अध्ययनम्
- अनुक्रमणिका
- मूलम्
१० गोतमो राहूगणः। विश्वेदेवाः, (१-२, ८-९ देवाः, १० अदितिः)। जगती, ६ विराट्-स्थाना, ८-१० त्रिष्टुप्।
भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः ।
स्थि॒रैरङ्गै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायु॑: ॥1.89.8॥
bha̱draṃ karṇe̍bhiḥ śṛṇuyāma devā bha̱draṃ pa̍śyemā̱kṣabhi̍ryajatrāḥ |
sthi̱rairaṅgai̍stuṣṭu̱vāṃsa̍sta̱nūbhi̱rvya̍śema de̱vahi̍ta̱ṃ yadāyu̍:
१८ गोतमो राहूगणः। उषाः, १६-१८ अश्विनौ । १-४ जगती, ५-१२ त्रिष्टुप्, १३-१८ उष्णिक्।
पुन॑:पुन॒र्जाय॑माना पुरा॒णी स॑मा॒नं वर्ण॑म॒भि शुम्भ॑माना ।
श्व॒घ्नीव॑ कृ॒त्नुर्विज॑ आमिना॒ना मर्त॑स्य दे॒वी ज॒रय॒न्त्यायु॑: ॥1.92.10॥
puna̍:puna̱rjāya̍mānā purā̱ṇī sa̍mā̱naṃ varṇa̍ma̱bhi śumbha̍mānā |
śva̱ghnīva̍ kṛ̱tnurvija̍ āminā̱nā marta̍sya de̱vī ja̱raya̱ntyāyu̍:
१५ प्रगाथो घौर: काण्व:। सोम: । त्रिष्टुप् , ५ जगती ।
त्वं हि न॑स्त॒न्व॑: सोम गो॒पा गात्रे॑गात्रे निष॒सत्था॑ नृ॒चक्षा॑: ।
यत्ते॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॒ स नो॑ मृळ सुष॒खा दे॑व॒ वस्य॑: ॥8.48.9॥
tvaṃ hi na̍sta̱nva̍: soma go̱pā gātre̍gātre niṣa̱satthā̍ nṛ̱cakṣā̍: |
yatte̍ va̱yaṃ pra̍mi̱nāma̍ vra̱tāni̱ sa no̍ mṛl̤a suṣa̱khā de̍va̱ vasya̍:
अप॒ त्या अ॑स्थु॒रनि॑रा॒ अमी॑वा॒ निर॑त्रस॒न्तमि॑षीची॒रभै॑षुः ।
आ सोमो॑ अ॒स्माँ अ॑रुह॒द्विहा॑या॒ अग॑न्म॒ यत्र॑ प्रति॒रन्त॒ आयु॑: ॥8.48.11॥
apa̱ tyā a̍sthu̱rani̍rā̱ amī̍vā̱ nira̍trasa̱ntami̍ṣīcī̱rabhai̍ṣuḥ |
ā somo̍ a̱smām̐ a̍ruha̱dvihā̍yā̱ aga̍nma̱ yatra̍ prati̱ranta̱ āyu̍:
९ काश्यपोऽसितो देवलो वा । पवमान: सोम: । गायत्री ।
वृ॒ष्टिं दि॒वः परि॑ स्रव द्यु॒म्नं पृ॑थि॒व्या अधि॑ । सहो॑ नः सोम पृ॒त्सु धा॑: ॥9.8.8॥
vṛ̱ṣṭiṃ di̱vaḥ pari̍ srava dyu̱mnaṃ pṛ̍thi̱vyā adhi̍ | saho̍ naḥ soma pṛ̱tsu dhā̍:
३०निध्रुवि: काश्यपः । पवमान: सोम: । गायत्री ।
अ॒स्मे वसू॑नि धारय॒ सोम॑ दि॒व्यानि॒ पार्थि॑वा । इन्दो॒ विश्वा॑नि॒ वार्या॑ ॥9.63.30॥
a̱sme vasū̍ni dhāraya̱ soma̍ di̱vyāni̱ pārthi̍vā | indo̱ viśvā̍ni̱ vāryā̍
१४ लुशो धानाकः। विश्वेदेवाः । जगती,१३-१४ त्रिष्टुप्।
स॒वि॒ता प॒श्चाता॑त्सवि॒ता पु॒रस्ता॑त्सवि॒तोत्त॒रात्ता॑त्सवि॒ताध॒रात्ता॑त् ।
स॒वि॒ता न॑: सुवतु स॒र्वता॑तिं सवि॒ता नो॑ रासतां दी॒र्घमायु॑: ॥10.36.14॥
sa̱vi̱tā pa̱ścātā̍tsavi̱tā pu̱rastā̍tsavi̱totta̱rāttā̍tsavi̱tādha̱rāttā̍t |
sa̱vi̱tā na̍: suvatu sa̱rvatā̍tiṃ savi̱tā no̍ rāsatāṃ dī̱rghamāyu̍:
४७ सावित्री सूर्या ऋषिका। १-५ सोमः, ६-१६ सूर्याविवाहः, १७ देवाः, १८ सोमार्कौ, १९ चन्द्रमाः, २०-२८ नृणां विवाहमन्त्रा आशी:प्रायाः, २९-३० वधूवासः संस्पर्शनिन्दा, ३१ दम्पत्योर्यक्ष्मनाशनं, ३२-४७ सूर्या सावित्री। अनुष्टुप् , १४,१९-२१,२३-२४,२६,३६-३७,४४ त्रिष्टुप्, १८,२७,४३ जगती, ३४ उरोबृहती।
नवो॑नवो भवति॒ जाय॑मा॒नोऽह्नां॑ के॒तुरु॒षसा॑मे॒त्यग्र॑म् ।
भा॒गं दे॒वेभ्यो॒ वि द॑धात्या॒यन्प्र च॒न्द्रमा॑स्तिरते दी॒र्घमायु॑: ॥10.85.19॥
navo̍navo bhavati̱ jāya̍mā̱no'hnā̍ṃ ke̱turu̱ṣasā̍me̱tyagra̍m |
bhā̱gaṃ de̱vebhyo̱ vi da̍dhātyā̱yanpra ca̱ndramā̍stirate dī̱rghamāyu̍:
१८ ऐलः पुरूरवाः। उर्वशी देवता। २,४-५,७, ११, १३, १५-१६,१८, उर्वशी ऋषिका। पुरूरवा देवता। त्रिष्टुप्।
वि॒द्युन्न या पत॑न्ती॒ दवि॑द्यो॒द्भर॑न्ती मे॒ अप्या॒ काम्या॑नि ।
जनि॑ष्टो अ॒पो नर्य॒: सुजा॑त॒: प्रोर्वशी॑ तिरत दी॒र्घमायु॑: ॥10.95.10॥
vi̱dyunna yā pata̍ntī̱ davi̍dyo̱dbhara̍ntī me̱ apyā̱ kāmyā̍ni |
jani̍ṣṭo a̱po narya̱: sujā̍ta̱: prorvaśī̍ tirata dī̱rghamāyu̍: