ध्यानम्
ध्यायेत्षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितम् ।
बालार्कद्युतिषट्किरीटविलसत्केयूरहारान्वितम् ॥
कर्णालम्बितकुण्डलप्रविलसद्गण्डस्थलाशोभितम् ।
काञ्चीकङ्कणकिङ्किणीरवयुतं शृङ्गारसारोदयम् ॥
ध्यायेदीप्सितसिद्धिदं शिवसुतं श्रीद्वादशाक्षं गुहम् ।
खेटं कुक्कुटमङ्कुशं च वरदं पाशं धनुश्चक्रकम् ॥
वज्रं शक्तिमसिं च शूलमभयं दोर्भिर्धृतं षण्मुखम् ।
देवं चित्रमयूरवाहनगतं चित्राम्बरालङ्कृतम् ॥
- १ॐ अचिन्त्यशक्तये नमः
- २ॐ अनघाय नमः
- ३ॐ अक्षोभ्याय नमः
- ४ॐ अपराजिताय नमः
- ५ॐ अनाथवत्सलाय नमः
- ६ॐ अमोघाय नमः
- ७ॐ अशोकाय नमः
- ८ॐ अजराय नमः
- ९ॐ अभयाय नमः
- १०ॐ अत्युदाराय नमः
- ११ॐ अघहराय नमः
- १२ॐ अग्रगण्याय नमः
- १३ॐ अद्रिजासुताय नमः
- १४ॐ अनन्तमहिम्ने नमः
- १५ॐ अपाराय नमः
- १६ॐ अनन्तसौख्यप्रदाय नमः
- १७ॐ अव्ययाय नमः
- १८ॐ अनन्तमोक्षदाय नमः
- १९ॐ अनादये नमः
- २०ॐ अप्रमेयाय नमः
- २१ॐ अक्षराय नमः
- २२ॐ अच्युताय नमः
- २३ॐ अकल्मषाय नमः
- २४ॐ अभिरामाय नमः
- २५ॐ अग्रधुर्याय नमः
- २६ॐ अमितविक्रमाय नमः
- २७ॐ अनाथनाथाय नमः
- २८ॐ अमलाय नमः
- २९ॐ अप्रमत्ताय नमः
- ३०ॐ अमरप्रभवे नमः
- ३१ॐ अरिन्दमाय नमः
- ३२ॐ अखिलाधाराय नमः
- ३३ॐ अणिमादिगुणाय नमः
- ३४ॐ अग्रण्ये नमः
- ३५ॐ अचञ्चलाय नमः
- ३६ॐ अमरस्तुत्याय नमः
- ३७ॐ अकलङ्काय नमः
- ३८ॐ अमिताशनाय नमः
- ३९ॐ अग्निभुवे नमः
- ४०ॐ अनवद्याङ्गाय नमः
- ४१ॐ अद्भुताय नमः
- ४२ॐ अभीष्टदायकाय नमः
- ४३ॐ अतीन्द्रियाय नमः
- ४४ॐ अप्रमेयात्मने नमः
- ४५ॐ अदृश्याय नमः
- ४६ॐ अव्यक्तलक्षणाय नमः
- ४७ॐ आपद्विनाशकाय नमः
- ४८ॐ आर्याय नमः
- ४९ॐ आढ्याय नमः
- ५०ॐ आगमसंस्तुताय नमः
- ५१ॐ आर्तसंरक्षणाय नमः
- ५२ॐ आद्याय नमः
- ५३ॐ आनन्दाय नमः
- ५४ॐ आर्यसेविताय नमः
- ५५ॐ आश्रितेष्टार्थवरदाय नमः
- ५६ॐ आनन्दिने नमः
- ५७ॐ आर्तफलप्रदाय नमः
- ५८ॐ आश्चर्यरूपाय नमः
- ५९ॐ आनन्दाय नमः
- ६०ॐ आपन्नार्तिविनाशनाय नमः
- ६१ॐ इभवक्त्रानुजाय नमः
- ६२ॐ इष्टाय नमः
- ६३ॐ इभासुरहरात्मजाय नमः
- ६४ॐ इतिहासश्रुतिस्तुत्याय नमः
- ६५ॐ इन्द्रभोगफलप्रदाय नमः
- ६६ॐ इष्टापूर्तफलप्राप्तये नमः
- ६७ॐ इष्टेष्टवरदायकाय नमः
- ६८ॐ इहामुत्रेष्टफलदाय नमः
- ६९ॐ इष्टदाय नमः
- ७०ॐ इन्द्रवन्दिताय नमः
- ७१ॐ ईडनीयाय नमः
- ७२ॐ ईशपुत्राय नमः
- ७३ॐ ईप्सितार्थप्रदायकाय नमः
- ७४ॐ ईतिभीतिहराय नमः
- ७५ॐ ईड्याय नमः
- ७६ॐ ईषणात्रयवर्जिताय नमः
- ७७ॐ उदारकीर्तये नमः
- ७८ॐ उद्योगिने नमः
- ७९ॐ उत्कृष्टोरुपराक्रमाय नमः
- ८०ॐ उत्कृष्टशक्तये नमः
- ८१ॐ उत्साहाय नमः
- ८२ॐ उदाराय नमः
- ८३ॐ उत्सवप्रियाय नमः
- ८४ॐ उज्जृम्भाय नमः
- ८५ॐ उद्भवाय नमः
- ८६ॐ उग्राय नमः
- ८७ॐ उदग्राय नमः
- ८८ॐ उग्रलोचनाय नमः
- ८९ॐ उन्मत्ताय नमः
- ९०ॐ उग्रशमनाय नमः
- ९१ॐ उद्वेगघ्नोरगेश्वराय नमः
- ९२ॐ उरुप्रभावाय नमः
- ९३ॐ उदीर्णाय नमः
- ९४ॐ उमापुत्राय नमः
- ९५ॐ उदारधिये नमः
- ९६ॐ ऊर्ध्वरेतःसुताय नमः
- ९७ॐ ऊर्ध्वगतिदाय नमः
- ९८ॐ ऊर्जपालकाय नमः
- ९९ॐ ऊर्जिताय नमः
- १००ॐ ऊर्ध्वगाय नमः
- १०१ॐ ऊर्ध्वाय नमः
- १०२ॐ ऊर्ध्वलोकैकनायकाय नमः
- १०३ॐ ऊर्जावते नमः
- १०४ॐ ऊर्जितोदाराय नमः
- १०५ॐ ऊर्जितोर्जितशासनाय नमः
- १०६ॐ ऋषिदेवगणस्तुत्याय नमः
- १०७ॐ ऋणत्रयविमोचनाय नमः
- १०८ॐ ऋजुरूपाय नमः
- १०९ॐ ऋजुकराय नमः
- ११०ॐ ऋजुमार्गप्रदर्शनाय नमः
- १११ॐ ऋतम्बराय नमः
- ११२ॐ ऋजुप्रीताय नमः
- ११३ॐ ऋषभाय नमः
- ११४ॐ ऋद्धिदाय नमः
- ११५ॐ ऋताय नमः
- ११६ॐ लुलितोद्धारकाय नमः
- ११७ॐ लूतभवपाशप्रभञ्जनाय नमः
- ११८ॐ एणाङ्कधरसत्पुत्राय नमः
- ११९ॐ एकस्मै नमः
- १२०ॐ एनोविनाशनाय नमः
- १२१ॐ ऐश्वर्यदाय नमः
- १२२ॐ ऐन्द्रभोगिने नमः
- १२३ॐ ऐतिह्याय नमः
- १२४ॐ ऐन्द्रवन्दिताय नमः
- १२५ॐ ओजस्विने नमः
- १२६ॐ ओषधिस्थानाय नमः
- १२७ॐ ओजोदाय नमः
- १२८ॐ ओदनप्रदाय नमः
- १२९ॐ औदार्यशीलाय नमः
- १३०ॐ औमेयाय नमः
- १३१ॐ औग्राय नमः
- १३२ॐ औन्नत्यदायकाय नमः
- १३३ॐ औदार्याय नमः
- १३४ॐ औषधकराय नमः
- १३५ॐ औषधाय नमः
- १३६ॐ औषधाकराय नमः
- १३७ॐ अंशुमालिने नमः
- १३८ॐ अंशुमालीड्याय नमः
- १३९ॐ अम्बिकातनयाय नमः
- १४०ॐ अन्नदाय नमः
- १४१ॐ अन्धकारिसुताय नमः
- १४२ॐ अन्धत्वहारिणे नमः
- १४३ॐ अम्बुजलोचनाय नमः
- १४४ॐ अस्तमायाय नमः
- १४५ॐ अमराधीशाय नमः
- १४६ॐ अस्पष्टाय नमः
- १४७ॐ अस्तोकपुण्यदाय नमः
- १४८ॐ अस्तामित्राय नमः
- १४९ॐ अस्तरूपाय नमः
- १५०ॐ अस्खलत्सुगतिदायकाय नमः
- १५१ॐ कार्तिकेयाय नमः
- १५२ॐ कामरूपाय नमः
- १५३ॐ कुमाराय नमः
- १५४ॐ क्रौञ्चदारणाय नमः
- १५५ॐ कामदाय नमः
- १५६ॐ कारणाय नमः
- १५७ॐ काम्याय नमः
- १५८ॐ कमनीयाय नमः
- १५९ॐ कृपाकराय नमः
- १६०ॐ काञ्चनाभाय नमः
- १६१ॐ कान्तियुक्ताय नमः
- १६२ॐ कामिने नमः
- १६३ॐ कामप्रदाय नमः
- १६४ॐ कवये नमः
- १६५ॐ कीर्तिकृते नमः
- १६६ॐ कुक्कुटधराय नमः
- १६७ॐ कूटस्थाय नमः
- १६८ॐ कुवलेक्षणाय नमः
- १६९ॐ कुङ्कुमाङ्गाय नमः
- १७०ॐ क्लमहराय नमः
- १७१ॐ कुशलाय नमः
- १७२ॐ कुक्कुटध्वजाय नमः
- १७३ॐ कृशानुसम्भवाय नमः
- १७४ॐ क्रूराय नमः
- १७५ॐ क्रूरघ्नाय नमः
- १७६ॐ कलितापहृते नमः
- १७७ॐ कामरूपाय नमः
- १७८ॐ कल्पतरवे नमः
- १७९ॐ कान्ताय नमः
- १८०ॐ कामितदायकाय नमः
- १८१ॐ कल्याणकृते नमः
- १८२ॐ क्लेशनाशाय नमः
- १८३ॐ कृपालवे नमः
- १८४ॐ करुणाकराय नमः
- १८५ॐ कलुषघ्नाय नमः
- १८६ॐ क्रियाशक्तये नमः
- १८७ॐ कठोराय नमः
- १८८ॐ कवचिने नमः
- १८९ॐ कृतिने नमः
- १९०ॐ कोमलाङ्गाय नमः
- १९१ॐ कुशप्रीताय नमः
- १९२ॐ कुत्सितघ्नाय नमः
- १९३ॐ कलाधराय नमः
- १९४ॐ ख्याताय नमः
- १९५ॐ खेटधराय नमः
- १९६ॐ खड्गिने नमः
- १९७ॐ खट्वाङ्गिने नमः
- १९८ॐ खलनिग्रहाय नमः
- १९९ॐ ख्यातिप्रदाय नमः
- २००ॐ खेचरेशाय नमः
- २०१ॐ ख्यातेहाय नमः
- २०२ॐ खेचरस्तुताय नमः
- २०३ॐ खरतापहराय नमः
- २०४ॐ खस्थाय नमः
- २०५ॐ खेचराय नमः
- २०६ॐ खेचराश्रयाय नमः
- २०७ॐ खण्डेन्दुमौलितनयाय नमः
- २०८ॐ खेलाय नमः
- २०९ॐ खेचरपालकाय नमः
- २१०ॐ खस्थलाय नमः
- २११ॐ खण्डितार्काय नमः
- २१२ॐ खेचरीजनपूजिताय नमः
- २१३ॐ गाङ्गेयाय नमः
- २१४ॐ गिरिजापुत्राय नमः
- २१५ॐ गणनाथानुजाय नमः
- २१६ॐ गुहाय नमः
- २१७ॐ गोप्त्रे नमः
- २१८ॐ गीर्वाणसंसेव्याय नमः
- २१९ॐ गुणातीताय नमः
- २२०ॐ गुहाश्रयाय नमः
- २२१ॐ गतिप्रदाय नमः
- २२२ॐ गुणनिधये नमः
- २२३ॐ गम्भीराय नमः
- २२४ॐ गिरिजात्मजाय नमः
- २२५ॐ गूढरूपाय नमः
- २२६ॐ गदहराय नमः
- २२७ॐ गुणाधीशाय नमः
- २२८ॐ गुणाग्रण्ये नमः
- २२९ॐ गोधराय नमः
- २३०ॐ गहनाय नमः
- २३१ॐ गुप्ताय नमः
- २३२ॐ गर्वघ्नाय नमः
- २३३ॐ गुणवर्धनाय नमः
- २३४ॐ गुह्याय नमः
- २३५ॐ गुणज्ञाय नमः
- २३६ॐ गीतिज्ञाय नमः
- २३७ॐ गतातङ्काय नमः
- २३८ॐ गुणाश्रयाय नमः
- २३९ॐ गद्यपद्यप्रियाय नमः
- २४०ॐ गुण्याय नमः
- २४१ॐ गोस्तुताय नमः
- २४२ॐ गगनेचराय नमः
- २४३ॐ गणनीयचरित्राय नमः
- २४४ॐ गतक्लेशाय नमः
- २४५ॐ गुणार्णवाय नमः
- २४६ॐ घूर्णिताक्षाय नमः
- २४७ॐ घृणिनिधये नमः
- २४८ॐ घनगम्भीरघोषणाय नमः
- २४९ॐ घण्टानादप्रियाय नमः
- २५०ॐ घोषाय नमः
- २५१ॐ घोराघौघविनाशनाय नमः
- २५२ॐ घनानन्दाय नमः
- २५३ॐ घर्महन्त्रे नमः
- २५४ॐ घृणावते नमः
- २५५ॐ घृष्टिपातकाय नमः
- २५६ॐ घृणिने नमः
- २५७ॐ घृणाकराय नमः
- २५८ॐ घोराय नमः
- २५९ॐ घोरदैत्यप्रहारकाय नमः
- २६०ॐ घटितैश्वर्यसन्दोहाय नमः
- २६१ॐ घनार्थाय नमः
- २६२ॐ घनसङ्क्रमाय नमः
- २६३ॐ चित्रकृते नमः
- २६४ॐ चित्रवर्णाय नमः
- २६५ॐ चञ्चलाय नमः
- २६६ॐ चपलद्युतये नमः
- २६७ॐ चिन्मयाय नमः
- २६८ॐ चित्स्वरूपाय नमः
- २६९ॐ चिरानन्दाय नमः
- २७०ॐ चिरन्तनाय नमः
- २७१ॐ चित्रकेलये नमः
- २७२ॐ चित्रतराय नमः
- २७३ॐ चिन्तनीयाय नमः
- २७४ॐ चमत्कॄतये नमः
- २७५ॐ चोरघ्नाय नमः
- २७६ॐ चतुराय नमः
- २७७ॐ चारवे नमः
- २७८ॐ चामीकरविभूषणाय नमः
- २७९ॐ चन्द्रार्ककोटिसदृशाय नमः
- २८०ॐ चन्द्रमौलितनूभवाय नमः
- २८१ॐ चादिताङ्गाय नमः
- २८२ॐ छद्महन्त्रे नमः
- २८३ॐ छेदिताखिलपातकाय नमः
- २८४ॐ छेदीकृततमःक्लेशाय नमः
- २८५ॐ छत्रीकृतमहायशसे नमः
- २८६ॐ छादिताशेषसन्तापाय नमः
- २८७ॐ छरितामृतसागराय नमः
- २८८ॐ छन्नत्रैगुण्यरूपाय नमः
- २८९ॐ छातेहाय नमः
- २९०ॐ छिन्नसंशयाय नमः
- २९१ॐ छन्दोमयाय नमः
- २९२ॐ छन्दगामिने नमः
- २९३ॐ छिन्नपाशाय नमः
- २९४ॐ छविश्छदाय नमः
- २९५ॐ जगद्धिताय नमः
- २९६ॐ जगत्पूज्याय नमः
- २९७ॐ जगज्ज्येष्ठाय नमः
- २९८ॐ जगन्मयाय नमः
- २९९ॐ जनकाय नमः
- ३००ॐ जाह्नवीसूनवे नमः
- ३०१ॐ जितामित्राय नमः
- ३०२ॐ जगद्गुरवे नमः
- ३०३ॐ जयिने नमः
- ३०४ॐ जितेन्द्रियाय नमः
- ३०५ॐ जैत्राय नमः
- ३०६ॐ जरामरणवर्जिताय नमः
- ३०७ॐ ज्योतिर्मयाय नमः
- ३०८ॐ जगन्नाथाय नमः
- ३०९ॐ जगज्जीवाय नमः
- ३१०ॐ जनाश्रयाय नमः
- ३११ॐ जगत्सेव्याय नमः
- ३१२ॐ जगत्कर्त्रे नमः
- ३१३ॐ जगत्साक्षिणे नमः
- ३१४ॐ जगत्प्रियाय नमः
- ३१५ॐ जम्भारिवन्द्याय नमः
- ३१६ॐ जयदाय नमः
- ३१७ॐ जगज्जनमनोहराय नमः
- ३१८ॐ जगदानन्दजनकाय नमः
- ३१९ॐ जनजाड्यापहारकाय नमः
- ३२०ॐ जपाकुसुमसङ्काशाय नमः
- ३२१ॐ जनलोचनशोभनाय नमः
- ३२२ॐ जनेश्वराय नमः
- ३२३ॐ जितक्रोधाय नमः
- ३२४ॐ जनजन्मनिबर्हणाय नमः
- ३२५ॐ जयदाय नमः
- ३२६ॐ जन्तुतापघ्नाय नमः
- ३२७ॐ जितदैत्यमहाव्रजाय नमः
- ३२८ॐ जितमायाय नमः
- ३२९ॐ जितक्रोधाय नमः
- ३३०ॐ जितसङ्गाय नमः
- ३३१ॐ जनप्रियाय नमः
- ३३२ॐ झञ्जानिलमहावेगाय नमः
- ३३३ॐ झरिताशेषपातकाय नमः
- ३३४ॐ झर्झरीकृतदैत्यौघाय नमः
- ३३५ॐ झल्लरीवाद्यसम्प्रियाय नमः
- ३३६ॐ ज्ञानमूर्तये नमः
- ३३७ॐ ज्ञानगम्याय नमः
- ३३८ॐ ज्ञानिने नमः
- ३३९ॐ ज्ञानमहानिधये नमः
- ३४०ॐ टङ्कारनृत्तविभवाय नमः
- ३४१ॐ टङ्कवज्रध्वजाङ्किताय नमः
- ३४२ॐ टङ्किताखिललोकाय नमः
- ३४३ॐ टङ्कितैनस्तमोरवये नमः
- ३४४ॐ डम्बरप्रभवाय नमः
- ३४५ॐ डम्भाय नमः
- ३४६ॐ डम्बाय नमः
- ३४७ॐ डमरुकप्रियाय नमः
- ३४८ॐ डमरोत्कटसन्नादाय नमः
- ३४९ॐ डिम्बरूपस्वरूपकाय नमः
- ३५०ॐ ढक्कानादप्रीतिकराय नमः
- ३५१ॐ ढालितासुरसङ्कुलाय नमः
- ३५२ॐ ढौकितामरसन्दोहाय नमः
- ३५३ॐ ढुण्ढिविघ्नेश्वरानुजाय नमः
- ३५४ॐ तत्त्वज्ञाय नमः
- ३५५ॐ तत्त्वगाय नमः
- ३५६ॐ तीव्राय नमः
- ३५७ॐ तपोरूपाय नमः
- ३५८ॐ तपोमयाय नमः
- ३५९ॐ त्रयीमयाय नमः
- ३६०ॐ त्रिकालज्ञाय नमः
- ३६१ॐ त्रिमूर्तये नमः
- ३६२ॐ त्रिगुणात्मकाय नमः
- ३६३ॐ त्रिदशेशाय नमः
- ३६४ॐ तारकारये नमः
- ३६५ॐ तापघ्नाय नमः
- ३६६ॐ तापसप्रियाय नमः
- ३६७ॐ तुष्टिदाय नमः
- ३६८ॐ तुष्टिकृते नमः
- ३६९ॐ तीक्ष्णाय नमः
- ३७०ॐ तपोरूपाय नमः
- ३७१ॐ त्रिकालविदे नमः
- ३७२ॐ स्तोत्रे नमः
- ३७३ॐ स्तव्याय नमः
- ३७४ॐ स्तवप्रीताय नमः
- ३७५ॐ स्तुतये नमः
- ३७६ॐ स्तोत्राय नमः
- ३७७ॐ स्तुतिप्रियाय नमः
- ३७८ॐ स्थिताय नमः
- ३७९ॐ स्थायिने नमः
- ३८०ॐ स्थापकाय नमः
- ३८१ॐ स्थूलसूक्ष्मप्रदर्शकाय नमः
- ३८२ॐ स्थविष्ठाय नमः
- ३८३ॐ स्थविराय नमः
- ३८४ॐ स्थूलाय नमः
- ३८५ॐ स्थानदाय नमः
- ३८६ॐ स्थैर्यदाय नमः
- ३८७ॐ स्थिराय नमः
- ३८८ॐ दान्ताय नमः
- ३८९ॐ दयापराय नमः
- ३९०ॐ दात्रे नमः
- ३९१ॐ दुरितघ्नाय नमः
- ३९२ॐ दुरासदाय नमः
- ३९३ॐ दर्शनीयाय नमः
- ३९४ॐ दयासाराय नमः
- ३९५ॐ देवदेवाय नमः
- ३९६ॐ दयानिधये नमः
- ३९७ॐ दुराधर्षाय नमः
- ३९८ॐ दुर्विगाह्याय नमः
- ३९९ॐ दक्षाय नमः
- ४००ॐ दर्पणशोभिताय नमः
- ४०१ॐ दुर्धराय नमः
- ४०२ॐ दानशीलाय नमः
- ४०३ॐ द्वादशाक्षाय नमः
- ४०४ॐ द्विषड्भुजाय नमः
- ४०५ॐ द्विषट्कर्णाय नमः
- ४०६ॐ द्विषड्बाहवे नमः
- ४०७ॐ दीनसन्तापनाशनाय नमः
- ४०८ॐ दन्दशूकेश्वराय नमः
- ४०९ॐ देवाय नमः
- ४१०ॐ दिव्याय नमः
- ४११ॐ दिव्याकृतये नमः
- ४१२ॐ दमाय नमः
- ४१३ॐ दीर्घवृत्ताय नमः
- ४१४ॐ दीर्घबाहवे नमः
- ४१५ॐ दीर्घदृष्टये नमः
- ४१६ॐ दिवस्पतये नमः
- ४१७ॐ दण्डाय नमः
- ४१८ॐ दमयित्रे नमः
- ४१९ॐ दर्पाय नमः
- ४२०ॐ देवसिंहाय नमः
- ४२१ॐ दृढव्रताय नमः
- ४२२ॐ दुर्लभाय नमः
- ४२३ॐ दुर्गमाय नमः
- ४२४ॐ दीप्ताय नमः
- ४२५ॐ दुष्प्रेक्ष्याय नमः
- ४२६ॐ दिव्यमण्डनाय नमः
- ४२७ॐ दुरोदरघ्नाय नमः
- ४२८ॐ दुःखघ्नाय नमः
- ४२९ॐ दुरारिघ्नाय नमः
- ४३०ॐ दिशाम्पतये नमः
- ४३१ॐ दुर्जयाय नमः
- ४३२ॐ देवसेनेशाय नमः
- ४३३ॐ दुर्ज्ञेयाय नमः
- ४३४ॐ दुरतिक्रमाय नमः
- ४३५ॐ दम्भाय नमः
- ४३६ॐ दृप्ताय नमः
- ४३७ॐ देवर्षये नमः
- ४३८ॐ दैवज्ञाय नमः
- ४३९ॐ दैवचिन्तकाय नमः
- ४४०ॐ धुरन्धराय नमः
- ४४१ॐ धर्मपराय नमः
- ४४२ॐ धनदाय नमः
- ४४३ॐ धृतवर्धनाय नमः
- ४४४ॐ धर्मेशाय नमः
- ४४५ॐ धर्मशास्त्रज्ञाय नमः
- ४४६ॐ धन्विने नमः
- ४४७ॐ धर्मपरायणाय नमः
- ४४८ॐ धनाध्यक्षाय नमः
- ४४९ॐ धनपतये नमः
- ४५०ॐ धृतिमते नमः
- ४५१ॐ धूतकिल्बिषाय नमः
- ४५२ॐ धर्महेतवे नमः
- ४५३ॐ धर्मशूराय नमः
- ४५४ॐ धर्मकृते नमः
- ४५५ॐ धर्मविदे नमः
- ४५६ॐ ध्रुवाय नमः
- ४५७ॐ धात्रे नमः
- ४५८ॐ धीमते नमः
- ४५९ॐ धर्मचारिणे नमः
- ४६०ॐ धन्याय नमः
- ४६१ॐ धुर्याय नमः
- ४६२ॐ धृतव्रताय नमः
- ४६३ॐ नित्यसत्त्वाय नमः
- ४६४ॐ नित्यतृप्ताय नमः
- ४६५ॐ निर्लेपाय नमः
- ४६६ॐ निश्चलात्मकाय नमः
- ४६७ॐ निरवद्याय नमः
- ४६८ॐ निराधाराय नमः
- ४६९ॐ निष्कलङ्काय नमः
- ४७०ॐ निरञ्जनाय नमः
- ४७१ॐ निर्ममाय नमः
- ४७२ॐ निरहङ्काराय नमः
- ४७३ॐ निर्मोहाय नमः
- ४७४ॐ निरुपद्रवाय नमः
- ४७५ॐ नित्यानन्दाय नमः
- ४७६ॐ निरातङ्काय नमः
- ४७७ॐ निष्प्रपञ्चाय नमः
- ४७८ॐ निरामयाय नमः
- ४७९ॐ निरवद्याय नमः
- ४८०ॐ निरीहाय नमः
- ४८१ॐ निर्दर्शाय नमः
- ४८२ॐ निर्मलात्मकाय नमः
- ४८३ॐ नित्यानन्दाय नमः
- ४८४ॐ निर्जरेशाय नमः
- ४८५ॐ निःसङ्गाय नमः
- ४८६ॐ निगमस्तुताय नमः
- ४८७ॐ निष्कण्टकाय नमः
- ४८८ॐ निरालम्बाय नमः
- ४८९ॐ निष्प्रत्यूहाय नमः
- ४९०ॐ निरुद्भवाय नमः
- ४९१ॐ नित्याय नमः
- ४९२ॐ नियतकल्याणाय नमः
- ४९३ॐ निर्विकल्पाय नमः
- ४९४ॐ निराश्रयाय नमः
- ४९५ॐ नेत्रे नमः
- ४९६ॐ निधये नमः
- ४९७ॐ नैकरूपाय नमः
- ४९८ॐ निराकाराय नमः
- ४९९ॐ नदीसुताय नमः
- ५००ॐ पुलिन्दकन्यारमणाय नमः
- ५०१ॐ पुरुजिते नमः
- ५०२ॐ परमप्रियाय नमः
- ५०३ॐ प्रत्यक्षमूर्तये नमः
- ५०४ॐ प्रत्यक्षाय नमः
- ५०५ॐ परेशाय नमः
- ५०६ॐ पूर्णपुण्यदाय नमः
- ५०७ॐ पुण्याकराय नमः
- ५०८ॐ पुण्यरूपाय नमः
- ५०९ॐ पुण्याय नमः
- ५१०ॐ पुण्यपरायणाय नमः
- ५११ॐ पुण्योदयाय नमः
- ५१२ॐ परञ्ज्योतिषे नमः
- ५१३ॐ पुण्यकृते नमः
- ५१४ॐ पुण्यवर्धनाय नमः
- ५१५ॐ परानन्दाय नमः
- ५१६ॐ परतराय नमः
- ५१७ॐ पुण्यकीर्तये नमः
- ५१८ॐ पुरातनाय नमः
- ५१९ॐ प्रसन्नरूपाय नमः
- ५२०ॐ प्राणेशाय नमः
- ५२१ॐ पन्नगाय नमः
- ५२२ॐ पापनाशनाय नमः
- ५२३ॐ प्रणतार्तिहराय नमः
- ५२४ॐ पूर्णाय नमः
- ५२५ॐ पार्वतीनन्दनाय नमः
- ५२६ॐ प्रभवे नमः
- ५२७ॐ पूतात्मने नमः
- ५२८ॐ पुरुषाय नमः
- ५२९ॐ प्राणाय नमः
- ५३०ॐ प्रभवाय नमः
- ५३१ॐ पुरुषोत्तमाय नमः
- ५३२ॐ प्रसन्नाय नमः
- ५३३ॐ परमस्पष्टाय नमः
- ५३४ॐ पराय नमः
- ५३५ॐ परिवृढाय नमः
- ५३६ॐ पराय नमः
- ५३७ॐ परमात्मने नमः
- ५३८ॐ प्रब्रह्मणे नमः
- ५३९ॐ परार्थाय नमः
- ५४०ॐ प्रियदर्शनाय नमः
- ५४१ॐ पवित्राय नमः
- ५४२ॐ पुष्टिदाय नमः
- ५४३ॐ पूर्तये नमः
- ५४४ॐ पिङ्गलाय नमः
- ५४५ॐ पुष्टिवर्धनाय नमः
- ५४६ॐ पापहर्त्रे नमः
- ५४७ॐ पाशधराय नमः
- ५४८ॐ प्रमत्तासुरशिक्षकाय नमः
- ५४९ॐ पावनाय नमः
- ५५०ॐ पावकाय नमः
- ५५१ॐ पूज्याय नमः
- ५५२ॐ पूर्णानन्दाय नमः
- ५५३ॐ परात्पराय नमः
- ५५४ॐ पुष्कलाय नमः
- ५५५ॐ प्रवराय नमः
- ५५६ॐ पूर्वाय नमः
- ५५७ॐ पितृभक्ताय नमः
- ५५८ॐ पुरोगमाय नमः
- ५५९ॐ प्राणदाय नमः
- ५६०ॐ प्राणिजनकाय नमः
- ५६१ॐ प्रदिष्टाय नमः
- ५६२ॐ पावकोद्भवाय नमः
- ५६३ॐ परब्रह्मस्वरूपाय नमः
- ५६४ॐ परमैश्वर्यकारणाय नमः
- ५६५ॐ परर्धिदाय नमः
- ५६६ॐ पुष्टिकराय नमः
- ५६७ॐ प्रकाशात्मने नमः
- ५६८ॐ प्रतापवते नमः
- ५६९ॐ प्रज्ञापराय नमः
- ५७०ॐ प्रकृष्टार्थाय नमः
- ५७१ॐ पृथवे नमः
- ५७२ॐ पृथुपराक्रमाय नमः
- ५७३ॐ फणीश्वराय नमः
- ५७४ॐ फणिवाराय नमः
- ५७५ॐ फणामणिविभूषणाय नमः
- ५७६ॐ फलदाय नमः
- ५७७ॐ फलहस्ताय नमः
- ५७८ॐ फुल्लाम्बुजविलोचनाय नमः
- ५७९ॐ फडुच्चाटितपापौघाय नमः
- ५८०ॐ फणिलोकविभूषणाय नमः
- ५८१ॐ बाहुलेयाय नमः
- ५८२ॐ बृहद्रूपाय नमः
- ५८३ॐ बलिष्ठाय नमः
- ५८४ॐ बलवते नमः
- ५८५ॐ बलिने नमः
- ५८६ॐ ब्रह्मेशविष्णुरूपाय नमः
- ५८७ॐ बुद्धाय नमः
- ५८८ॐ बुद्धिमतां वराय नमः
- ५८९ॐ बालरूपाय नमः
- ५९०ॐ ब्रह्मगर्भाय नमः
- ५९१ॐ ब्रह्मचारिणे नमः
- ५९२ॐ बुधप्रियाय नमः
- ५९३ॐ बहुश्रुताय नमः
- ५९४ॐ बहुमताय नमः
- ५९५ॐ ब्रह्मण्याय नमः
- ५९६ॐ ब्राह्मणप्रियाय नमः
- ५९७ॐ बलप्रमथनाय नमः
- ५९८ॐ ब्रह्मणे नमः
- ५९९ॐ बहुरूपाय नमः
- ६००ॐ बहुप्रदाय नमः
- ६०१ॐ बृहद्भानुतनूद्भूताय नमः
- ६०२ॐ बृहत्सेनाय नमः
- ६०३ॐ बिलेशयाय नमः
- ६०४ॐ बहुबाहवे नमः
- ६०५ॐ बलश्रीमते नमः
- ६०६ॐ बहुदैत्यविनाशकाय नमः
- ६०७ॐ बिलद्वारान्तरालस्थाय नमः
- ६०८ॐ बृहच्छक्तिधनुर्धराय नमः
- ६०९ॐ बालार्कद्युतिमते नमः
- ६१०ॐ बालाय नमः
- ६११ॐ बृहद्वक्षसे नमः
- ६१२ॐ बृहद्धनुषे नमः
- ६१३ॐ भव्याय नमः
- ६१४ॐ भोगीश्वराय नमः
- ६१५ॐ भाव्याय नमः
- ६१६ॐ भवनाशाय नमः
- ६१७ॐ भवप्रियाय नमः
- ६१८ॐ भक्तिगम्याय नमः
- ६१९ॐ भयहराय नमः
- ६२०ॐ भावज्ञाय नमः
- ६२१ॐ भक्तसुप्रियाय नमः
- ६२२ॐ भुक्तिमुक्तिप्रदाय नमः
- ६२३ॐ भोगिने नमः
- ६२४ॐ भगवते नमः
- ६२५ॐ भाग्यवर्धनाय नमः
- ६२६ॐ भ्राजिष्णवे नमः
- ६२७ॐ भावनाय नमः
- ६२८ॐ भर्त्रे नमः
- ६२९ॐ भीमाय नमः
- ६३०ॐ भीमपराक्रमाय नमः
- ६३१ॐ भूतिदाय नमः
- ६३२ॐ भूतिकृते नमः
- ६३३ॐ भोक्त्रे नमः
- ६३४ॐ भूतात्मने नमः
- ६३५ॐ भुवनेश्वराय नमः
- ६३६ॐ भावकाय नमः
- ६३७ॐ भीकराय नमः
- ६३८ॐ भीष्माय नमः
- ६३९ॐ भावकेष्टाय नमः
- ६४०ॐ भवोद्भवाय नमः
- ६४१ॐ भवतापप्रशमनाय नमः
- ६४२ॐ भोगवते नमः
- ६४३ॐ भूतभावनाय नमः
- ६४४ॐ भोज्यप्रदाय नमः
- ६४५ॐ भ्रान्तिनाशाय नमः
- ६४६ॐ भानुमते नमः
- ६४७ॐ भुवनाश्रयाय नमः
- ६४८ॐ भूरिभोगप्रदाय नमः
- ६४९ॐ भद्राय नमः
- ६५०ॐ भजनीयाय नमः
- ६५१ॐ भिषग्वराय नमः
- ६५२ॐ महासेनाय नमः
- ६५३ॐ महोदराय नमः
- ६५४ॐ महाशक्तये नमः
- ६५५ॐ महाद्युतये नमः
- ६५६ॐ महाबुद्धये नमः
- ६५७ॐ महावीर्याय नमः
- ६५८ॐ महोत्साहाय नमः
- ६५९ॐ महाबलाय नमः
- ६६०ॐ महाभोगिने नमः
- ६६१ॐ महामायिने नमः
- ६६२ॐ मेधाविने नमः
- ६६३ॐ मेखलिने नमः
- ६६४ॐ महते नमः
- ६६५ॐ मुनिस्तुताय नमः
- ६६६ॐ महामान्याय नमः
- ६६७ॐ महानन्दाय नमः
- ६६८ॐ महायशसे नमः
- ६६९ॐ महोर्जिताय नमः
- ६७०ॐ माननिधये नमः
- ६७१ॐ मनोरथफलप्रदाय नमः
- ६७२ॐ महोदयाय नमः
- ६७३ॐ महापुण्याय नमः
- ६७४ॐ महाबलपराक्रमाय नमः
- ६७५ॐ मानदाय नमः
- ६७६ॐ मतिदाय नमः
- ६७७ॐ मालिने नमः
- ६७८ॐ मुक्तामालाविभूषणाय नमः
- ६७९ॐ मनोहराय नमः
- ६८०ॐ महामुख्याय नमः
- ६८१ॐ महर्द्धये नमः
- ६८२ॐ मूर्तिमते नमः
- ६८३ॐ मुनये नमः
- ६८४ॐ महोत्तमाय नमः
- ६८५ॐ महोपाय नमः
- ६८६ॐ मोक्षदाय नमः
- ६८७ॐ मङ्गलप्रदाय नमः
- ६८८ॐ मुदाकराय नमः
- ६८९ॐ मुक्तिदात्रे नमः
- ६९०ॐ महाभोगाय नमः
- ६९१ॐ महोरगाय नमः
- ६९२ॐ यशस्कराय नमः
- ६९३ॐ योगयोनये नमः
- ६९४ॐ योगिष्ठाय नमः
- ६९५ॐ यमिनां वराय नमः
- ६९६ॐ यशस्विने नमः
- ६९७ॐ योगपुरुषाय नमः
- ६९८ॐ योग्याय नमः
- ६९९ॐ योगनिधये नमः
- ७००ॐ यमिने नमः
- ७०१ॐ यतिसेव्याय नमः
- ७०२ॐ योगयुक्ताय नमः
- ७०३ॐ योगविदे नमः
- ७०४ॐ योगसिद्धिदाय नमः
- ७०५ॐ यन्त्राय नमः
- ७०६ॐ यन्त्रिणे नमः
- ७०७ॐ यन्त्रज्ञाय नमः
- ७०८ॐ यन्त्रवते नमः
- ७०९ॐ यन्त्रवाहकाय नमः
- ७१०ॐ यातनारहिताय नमः
- ७११ॐ योगिने नमः
- ७१२ॐ योगीशाय नमः
- ७१३ॐ योगिनां वराय नमः
- ७१४ॐ रमणीयाय नमः
- ७१५ॐ रम्यरूपाय नमः
- ७१६ॐ रसज्ञाय नमः
- ७१७ॐ रसभावनाय नमः
- ७१८ॐ रञ्जनाय नमः
- ७१९ॐ रञ्जिताय नमः
- ७२०ॐ रागिणे नमः
- ७२१ॐ रुचिराय नमः
- ७२२ॐ रुद्रसम्भवाय नमः
- ७२३ॐ रणप्रियाय नमः
- ७२४ॐ रणोदाराय नमः
- ७२५ॐ रागद्वेषविनाशनाय नमः
- ७२६ॐ रत्नार्चिषे नमः
- ७२७ॐ रुचिराय नमः
- ७२८ॐ रम्याय नमः
- ७२९ॐ रूपलावण्यविग्रहाय नमः
- ७३०ॐ रत्नाङ्गदधराय नमः
- ७३१ॐ रत्नभूषणाय नमः
- ७३२ॐ रमणीयकाय नमः
- ७३३ॐ रुचिकृते नमः
- ७३४ॐ रोचमानाय नमः
- ७३५ॐ रञ्जिताय नमः
- ७३६ॐ रोगनाशनाय नमः
- ७३७ॐ राजीवाक्षाय नमः
- ७३८ॐ राजराजाय नमः
- ७३९ॐ रक्तमाल्यानुलेपनाय नमः
- ७४०ॐ राजद्वेदागमस्तुत्याय नमः
- ७४१ॐ रजःसत्त्वगुणान्विताय नमः
- ७४२ॐ रजनीशकलारम्याय नमः
- ७४३ॐ रत्नकुण्डलमण्डिताय नमः
- ७४४ॐ रत्नसन्मौलिशोभाढ्याय नमः
- ७४५ॐ रणन्मञ्जीरभूषणाय नमः
- ७४६ॐ लोकैकनाथाय नमः
- ७४७ॐ लोकेशाय नमः
- ७४८ॐ ललिताय नमः
- ७४९ॐ लोकनायकाय नमः
- ७५०ॐ लोकरक्षाय नमः
- ७५१ॐ लोकशिक्षाय नमः
- ७५२ॐ लोकलोचनरञ्जिताय नमः
- ७५३ॐ लोकबन्धवे नमः
- ७५४ॐ लोकधात्रे नमः
- ७५५ॐ लोकत्रयमहाहिताय नमः
- ७५६ॐ लोकचूडामणये नमः
- ७५७ॐ लोकवन्द्याय नमः
- ७५८ॐ लावण्यविग्रहाय नमः
- ७५९ॐ लोकाध्यक्षाय नमः
- ७६०ॐ लीलावते नमः
- ७६१ॐ लोकोत्तरगुणान्विताय नमः
- ७६२ॐ वरिष्ठाय नमः
- ७६३ॐ वरदाय नमः
- ७६४ॐ वैद्याय नमः
- ७६५ॐ विशिष्टाय नमः
- ७६६ॐ विक्रमाय नमः
- ७६७ॐ विभवे नमः
- ७६८ॐ विबुधाग्रचराय नमः
- ७६९ॐ वश्याय नमः
- ७७०ॐ विकल्पपरिवर्जिताय नमः
- ७७१ॐ विपाशाय नमः
- ७७२ॐ विगतातङ्काय नमः
- ७७३ॐ विचित्राङ्गाय नमः
- ७७४ॐ विरोचनाय नमः
- ७७५ॐ विद्याधराय नमः
- ७७६ॐ विशुद्धात्मने नमः
- ७७७ॐ वेदाङ्गाय नमः
- ७७८ॐ विबुधप्रियाय नमः
- ७७९ॐ वचस्कराय नमः
- ७८०ॐ व्यापकाय नमः
- ७८१ॐ विज्ञानिने नमः
- ७८२ॐ विनयान्विताय नमः
- ७८३ॐ विद्वत्तमाय नमः
- ७८४ॐ विरोधिघ्नाय नमः
- ७८५ॐ वीराय नमः
- ७८६ॐ विगतरागवते नमः
- ७८७ॐ वीतभावाय नमः
- ७८८ॐ विनीतात्मने नमः
- ७८९ॐ वेदगर्भाय नमः
- ७९०ॐ वसुप्रदाय नमः
- ७९१ॐ विश्वदीप्तये नमः
- ७९२ॐ विशालाक्षाय नमः
- ७९३ॐ विजितात्मने नमः
- ७९४ॐ विभावनाय नमः
- ७९५ॐ वेदवेद्याय नमः
- ७९६ॐ विधेयात्मने नमः
- ७९७ॐ वीतदोषाय नमः
- ७९८ॐ वेदविदे नमः
- ७९९ॐ विश्वकर्मणे नमः
- ८००ॐ वीतभयाय नमः
- ८०१ॐ वागीशाय नमः
- ८०२ॐ वासवार्चिताय नमः
- ८०३ॐ वीरध्वंसाय नमः
- ८०४ॐ विश्वमूर्तये नमः
- ८०५ॐ विश्वरूपाय नमः
- ८०६ॐ वरासनाय नमः
- ८०७ॐ विशाखाय नमः
- ८०८ॐ विमलाय नमः
- ८०९ॐ वाग्मिने नमः
- ८१०ॐ विदुषे नमः
- ८११ॐ वेदधराय नमः
- ८१२ॐ वटवे नमः
- ८१३ॐ वीरचूडामणये नमः
- ८१४ॐ वीराय नमः
- ८१५ॐ विद्येशाय नमः
- ८१६ॐ विबुधाश्रयाय नमः
- ८१७ॐ विजयिने नमः
- ८१८ॐ विनयिने नमः
- ८१९ॐ वेत्रे नमः
- ८२०ॐ वरीयसे नमः
- ८२१ॐ विरजासे नमः
- ८२२ॐ वसवे नमः
- ८२३ॐ वीरघ्नाय नमः
- ८२४ॐ विज्वराय नमः
- ८२५ॐ वेद्याय नमः
- ८२६ॐ वेगवते नमः
- ८२७ॐ वीर्यवते नमः
- ८२८ॐ वशिने नमः
- ८२९ॐ वरशीलाय नमः
- ८३०ॐ वरगुणाय नमः
- ८३१ॐ विशोकाय नमः
- ८३२ॐ वज्रधारकाय नमः
- ८३३ॐ शरजन्मने नमः
- ८३४ॐ शक्तिधराय नमः
- ८३५ॐ शत्रुघ्नाय नमः
- ८३६ॐ शिखिवाहनाय नमः
- ८३७ॐ श्रीमते नमः
- ८३८ॐ शिष्टाय नमः
- ८३९ॐ शुचये नमः
- ८४०ॐ शुद्धाय नमः
- ८४१ॐ शाश्वताय नमः
- ८४२ॐ श्रुतिसागराय नमः
- ८४३ॐ शरण्याय नमः
- ८४४ॐ शुभदाय नमः
- ८४५ॐ शर्मणे नमः
- ८४६ॐ शिष्टेष्टाय नमः
- ८४७ॐ शुभलक्षणाय नमः
- ८४८ॐ शान्ताय नमः
- ८४९ॐ शूलधराय नमः
- ८५०ॐ श्रेष्ठाय नमः
- ८५१ॐ शुद्धात्मने नमः
- ८५२ॐ शङ्कराय नमः
- ८५३ॐ शिवाय नमः
- ८५४ॐ शितिकण्ठात्मजाय नमः
- ८५५ॐ शूराय नमः
- ८५६ॐ शान्तिदाय नमः
- ८५७ॐ शोकनाशनाय नमः
- ८५८ॐ षाण्मातुराय नमः
- ८५९ॐ षण्मुखाय नमः
- ८६०ॐ षड्गुणैश्वर्यसंयुताय नमः
- ८६१ॐ षट्चक्रस्थाय नमः
- ८६२ॐ षडूर्मिघ्नाय नमः
- ८६३ॐ षडङ्गश्रुतिपारगाय नमः
- ८६४ॐ षड्भावरहिताय नमः
- ८६५ॐ षट्काय नमः
- ८६६ॐ षट्शास्त्रस्मृतिपारगाय नमः
- ८६७ॐ षड्वर्गदात्रे नमः
- ८६८ॐ षड्ग्रीवाय नमः
- ८६९ॐ षडरिघ्ने नमः
- ८७०ॐ षडाश्रयाय नमः
- ८७१ॐ षट्किरीटधराय श्रीमते नमः
- ८७२ॐ षडाधाराय नमः
- ८७३ॐ षट्क्रमाय नमः
- ८७४ॐ षट्कोणमध्यनिलयाय नमः
- ८७५ॐ षण्डत्वपरिहारकाय नमः
- ८७६ॐ सेनान्ये नमः
- ८७७ॐ सुभगाय नमः
- ८७८ॐ स्कन्दाय नमः
- ८७९ॐ सुरानन्दाय नमः
- ८८०ॐ सतां गतये नमः
- ८८१ॐ सुब्रह्मण्याय नमः
- ८८२ॐ सुराध्यक्षाय नमः
- ८८३ॐ सर्वज्ञाय नमः
- ८८४ॐ सर्वदाय नमः
- ८८५ॐ सुखिने नमः
- ८८६ॐ सुलभाय नमः
- ८८७ॐ सिद्धिदाय नमः
- ८८८ॐ सौम्याय नमः
- ८८९ॐ सिद्धेशाय नमः
- ८९०ॐ सिद्धिसाधनाय नमः
- ८९१ॐ सिद्धार्थाय नमः
- ८९२ॐ सिद्धसङ्कल्पाय नमः
- ८९३ॐ सिद्धसाधवे नमः
- ८९४ॐ सुरेश्वराय नमः
- ८९५ॐ सुभुजाय नमः
- ८९६ॐ सर्वदृशे नमः
- ८९७ॐ साक्षिणे नमः
- ८९८ॐ सुप्रसादाय नमः
- ८९९ॐ सनातनाय नमः
- ९००ॐ सुधापतये नमः
- ९०१ॐ स्वयञ्ज्योतिषे नमः
- ९०२ॐ स्वयम्भुवे नमः
- ९०३ॐ सर्वतोमुखाय नमः
- ९०४ॐ समर्थाय नमः
- ९०५ॐ सत्कृतये नमः
- ९०६ॐ सूक्ष्माय नमः
- ९०७ॐ सुघोषाय नमः
- ९०८ॐ सुखदाय नमः
- ९०९ॐ सुहृदे नमः
- ९१०ॐ सुप्रसन्नाय नमः
- ९११ॐ सुरश्रेष्ठाय नमः
- ९१२ॐ सुशीलाय नमः
- ९१३ॐ सत्यसाधकाय नमः
- ९१४ॐ सम्भाव्याय नमः
- ९१५ॐ सुमनसे नमः
- ९१६ॐ सेव्याय नमः
- ९१७ॐ सकलागमपारगाय नमः
- ९१८ॐ सुव्यक्ताय नमः
- ९१९ॐ सच्चिदानन्दाय नमः
- ९२०ॐ सुवीराय नमः
- ९२१ॐ सुजनाश्रयाय नमः
- ९२२ॐ सर्वलक्षण्सम्पन्नाय नमः
- ९२३ॐ सत्यधर्मपरायणाय नमः
- ९२४ॐ सर्वदेवमयाय नमः
- ९२५ॐ सत्याय नमः
- ९२६ॐ सदा मृष्टान्नदायकाय नमः
- ९२७ॐ सुधापिने नमः
- ९२८ॐ सुमतये नमः
- ९२९ॐ सत्याय नमः
- ९३०ॐ सर्वविघ्नविनाशनाय नमः
- ९३१ॐ सर्वदुःखप्रशमनाय नमः
- ९३२ॐ सुकुमाराय नमः
- ९३३ॐ सुलोचनाय नमः
- ९३४ॐ सुग्रीवाय नमः
- ९३५ॐ सुधृतये नमः
- ९३६ॐ साराय नमः
- ९३७ॐ सुराराध्याय नमः
- ९३८ॐ सुविक्रमाय नमः
- ९३९ॐ सुरारिघ्ने नमः
- ९४०ॐ स्वर्णवर्णाय नमः
- ९४१ॐ सर्पराजाय नमः
- ९४२ॐ सदाशुचये नमः
- ९४३ॐ सप्तार्चिर्भुवे नमः
- ९४४ॐ सुरवराय नमः
- ९४५ॐ सर्वायुधविशारदाय नमः
- ९४६ॐ हस्तिचर्माम्बरसुताय नमः
- ९४७ॐ हस्तिवाहनसेविताय नमः
- ९४८ॐ हस्तचित्रायुधधराय नमः
- ९४९ॐ हृताघाय नमः
- ९५०ॐ हसिताननाय नमः
- ९५१ॐ हेमभूषाय नमः
- ९५२ॐ हरिद्वर्णाय नमः
- ९५३ॐ हृष्टिदाय नमः
- ९५४ॐ हृष्टिवर्धनाय नमः
- ९५५ॐ हेमाद्रिभिदे नमः
- ९५६ॐ हंसरूपाय नमः
- ९५७ॐ हुङ्कारहतकिल्बिषाय नमः
- ९५८ॐ हिमाद्रिजातातनुजाय नमः
- ९५९ॐ हरिकेशाय नमः
- ९६०ॐ हिरण्मयाय नमः
- ९६१ॐ हृद्याय नमः
- ९६२ॐ हृष्टाय नमः
- ९६३ॐ हरिसखाय नमः
- ९६४ॐ हंसाय नमः
- ९६५ॐ हंसगतये नमः
- ९६६ॐ हविषे नमः
- ९६७ॐ हिरण्यवर्णाय नमः
- ९६८ॐ हितकृते नमः
- ९६९ॐ हर्षदाय नमः
- ९७०ॐ हेमभूषणाय नमः
- ९७१ॐ हरप्रियाय नमः
- ९७२ॐ हितकराय नमः
- ९७३ॐ हतपापाय नमः
- ९७४ॐ हरोद्भवाय नमः
- ९७५ॐ क्षेमदाय नमः
- ९७६ॐ क्षेमकृते नमः
- ९७७ॐ क्षेम्याय नमः
- ९७८ॐ क्षेत्रज्ञाय नमः
- ९७९ॐ क्षामवर्जिताय नमः
- ९८०ॐ क्षेत्रपालाय नमः
- ९८१ॐ क्षमाधाराय नमः
- ९८२ॐ क्षेमक्षेत्राय नमः
- ९८३ॐ क्षमाकराय नमः
- ९८४ॐ क्षुद्रघ्नाय नमः
- ९८५ॐ क्षान्तिदाय नमः
- ९८६ॐ क्षेमाय नमः
- ९८७ॐ क्षितिभूषाय नमः
- ९८८ॐ क्षमाश्रयाय नमः
- ९८९ॐ क्षालिताघाय नमः
- ९९०ॐ क्षितिधराय नमः
- ९९१ॐ क्षीणसंरक्षणक्षमाय नमः
- ९९२ॐ क्षणभङ्गुरसन्नद्धघनशोभिकपर्दकाय नमः
- ९९३ॐ क्षितिभृन्नाथतनयामुखपङ्कजभास्कराय नमः
- ९९४ॐ क्षताहिताय नमः
- ९९५ॐ क्षराय नमः
- ९९६ॐ क्षन्त्रे नमः
- ९९७ॐ क्षतदोषाय नमः
- ९९८ॐ क्षमानिधये नमः
- ९९९ॐ क्षपिताखिलसन्तापाय नमः
- १०००ॐ क्षपानाथसमाननाय नमः
फलश्रुतिः
इति नाम्नां सहस्राणि षण्मुखस्य च नारद ।
यः पठेच्छृणुयाद्वाऽपि भक्तियुक्तेन चेतसा ॥
स सद्यो मुच्यते पापैर्मनोवाक्कायसम्भवैः ।
आयुर्वृद्धिकरं पुंसां स्थैर्यवीर्यविवर्धनम् ॥
वाक्येनैकेन वक्ष्यामि वाञ्छितार्थं प्रयच्छति ।
तस्मात्सर्वात्मना ब्रह्मन्नियमेन जपेत्सुधीः ॥
इति श्रीस्कान्दे महापुराणे ईश्वरप्रोक्ते ब्रह्मनारदसंवादे षण्मुखसहस्रनामावलिः सम्पूर्णा