skipLink.label

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शान्ति मन्त्राः

शान्ति मन्त्राः. Also called shanti mantrah, Śānti mantrāḥ. Svara-marked text on Vaidhika Dharma. IAST

MD
अध्ययनम्
अनुक्रमणिका
संहिता निर्देशाः
मूलम्

९ गोतमो राहूगणः। विश्वेदेवाः,। गायत्री, ९ अनुष्टुप्।

शं नो॑ मि॒त्रः शं वरु॑ण॒: शं नो॑ भवत्वर्य॒मा । शं न॒ इन्द्रो॒ बृह॒स्पति॒: शं नो॒ विष्णु॑रुरुक्र॒मः1.90.9

śaṃ no̍ mi̱traḥ śaṃ varu̍ṇa̱: śaṃ no̍ bhavatvarya̱mā | śaṃ na̱ indro̱ bṛha̱spati̱: śaṃ no̱ viṣṇu̍rurukra̱maḥ

१५ मैत्रावरुणिर्वसिष्ठ:। विश्वे देवा:। त्रिष्टुप् ।

शं न॑ इन्द्रा॒ग्नी भ॑वता॒मवो॑भि॒: शं न॒ इन्द्रा॒वरु॑णा रा॒तह॑व्या ।

शमिन्द्रा॒सोमा॑ सुवि॒ताय॒ शं योः शं न॒ इन्द्रा॑पू॒षणा॒ वाज॑सातौ7.35.1

śaṃ na̍ indrā̱gnī bha̍vatā̱mavo̍bhi̱: śaṃ na̱ indrā̱varu̍ṇā rā̱taha̍vyā |

śamindrā̱somā̍ suvi̱tāya̱ śaṃ yoḥ śaṃ na̱ indrā̍pū̱ṣaṇā̱ vāja̍sātau

१० गोतमो राहूगणः। विश्वेदेवाः, (१-२, ८-९ देवाः, १० अदितिः)। जगती, ६ विराट्-स्थाना, ८-१० त्रिष्टुप्।

स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः ।

स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु1.89.6

sva̱sti na̱ indro̍ vṛ̱ddhaśra̍vāḥ sva̱sti na̍: pū̱ṣā vi̱śvave̍dāḥ |

sva̱sti na̱stārkṣyo̱ ari̍ṣṭanemiḥ sva̱sti no̱ bṛha̱spati̍rdadhātu