skipLink.label

श्री सूक्तम्

ॐ ॥ हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥ १ ॥

तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी॑म् ।
यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥ २ ॥

अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑दप्र॒बोधि॑नीम् ।
श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा॑दे॒वीर्जु॑षताम् ॥ ३ ॥

कां॒ सो॒स्मि॒तां हिर॑ण्यप्राकारामा॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम् ।
प॒द्मे॒ स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ह्वये॒ श्रिय॑म् ॥ ४ ॥

च॒न्द्रां प्र॑भा॒सां य॒शसा॒ ज्वल॑न्तीं॒ श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम् ।
तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्ये ऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां वृ॑णे ॥ ५ ॥

आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः ।
तस्य॒ फला॑नि॒ तप॒सा नु॑दन्तु मा॒यान्त॑रा॒ याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः ॥ ६ ॥

उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह ।
प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्तिमृ॑द्धिं द॒दातु॑ मे ॥ ७ ॥

क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठामल॒क्ष्मीं ना॑शया॒म्यहम् ।
अभू॑ति॒मस॑मृद्धिं॒ च सर्वां॒ निर्णु॑द मे॒ गृहा॑त् ॥ ८ ॥

गं॒ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी॑म् ।
ई॒श्वरीं॑ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रिय॑म् ॥ ९ ॥

मन॑सः॒ काम॒माकू॑तिं वा॒चः स॒त्यम॑शीमहि ।
प॒शू॒नां रूप॑मन्न॒स्य मयि॒ श्रीः श्र॑यतां॒ यशः॑ ॥ १० ॥

कर्द॑मे॒न प्र॑जाभू॒ता म॒यि सं॑भव॒ कर्द॑म ।
श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम् ॥ ११ ॥

आपः॑ सृ॒जन्तु॑ स्नि॒ग्धा॒नि चिक्ली॑त॒ वस॑ मे गृ॒हे ।
नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले ॥ १२ ॥

आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं॒ सु॒वर्णां॑ हेम॒मालि॑नीम् ।
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥ १३ ॥

आ॒र्द्रां यः॒ करि॑णीं य॒ष्टिं॒ पि॒ङ्गलां॑ पद्म॒मालि॑नीम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं॒ जात॑वेदो म॒ आव॑ह ॥ १४॥

तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑प गा॒मिनी॑म् ।
यस्यां॒ हिर॑ण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्योऽश्वा॑न्वि॒न्देयं॒ पुरु॑षान॒हम् ॥ १५ ॥

(म॒हा॒दे॒व्यै च॑ वि॒द्महे॑ विष्णुप॒त्न्यै च॑ धीमही ।
तन्नो॑ लक्ष्मीः प्रचो॒दया॑त् ॥ १६ ॥)

श्रीसूक्तशेषः

heading.anchorLabel

यः शुचि॒ प्रय॑तो भू॒त्वा जु॒हुया॑दाज्य॒मन्व॑हम् । सूक्तं॑ प॒ञ्चद॑शर्चं॒ च श्रीकाम॑: सत॒तं ज॑पेत् ।
प॒द्मा॒न॒ने प॑द्म ऊ॒रू प॒द्माक्षी॑ पद्म॒सम्भ॑वे। तन्मे॑ भ॒जसि॑ प॒द्मा॒क्षी॒ ये॒न सौख्यं॑ ल॒भाम्य॑हम् ।
अ॒श्व॒दायी॑ गोदा॒यी ध॒नदा॑यी म॒हाध॑ने । धनं॑ मे॒ जुष॑तां दे॒वि स॒र्वकामां᳚श्च॒ देहि॑ मे ।
पद्मा॑न॒ने प॑ह्म॒विप॑द्मप॒त्रे॒ पद्य॑प्रिये॒ पद्म॒दला॑यता॒क्षि । विश्व॑प्रिये॒ विष्णु मनो॑ऽनुकू॒ले त्वत्पा॑दप॒द्मं मयि॒ सन्नि॑धत्स्व ।
पु॒त्र॒पौ॒त्र ध॑नं धा॒न्यं ह॒स्त्यश्वा॑दिग॒वे र॑थम् । प्र॒जानां॒ भव॑सि मा॒ता॒ आ॒युष्म॑न्तं क॒रोतु॑ मे ।
धन॑ मे॒ग्निर्धनं॑ वा॒युर्धनं॒ सूर्यो॑ धनं॒ वसु॑: । धन॒मिन्द्रो॒ बृह॒स्पति॒र्वरु॑णं॒ धन॒मस्तु॑ ते ।
वैन॑तेय॒ सोमं॑ पिब॒ सोमं॑ पिबतु वृत्र॒हा । सोमं॒ धन॑स्य सा॒मिनो॒ मह्यं॒ ददा॑तु सो॒मिनः॑ ।
न क्रोधो॒ न च॑ मात्स॒र्यं॒ न॒ लोभो॑ नाशु॒भाम॑तिः । भव॑न्ति॒ कृत॑पुण्या॒नां॒ भ॒क्तानां श्रीसू᳚क्तं ज॒पेत् ।
सरसिजनिलये सरो॑ज॒ह॒स्ते॒ धवलतरां शुकग॒न्धमा᳚ल्यशो॒भे ।
भगवति हरिवल्लभे॑ मनो॒ज्ञे॒ त्रिभुवनभूतिकरि प्रसी॑द म॒ह्यम् ।
विष्णु॑प॒त्नीं क्ष॑मां दे॒वीं॒ मा॒धवीं᳚ माध॒प्रि॑याम् । लक्ष्मीं॑ प्रि॒यस॑खीं दे॒वीं॒ न॒माम्य॑च्युत॒वल्ल॑भाम् ।
म॒हा॒ल॒क्ष्म्यै च॑ वि॒द्महे॑ विष्णुप॒त्न्यै च॑ धीमहि । तन्नो॑ लक्ष्मीः प्रचो॒दया᳚त् ।
श्रीवर्च॑स्व॒मायु॑ष्य॒मारो᳚ग्य॒मावि॑धा॒च्छोभ॑मानं मही॒यते᳚ । धा॒न्यं ध॒नं प॒शुं ब॒हुपु॑त्रला॒भं श॒तसं॑वत्स॒रं दी॒र्घमायु॑: