसुषुप्त्यवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यां उदरेण शिश्ना यत्स्मृतं यदुक्तं यत्कृतं तत्सर्वं ब्रह्मार्पणं भवतु स्वाहा।

इति होमबुद्ध्या जुहुयात्॥

ध्यानम्

श्रीललितायाः अमृतचैतन्यमूर्तिं कल्पयामि नमः।

अरुणां करुणातरंगिताक्षीं धृतपाशांकुशपुष्पबाणचापाम्।

अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम्॥

आवाहनम्

महापद्मवनान्तस्थे कारणानन्दविग्रहे।

सर्वभूतहिते मातः एह्येहि परमेश्वरि॥

श्रीमत्कामेश्वराङ्के श्रीललितामहात्रिपुरसुन्दरीमावाहयामि नमः॥

पाद्यादिस्नानान्तम्

यथावकाशं पंचामृत-क्षीर-दधि-नालिकेरजल-एलादिवासितोदकादिभिः अभिषिच्य आचमनं दत्त्वा वस्त्रेणोद्वर्त्य आसने पूर्ववत् स्थापयेत्॥

पाद्यं कल्पयामि नमः।
अर्घ्यं कल्पयामि नमः।
आचमनीयं कल्पयामि नमः।
स्नानं कल्पयामि नमः॥
वस्त्रादयः उपचाराः
वस्त्रं कल्पयामि नमः।
गन्धं कल्पयामि नमः।
कुंकुमाक्षतान्धारयामि नमः।
कुसुममालाः कल्पयामि नमः।
आभरणानि कल्पयामि नमः।
अमृतासवचषकं कल्पयामि नमः।
तांबूलं कल्पयामि नमः।
आनन्दोल्लासविलासहासं कल्पयामि नमः॥
मंगलारात्रिकम्

समस्तचक्रचक्रेशीयुते देवि नवात्मिके।

आरात्रिकमिदं तुभ्यं गृहाण मम सिद्धये॥

चतुरायतनपूजा
सिद्धलक्ष्मीसमेत श्रीमहागणपतिश्रीपादुकां पूजयामि नमः॥(नैरृते)
प्रकाशशक्तिसहित मार्तण्डभैरव श्रीपादुकां पूजयामि नमः॥(वायव्ये)
महालक्ष्मीसमेत श्रीमहाविष्णुश्रीपादुकां पूजयामि नमः॥(ईशाने)
सांबपरमेश्वर श्रीपादुकां पूजयामि नमः॥(आग्नेये)
गुरुवन्दनम्
स्वात्मारामपंजरविलीनतेजसे श्रीपरमेष्ठिगुरवे नमः।
स्वच्छप्रकाशविमर्शहेतवे श्रीपरमगुरवे नमः।
स्वरूपनिरूपणहेतवे श्रीगुरवे नमः॥
परिवारार्चनानुज्ञा

संविन्मये परे देवि परामृतरुचिप्रिये।

अनुज्ञां त्रिपुरे देहि परिवारार्चनाय मे॥

(ओं ऐं ह्रीं श्रीं ऐं क्लीं सौः)

षडङ्ग-नित्या-गुरुमण्डलार्चनम्
नमस्त्रिपुरसुन्दर्यै नमः।
हृदयदेव्यै नमः।
शिरोदेव्यै नमः।
शिखादेव्यै नमः।
कवचदेव्यै नमः।
नेत्रदेव्यै नमः।
अस्त्रदेव्यै नमः॥
कामेश्वर्यै नमः।
भगमालिन्यै नमः।
नित्यक्लिन्नायै नमः।
भेरुण्डायै नमः।
वह्निवासिन्यै नमः।
महावज्रेश्वर्यै नमः।
शिवदूत्यै नमः।
त्वरितायै नमः।
कुलसुन्दर्यै नमः।
नित्यायै नमः।
नीलपताकायै नमः।
विजयायै नमः।
सर्वमंगलायै नमः।
ज्वालामालिन्यै नमः।
चित्रायै नमः।
महानित्यायै नमः॥
परमेश्वरपरमेश्वर्यै नमः।
मित्रेशमय्यै नमः।
षष्ठीशमय्यै नमः।
उड्याणमय्यै नमः।
चर्यानाथमय्यै नमः।
लोपामुद्रामय्यै नमः।
अगस्त्यमय्यै नमः।
कालतापनमय्यै नमः।
धर्माचार्यमय्यै नमः।
मुक्तकेशीश्वरमय्यै नमः।
दीपकलानाथमय्यै नमः।
विष्णुदेवमय्यै नमः।
प्रभाकरदेवमय्यै नमः।
तेजोदेवमय्यै नमः।
मनोजदेवमय्यै नमः॥
प्रथमावरणम्

चतुरश्रस्य प्रथमरेखायाम्।

अणिमासिद्धये नमः।
लघिमासिद्धये नमः।
महिमासिद्धये नमः।
ईशित्वसिद्धये नमः।
वशित्वसिद्धये नमः।
प्राकाम्यसिद्धये नमः।
भुक्तिसिद्धये नमः।
इच्छासिद्धये नमः।
प्राप्तिसिद्धये नमः।
सर्वकामसिद्धये नमः॥
प्रथमावरणम् — मध्यमरेखायाम्
ब्राह्म्यै नमः।
माहेश्वर्यै नमः।
कौमार्यै नमः।
वैष्णव्यै नमः।
वाराह्यै नमः।
माहेन्द्र्यै नमः।
चामुण्डायै नमः।
महालक्ष्म्यै नमः॥
प्रथमावरणम् — अन्त्यरेखायाम्
सर्वसंक्षोभिण्यै नमः।
सर्वविद्राविण्यै नमः।
सर्वाकर्षिण्यै नमः।
सर्ववशंकर्यै नमः।
सर्वोन्मादिन्यै नमः।
सर्वमहांकुशायै नमः।
सर्वखेचर्यै नमः।
सर्वबीजायै नमः।
सर्वयोनये नमः।
सर्वत्रिखण्डायै नमः।
प्रकटयोगिन्यै नमः।
बौद्धदर्शनांग्यै नमः।
त्रैलोक्यमोहनचक्रस्वामिन्यै नमः।
प्रथमावरणार्चनसमर्पणम्

योनिमुद्रया प्रणम्य।

(मूलम्) प्रथमावरणदेवतासहित श्रीललितामहात्रिपुरसुन्दरी श्रीपादुकां पूजयामि नमः॥

अभीष्टसिद्धिं मे देहि शरणागतवत्सले।

भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम्॥

द्वितीयावरणम्

षोडशदलकमले देव्यग्रदलमारभ्य वामावर्तेन।

कामाकर्षिण्यै नमः।
बुद्ध्याकर्षिण्यै नमः।
अहंकाराकर्षिण्यै नमः।
शब्दाकर्षिण्यै नमः।
स्पर्शाकर्षिण्यै नमः।
रूपाकर्षिण्यै नमः।
रसाकर्षिण्यै नमः।
गन्धाकर्षिण्यै नमः।
चित्ताकर्षिण्यै नमः।
धैर्याकर्षिण्यै नमः।
स्मृत्याकर्षिण्यै नमः।
नामाकर्षिण्यै नमः।
बीजाकर्षिण्यै नमः।
आत्माकर्षिण्यै नमः।
अमृताकर्षिण्यै नमः।
शरीराकर्षिण्यै नमः।
गुप्तयोगिन्यै नमः।
सर्वाशापरिपूरकचक्रस्वामिन्यै नमः॥
द्वितीयावरणार्चनसमर्पणम्

योनिमुद्रया प्रणम्य।

(मूलम्) द्वितीयावरणदेवतासहित श्रीललितामहात्रिपुरसुन्दरी श्रीपादुकां पूजयामि नमः॥

अभीष्टसिद्धिं मे देहि शरणागतवत्सले।

भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम्॥

तृतीयावरणम्

अष्टपत्रे श्रीदेव्याः पृष्ठदलमारभ्य पूर्वादिदिक्षु आग्नेयादिविदिक्षु च क्रमेण।

अनंगकुसुमायै नमः।
अनंगमेखलायै नमः।
अनंगमदनायै नमः।
अनंगमदनातुरायै नमः।
अनंगरेखायै नमः।
अनंगवेगिन्यै नमः।
अनंगांकुशायै नमः।
अनंगमालिन्यै नमः।
गुप्ततरयोगिन्यै नमः।
वैदिकदर्शनांग्यै नमः।
सर्वसंक्षोभणचक्रस्वामिन्यै नमः।
पूर्वाम्नायाधिदेवतायै नमः।
सृष्टिरूपिण्यै नमः।
तृतीयावरणार्चनसमर्पणम्

योनिमुद्रया प्रणम्य।

(मूलम्) तृतीयावरणदेवतासहित श्रीललितामहात्रिपुरसुन्दरी श्रीपादुकां पूजयामि नमः॥

अभीष्टसिद्धिं मे देहि शरणागतवत्सले।

भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम्॥

तुरीयावरणम्

चतुर्दशारे देव्यग्रकोणमारभ्य वामावर्तेन।

सर्वसंक्षोभिण्यै नमः।
सर्वविद्राविण्यै नमः।
सर्वाकर्षिण्यै नमः।
सर्वाह्लादिन्यै नमः।
सर्वसंमोहिन्यै नमः।
सर्वस्तम्भिन्यै नमः।
सर्वजृंभिण्यै नमः।
सर्ववशंकर्यै नमः।
सर्वरंजिन्यै नमः।
सर्वोन्मादिन्यै नमः।
सर्वार्थसाधिन्यै नमः।
सर्वसंपत्तिपूरण्यै नमः।
सर्वमन्त्रमय्यै नमः।
सर्वद्वन्द्वक्षयंकर्यै नमः।
संप्रदाययोगिन्यै नमः।
सौरदर्शनांग्यै नमः।
सर्वसौभाग्यदायकचक्रस्वामिन्यै नमः॥
तुरीयावरणार्चनसमर्पणम्

योनिमुद्रया प्रणम्य।

(मूलम्) तुरीयावरणदेवतासहित श्रीललितामहात्रिपुरसुन्दरी श्रीपादुकां पूजयामि तर्पयामि नमः॥

अभीष्टसिद्धिं मे देहि शरणागतवत्सले।

भक्त्या समर्पये तुभ्यं तुरीयावरणार्चनम्॥

पंचमावरणम्

बहिर्दशारे देव्यग्रकोणमारभ्य वामावर्तेन।

सर्वसिद्धिप्रदायै नमः।
सर्वसंपत्प्रदायै नमः।
सर्वप्रियंकर्यै नमः।
सर्वमंगलकारिण्यै नमः।
सर्वकामप्रदायै नमः।
सर्वदुःखविमोचिन्यै नमः।
सर्वमृत्युप्रशमन्यै नमः।
सर्वविघ्ननिवारिण्यै नमः।
सर्वांगसुन्दर्यै नमः।
सर्वसौभाग्यदायिन्यै नमः।
कुलोत्तीर्णयोगिन्यै नमः।
सर्वार्थसाधकचक्रस्वामिन्यै नमः॥
पंचमावरणार्चनसमर्पणम्

योनिमुद्रया प्रणम्य।

(मूलम्) पंचमावरणदेवतासहित श्रीललितामहात्रिपुरसुन्दरी श्रीपादुकां पूजयामि नमः॥

अभीष्टसिद्धिं मे देहि शरणागतवत्सले।

भक्त्या समर्पये तुभ्यं पंचमावरणार्चनम्॥

षष्ठावरणम्

अन्तर्दशारे देव्यग्रकोणमारभ्य वामावर्तेन।

सर्वज्ञायै नमः।
सर्वशक्तये नमः।
सर्वैश्वर्यप्रदायै नमः।
सर्वज्ञानमय्यै नमः।
सर्वव्याधिनिवारिण्यै नमः।
सर्वाधारस्वरूपायै नमः।
सर्वपापहरायै नमः।
सर्वानन्दमय्यै नमः।
सर्वरक्षास्वरूपिण्यै नमः।
सर्वेप्सितफलप्रदायै नमः।
निगर्भयोगिन्यै नमः।
वैष्णवदर्शनांग्यै नमः।
सर्वरक्षाकरचक्रस्वामिन्यै नमः।
दक्षिणाम्नायेश्यै नमः।
स्थितिरूपिण्यै नमः।
षष्ठावरणार्चनसमर्पणम्

योनिमुद्रया प्रणम्य।

(मूलम्) षष्ठावरणदेवतासहित श्रीललितामहात्रिपुरसुन्दरी श्रीपादुकां पूजयामि नमः॥

अभीष्टसिद्धिं मे देहि शरणागतवत्सले।

भक्त्या समर्पये तुभ्यं षष्ठाख्यावरणार्चनम्॥

सप्तमावरणम्

अष्टारे देव्यग्रकोणमारभ्य वामावर्तेन।

वशिन्यै नमः।
कामेश्यै नमः।
मोदिन्यै नमः।
विमलायै नमः।
अरुणायै नमः।
जयिन्यै नमः।
सर्वेश्वर्यै नमः।
कौलिन्यै नमः।
रहस्ययोगिन्यै नमः।
शाक्तदर्शनांग्यै नमः।
सर्वरोगहरचक्रस्वामिन्यै नमः।
पश्चिमाम्नायेश्यै नमः॥
सप्तमावरणार्चनसमर्पणम्

योनिमुद्रया प्रणम्य।

(मूलम्) सप्तमावरणदेवतासहित श्रीललितामहात्रिपुरसुन्दरी श्रीपादुकां पूजयामि नमः॥

अभीष्टसिद्धिं मे देहि शरणागतवत्सले।

भक्त्या समर्पये तुभ्यं सप्तमावरणार्चनम्॥

अष्टमावरणम्

मध्यत्र्यश्रस्य बहिः पश्चिमादिदिक्षु प्रादक्षिण्येन।

बाणशक्त्यै नमः।
धनुःशक्त्यै नमः।
पाशशक्त्यै नमः।
अंकुशशक्त्यै नमः॥
अष्टमावरणम् — त्रिकोणे

त्रिकोणे अग्र-दक्ष-वामकोणेषु क्रमेण।

कामेश्यै नमः।
वज्रेश्यै नमः।
भगमालिन्यै नमः।
अतिरहस्ययोगिन्यै नमः।
शैवदर्शनांग्यै नमः।
सर्वसिद्धिप्रदचक्रस्वामिन्यै नमः।
उत्तराम्नायेश्यै नमः।
संहाररूपिण्यै नमः॥
अष्टमावरणार्चनसमर्पणम्

योनिमुद्रया प्रणम्य।

(मूलम्) अष्टमावरणदेवतासहित श्रीललितामहात्रिपुरसुन्दरी श्रीपादुकां पूजयामि नमः॥

अभीष्टसिद्धिं मे देहि शरणागतवत्सले।

भक्त्या समर्पये तुभ्यं अष्टमावरणार्चनम्॥

नवमावरणम्

बिन्दुचक्रे।

शुद्धपरायै नमः।
बिन्दुपीठगतायै नमः।
महात्रिपुरसुन्दर्यै नमः।
परापरातिरहस्ययोगिन्यै नमः।
शांभवदर्शनांग्यै नमः।
सर्वानन्दमयचक्रस्वामिन्यै नमः॥
नवमावरणार्चनसमर्पणम्

योनिमुद्रया प्रणम्य।

(मूलम्) नवमावरणदेवतासहित श्रीललितामहात्रिपुरसुन्दरी श्रीपादुकां पूजयामि नमः॥

अभीष्टसिद्धिं मे देहि शरणागतवत्सले।

भक्त्या समर्पये तुभ्यं नवमावरणार्चनम्॥

समष्ट्यर्चनम्
त्रिपुरायै नमः।
त्रिपुरेश्यै नमः।
त्रिपुरसुन्दर्यै नमः।
त्रिपुरवासिन्यै नमः।
त्रिपुराश्रियै नमः।
त्रिपुरमालिन्यै नमः।
त्रिपुरासिद्धायै नमः।
त्रिपुराम्बायै नमः।
महात्रिपुरसुन्दर्यै नमः।
सर्वचक्रस्थायै नमः।
अनुत्तराम्नायाख्यस्वरूपिण्यै नमः।
महात्रिपुरभैरव्यै नमः।
चतुर्विधगुणरूपायै नमः।
कुलायै नमः।
अकुलायै नमः।
कुलाकुलायै नमः।
महाकौलिन्यै नमः।
सर्वोत्तरायै नमः।
सर्वदर्शनांग्यै नमः।
नवासनस्थितायै नमः।
नवाक्षर्यै नमः।
नवमिथुनाकृतये नमः।
श्रीपादुकार्चनम्

यथावकाशं नामावल्यादिना अर्चनं कुर्यात्॥

महेश-माधव-विधातृ-मन्मथ-स्कन्द-नन्दि-इन्द्र-मनु-चन्द्र-कुबेर-अगस्त्य-क्रोधभट्टारक-विद्यात्मिकायै नमः।

कल्याणतत्त्वत्रयरूपिण्यै नमः। शिवशिवात्मिकायै नमः। पूर्णब्रह्मशक्तये नमः।

श्रीललितामहात्रिपुरसुन्दरी श्रीपादुकां पूजयामि नमः॥ (सौः क्लीं ऐं) श्रीं ह्रीं ऐं ओं॥

उत्तरपूजा

धूपः। दीपः। नैवेद्यम्॥ नीराजनम्। पुष्पांजलिः॥ प्रदक्षिणनमस्कारः॥

आत्मार्पणम्

जपो जल्पः शिल्पं सकलमपि मुद्राविरचना गतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः।

प्रणामः संवेशः सुखमखिलमात्मार्पणदृशा सपर्यापर्यायस्तव भवतु यन्मे विलसितम्॥

बलिदानम्

ओं ह्रीं सर्वविघ्नकृद्भ्यः सर्वभूतेभ्यो हुं फट् स्वाहा।

पूजासमर्पणम्

विशेषार्घ्योद्वासनम्। पूजासमर्पणम्। देवतोद्वासनम्।

साधु वाऽसाधु वा कर्म यद्यदाचरितं मया।

तत्सर्वं कृपया देवि गृहाणाराधनं मम॥

क्षमापणम्

शंखं उद्धृत्य देव्युपरि त्रिः परिभ्राम्य तज्जलं हस्ते समादाय प्रोक्षयेत्। मूलेन तीर्थनिर्माल्ये स्वीकृत्य।

ज्ञानतोऽज्ञानतो वाऽपि यन्मयाचरितं शिवे।

तव कृत्यमिति ज्ञात्वा क्षमस्व परमेश्वरि॥ (इति क्षमाप्य)

हृदये उद्वासनम्

हृत्पद्मकर्णिकामध्ये शिवेन सह शंकरि।

प्रविश त्वं महादेवि सर्वैरावरणैस्सह॥

इति श्रीदेवीं हृदयं नीत्वा आत्माभिन्नसंविद्रूपेण भावयेत्॥

जगत्तृप्तिः

शिवाद्यवनिपर्यन्तं ब्रह्मादिस्तंबसंयुतम्।

कालाग्न्यादि शिवान्तं च जगद्यज्ञेन तृप्यतु॥

ओं तत्सत् ब्रह्मार्पणमस्तु।