अध्ययनम्
- अनुक्रमणिका
- संहिता निर्देशाः
- मूलम्
तै॰सं॰ ७.३.१४
३५ अ॒ग्निना॒ तपोऽन्व॑भवद्वा॒चा ब्रह्म॑ म॒णिना॑ रू॒पाणीन्द्रे॑ण
दे॒वान्, वाते॑न प्रा॒णान्थ्सूर्ये॑ण॒ द्यां च॒न्द्रम॑सा॒ नक्ष॑त्राणि
य॒मेन॑ पि॒तॄन्राज्ञा॑ मनु॒ष्या᳚न्फ॒लेन॑ नादे॒यान॑जग॒रेण॑
स॒र्पान्व्या॒घ्रेणा॑र॒ण्यान्प॒शूञ्छ्ये॒नेन॑ पत॒त्रिणो॒ वृष्णाश्वा॑नृष॒भेण॒
गाब॒स्तेना॒जा वृ॒ष्णिनावी᳚र्व्री॒हिणान्ना॑नि॒ यवे॒नौष॑धीर्न्य॒ग्रोधे॑न॒
वन॒स्पती॑नुदुं॒बरे॒णोर्जं॑ गायत्रि॒या छन्दाꣳ॑सि त्रि॒वृता॒
स्तोमा᳚न्ब्राह्म॒णेन॒ वाच᳚म् ॥ ७। ३। १४॥ ब्रा॒ह्म॒णेनैकं॑ च ॥TS 7.3.14॥
॥१॥