अध्ययनम्
- अनुक्रमणिका
- गन्ध-अक्षत-पुष्पाणि · धूप-दीप-नैवेद्यानि · नीराजन-मन्त्रपुष्पाणि
- मूलम्
- तैत्तिरीय-ऋग्वेदपाठः याजुषमन्त्ररत्नाकरानुसारेण। स्वरः गुरोः समीपे एव।
गन्ध-अक्षत-पुष्पाणि
ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म्। ई॒श्वरीं᳚ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम्॥ गन्धं समर्पयामि॥
॥१॥अर्च॑त॒ प्रार्च॑त॒ प्रिय॑मेधासो॒ अर्च॑त। अर्च॑न्तु पुत्र॒का उ॒त पुरं॒ न धृ॒ष्ण्व॑र्चत॥ अक्षतान् समर्पयामि॥
॥२॥योऽपां पुष्पं॒ वेद॑। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति। च॒न्द्रमा॒ वा अ॒पां पुष्प᳚म्। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति॥ पुष्पाणि पूजयामि॥
॥३॥धूप-दीप-नैवेद्यानि
धूर॑सि॒ धूर्व॒ धूर्व॑न्तं॒ धूर्व॒तं यो᳚ऽस्मान् धूर्व॑ति॒ तं धू᳚र्व॒ यं व॒यं धूर्वा॑म॒स्त्वं दे॒वाना॑मसि॒ सस्नि॑तमं॒ पप्रि॑तमं॒ जुष्ट॑तमं॒ वह्नि॑तमं देव॒हू॑तम॒महु॑तमसि हवि॒र्धानं॒ दृꣳह॑स्व॒ माह्वा᳚र्मि॒त्रस्य॑ त्वा॒ चक्षु॑षा॒ प्रेक्षे॒ मा भेर्मा॒ सं वि॑क्था॒ मा त्वा॑ हिꣳसिषम्॥ धूपमाघ्रापयामि॥
॥४॥उद्दीप्य॑स्व जातवेदोऽप॒घ्नन्निर्ऋ॑तिं॒ मम॑। प॒शूꣴश्च॒ मह्य॒माव॑ह॒ जीव॑नं च॒ दिशो॑दिश॥ मा नो॑ हिꣳसीज्जातवेदो॒ गामश्वं॒ पुरु॑षं॒ जग॑त्। अबि॑भ्रदग्न॒ आग॑हि श्रि॒या मा॒ परि॑ पातय॥ दीपं दर्शयामि॥
॥५॥मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः। माध्वी᳚र्नः स॒न्त्वोष॑धीः। मधु॒ नक्त॑मु॒तोषसि॒ मधु॑म॒त्पार्थि॑व॒ꣳ रजः॑। मधु॒ द्यौर॑स्तु नः पि॒ता॥ मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ अस्तु॒ सूर्यः॑। माध्वी॒र्गावो॑ भवन्तु नः॥ नैवेद्यं निवेदयामि॥
॥६॥नीराजन-मन्त्रपुष्पाणि
सोमो॒ वा ए॒तस्य॑ रा॒ज्यमाद॑त्ते। यो राजा॒ सम्रा॒ज्यो वा॒ सोमे॑न॒ यज॑ते। दे॒व॒सु॒वामे॒तानि॑ ह॒वीꣳषि॑ भवन्ति। ए॒ताव॑न्तो॒ वै दे॒वानां᳚ स॒वाः। त ए॒वास्मै॑ स॒वान् प्रय॑च्छन्ति। त ए॑नं॒ पुन॑ः सुवन्ते रा॒ज्याय॑। दे॒व॒सू राजा॑ भवति॥ नीराजनं दर्शयामि॥
॥७॥वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑हस्त उ॒त वि॒श्वत॑स्पात्। संबा॒हुभ्यां॒ नम॑ति॒ संपत॑त्रै॒र्द्यावा॑पृथि॒वी ज॒नय॑न् दे॒व एकः॑॥ मन्त्रपुष्पं समर्पयामि॥
॥८॥