अध्ययनम्
- अनुक्रमणिका
- यजुर्वेद पाठः
- श्री सूक्तम्
- मूलम्
श्रीसूक्तम् (खिलम्)
हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् । च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥ १ ॥
॥१॥तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी॑म् । यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥ २ ॥
॥२॥अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑दप्र॒बोधि॑नीम् । श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा॑दे॒वीर्जु॑षताम् ॥ ३ ॥
॥३॥कां॒ सो॒स्मि॒तां हिर॑ण्यप्राकारामा॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम् । प॒द्मे॒ स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ह्वये॒ श्रिय॑म् ॥ ४ ॥
॥४॥च॒न्द्रां प्र॑भा॒सां य॒शसा॒ ज्वल॑न्तीं॒ श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम् । तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्ये ऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां वृ॑णे ॥ ५ ॥
॥५॥आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः । तस्य॒ फला॑नि॒ तप॒सा नु॑दन्तु मा॒यान्त॑रा॒ याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः ॥ ६ ॥
॥६॥उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह । प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्तिमृ॑द्धिं द॒दातु॑ मे ॥ ७ ॥
॥७॥क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठामल॒क्ष्मीं ना॑शया॒म्यहम् । अभू॑ति॒मस॑मृद्धिं॒ च सर्वां॒ निर्णु॑द मे॒ गृहा॑त् ॥ ८ ॥
॥८॥गं॒ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी॑म् । ई॒श्वरीं॑ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रिय॑म् ॥ ९ ॥
॥९॥मन॑सः॒ काम॒माकू॑तिं वा॒चः स॒त्यम॑शीमहि । प॒शू॒नां रूप॑मन्न॒स्य मयि॒ श्रीः श्र॑यतां॒ यशः॑ ॥ १० ॥
॥१०॥कर्द॑मे॒न प्र॑जाभू॒ता म॒यि सं॑भव॒ कर्द॑म । श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम् ॥ ११ ॥
॥११॥आपः॑ सृ॒जन्तु॑ स्नि॒ग्धा॒नि चिक्ली॑त॒ वस॑ मे गृ॒हे । नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले ॥ १२ ॥
॥१२॥आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं॒ सु॒वर्णां॑ हेम॒मालि॑नीम् । सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥ १३ ॥
॥१३॥आ॒र्द्रां यः॒ करि॑णीं य॒ष्टिं॒ पि॒ङ्गलां॑ पद्म॒मालि॑नीम् । च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं॒ जात॑वेदो म॒ आव॑ह ॥ १४ ॥
॥१४॥तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑प गा॒मिनी॑म् । यस्यां॒ हिर॑ण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्योऽश्वा॑न्वि॒न्देयं॒ पुरु॑षान॒हम् ॥ १५ ॥
॥१५॥फलश्रुतिः
यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् । सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥ १ ॥
॥१॥पद्मानने पद्म ऊरू पद्माक्षी पद्मसम्भवे । तन्मे भजसि पद्माक्षी येन सौख्यं लभाम्यहम् ॥ २ ॥
॥२॥अश्वदायी गोदायी धनदायी महाधने । धनं मे जुषतां देवि सर्वकामांश्च देहि मे ॥ ३ ॥
॥३॥पद्मानने पद्मविपद्मपत्रे पद्मप्रिये पद्मदलायताक्षि । विश्वप्रिये विश्वमनोऽनुकूले त्वत्पादपद्मं मयि सं नि धत्स्व ॥ ४ ॥
॥४॥पुत्रपौत्रधनं धान्यं हस्त्यश्वादिगवेरथम् । प्रजानां भवसि माता आयुष्मन्तं करोतु मे ॥ ५ ॥
॥५॥धनमग्निधनं वायुर्धनं सूर्यो धनं वसुः । धनमिन्द्रो बृहस्पतिर्वरुणं धनमस्तु ते ॥ ६ ॥
॥६॥वैनतेय सोमं पिब सोमं पिबतु वृत्रहा । सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ॥ ७ ॥
॥७॥न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः । भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत् ॥ ८ ॥
॥८॥सरसिजनिलये सरोजहस्ते धवलतरां शुकगन्धमाल्यशोभे । भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ ९ ॥
॥९॥