मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

साम्राज्यसूक्तम्

साम्राज्यसूक्तम्. Also called samrajya suktam, Sāmrājyasūktam. Svara-marked text on Vaidhika Dharma.

MD
अध्ययनम्
अनुक्रमणिका
संहिता निर्देशाः
मूलम्

तै॰सं॰ २.४.१४

४४ नवो॑नवो भवति॒ जाय॑मा॒नोऽह्नां᳚ के॒तुरु॒षसा॑मे॒त्यग्रे᳚ । भा॒गं

दे॒वेभ्यो॒ वि द॑धात्या॒यन् प्र चं॒द्रमा᳚स्तिरति दी॒र्घमायुः॑ ॥ यमा॑दि॒त्या

अ॒ꣳ॒शुमा᳚प्या॒यय॑न्ति॒ यमक्षि॑त॒मक्षि॑तयः॒ पिब॑न्ति । तेन॑ नो॒

राजा॒ वरु॑णो॒ बृह॒स्पति॒रा प्या॑ययन्तु॒ भुव॑नस्य गो॒पाः ॥ प्राच्यां᳚ दि॒शि

त्वमिं॑द्रासि॒ राजो॒तोदी᳚च्यां वृत्रहन्वृत्र॒हासि॑ । यत्र॒ यन्ति॑ स्रो॒त्यास्त

४५ ज्जि॒तं ते॑ दक्षिण॒तो वृ॑ष॒भ ए॑धि॒ हव्यः॑ । इंद्रो॑ जयाति॒ न परा॑

जयाता अधिरा॒जो राज॑सु राजयाति । विश्वा॒ हि भू॒याः पृत॑ना अभि॒ष्टीरु॑प॒सद्यो॑

नम॒स्यो॑ यथास॑त् ॥ अ॒स्येदे॒व प्र रि॑रिचे महि॒त्वं दि॒वः पृ॑थि॒व्याः

पर्य॒न्तरि॑क्षात् । स्व॒राडिंद्रो॒ दम॒ आ वि॒श्वगू᳚र्तः स्व॒रिरम॑त्रो ववक्षे॒

रणा॑य । अ॒भि त्वा॑ शूर नोनु॒मो ऽदु॑ग्धा इव धे॒नवः॑ । ईशा॑न

४६ म॒स्य जग॑तः सुव॒र्दृश॒मीशा॑नमिंद्र त॒स्थुषः॑ ॥ त्वामिद्धि हवा॑महे

सा॒ता वाज॑स्य का॒रवः॑ । त्वां वृ॒त्रेष्विं॑द्र॒ सत्प॑तिं॒ नर॒स्त्वां

काष्ठा॒स्वर्व॑तः ॥ यद्द्याव॑ इंद्र ते श॒तꣳ श॒तं भूमी॑रु॒त स्युः । न त्वा॑

वज्रिन्थ्स॒हस्र॒ꣳ॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी ॥ पिबा॒ सोम॑मिंद्र॒

मन्द॑तु त्वा॒ यं ते॑ सु॒षाव॑ हर्य॒श्वाद्रिः॑ ॥

४७ सो॒तुर्बा॒हुभ्या॒ꣳ॒ सुय॑तो॒ नार्वा᳚ ॥ रे॒वती᳚र्नः सध॒माद॒ इंद्रे॑

सन्तु तु॒विवा॑जाः । क्षु॒मन्तो॒ याभि॒र्मदे॑म ॥ उद॑ग्ने॒ शुच॑य॒स्तव॒

वि ज्योति॒षोदु॒ त्यं जा॒तवे॑दसꣳ स॒प्त त्वा॑ ह॒रितो॒ रथे॒ वह॑न्ति

देव सूर्य । शो॒चिष्के॑शं विचक्षण ॥ चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒

चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒ꣳ॒

सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑

४८ श्च ॥ विश्वे॑ दे॒वा ऋ॑ता॒वृध॑ ऋ॒तुभि॑र्हवन॒श्रुतः॑ । जु॒षन्तां॒

युज्यं॒ पयः॑ ॥ विश्वे॑ देवाः श‍ृणु॒तेमꣳ हवं॑ मे॒ ये अ॒न्तरि॑क्षे॒ य उप॒

द्यवि॒ष्ठ । ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्रा आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम् ॥

२। ४। १४॥ तदीशा॑न॒मद्रि॑स्त॒स्थुष॑स्त्रि॒ꣳ॒शच्च॑TS 2.4.14

॥१॥