अध्ययनम्
- अनुक्रमणिका
- यत इन्द्र स्वस्तिदा — तै॰आ॰ १०.१
- मूलम्
- याजुषमन्त्ररत्नाकरम् पृष्ठम् ३०७ मध्ये तै॰आ॰ १०.१ इति मूलनिर्देशः। अयं पाठः मुद्रितग्रन्थात् स्वरचिह्नैः सह उद्धृतः; तैत्तिरीय-आरण्यकस्य दशमः प्रश्नः अस्मिन् जालस्थले नोपलभ्यते।
यत इन्द्र स्वस्तिदा — तै॰आ॰ १०.१
यत॑ इन्द्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑यं कृधि। मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तये॒ विद्विषो॒ विमृधो॑ जहि॥ स्व॒स्ति॒दा वि॒शस्पति॑र्वृत्र॒हा विमृधो॑ व॒शी। वृषेन्द्र॑ः पु॒र ए॑तु नः स्वस्ति॒दा अ॑भयङ्क॒रः॥
॥१॥