अध्ययनम्
- अनुक्रमणिका
- उपनयने समिदाधानाश्मास्थापने
- मूलम्
- याजुषमन्त्ररत्नाकरम् (मुद्रितग्रन्थः) पृष्ठम् ६१८ — मुद्रितग्रन्थस्य PDF-पाठात् स्वरसहितं यथावत् उद्धृतम्। कोष्ठकेषु सङ्ख्याः ग्रन्थस्य पृष्ठनिर्देशाः।
उपनयने समिदाधानाश्मास्थापने
आ॒यु॒र्दा दे॑व ज॒रसं॑ गृणा॒नो घृ॒तप्र॑तीको घृ॒तपृ॑ष्ठो अग्ने। घृ॒तं पिब॑न्न॒मृतं॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रं ज॒रसे॑ नये॒मम्। आति॑ष्ठे॒ममश्मा॑न॒मश्मे॑व॒ त्वꣴ स्थि॒रो भ॑व। अ॒भिति॑ष्ठ पृतन्य॒तः सह॑स्व पृतनाय॒तः।
॥१॥