मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

कलशस्थापनश्लोकाः

Also spelled: Kalashasthapanashloka

कलशस्थापनश्लोकाः. Also called kalasha sthapana shlokah, Kalaśasthāpanaślokāḥ. Svara-marked text on Vaidhika Dharma.

3
अध्ययनम्
अनुक्रमणिका
आपो वा इदम् · कलशपूजा श्लोकाः
मूलम्
तैत्तिरीय-ऋग्वेदपाठः याजुषमन्त्ररत्नाकरानुसारेण। स्वरः गुरोः समीपे एव।

आपो वा इदम्

आपो॒ वा इ॒दꣳ सर्वं॒ विश्वा॑ भू॒तान्यापः॑ प्रा॒णा वा आपः॑ प॒शव॒ आपोऽन्न॒मापोऽमृत॒मापः॑ स॒म्राडापो॑ वि॒राडापः॑ स्व॒राडाप॒श्छन्दा॒ꣴस्यापो॒ ज्योती॒ꣴष्यापो॒ यजू॒ꣴष्यापः॑ स॒त्यमापः॒ सर्वा॑ दे॒वता॒ आपो॒ भूर्भुवः॒सुव॒राप॒ ओम्॥

॥१॥

कलशपूजा श्लोकाः

कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः। मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः॥

कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा। ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः। अङ्गैश्च सहिताः सर्वे कलशाम्बुसमाश्रिताः॥

॥२॥

गङ्गे च यमुने चैव गोदावरि सरस्वति। नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु॥

सर्वे समुद्राः सरितस्तीर्थानि च ह्रदा नदाः। आयान्तु देवपूजार्थं दुरितक्षयकारकाः॥

॥३॥