चैत्रशुक्लनवम्यां श्रीरामो जातः। शुक्लप्रतिपदमारभ्य नवदिनोत्सवः रामनवम्यां समाप्यते — स वसन्तनवरात्रः। पानकं तक्रं वटकं मुद्गसूपं च निवेदयेत्। रामायणपारायणं कथाश्रवणं च।
पूर्वाङ्गपूजा. इदं पूर्वाङ्गं सर्वासु पूजासु समानम् — आदौ आचर्य पश्चात् प्रधानपूजां कुर्यात्। पूर्वाङ्गपूजा
पूर्वाङ्गपूजा
संवृणु
आचमनम्
ध्यानम्
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
प्राणायामः — सङ्कल्पः
अप उपस्पृश्य
ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं करिष्यमाणस्य कर्मणः निर्विघ्नेन परिसमाप्त्यर्थं आदौ विघ्नेश्वरपूजां करिष्ये।
महद्भन्दनम्
आब्रह्मलोकादारोहात् आलोकात् लोकपर्वतात्।
ये वसन्ति द्विजा देवास्तेभ्यो नित्यं नमो नमः ॥
आसनपूजा
पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता। आसने विनियोगः।
पृथिवि त्वया धृता लोका देवि त्वं विष्णुना धृता।
त्वं च धारय मां देवि पवित्रं चासनं कुरु ॥
घण्टापूजा
घण्टानादं कृत्वा।
आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्।
घण्टारवं करोम्यादौ देवताह्वानकारणम् ॥
विघ्नेश्वरपूजा
अस्मिन् हरिद्राबिम्बे श्रीविघ्नेश्वरं ध्यायामि।
आवाहयामि। आसनं समर्पयामि। पादयोः पाद्यं समर्पयामि। अर्घ्यं समर्पयामि। आचमनीयं समर्पयामि। मधुपर्कं समर्पयामि। स्नानं समर्पयामि। आचमनीयं समर्पयामि। वस्त्रं समर्पयामि। उपवीतं समर्पयामि। दिव्यपरिमलगन्धान् धारयामि। अक्षतान् समर्पयामि। पुष्पैः पूजयामि।
| सुमुखाय नमः |
| एकदन्ताय नमः |
| कपिलाय नमः |
| गजकर्णिकाय नमः |
| लम्बोदराय नमः |
| विकटाय नमः |
| विघ्नराजाय नमः |
| विनायकाय नमः |
| धूमकेतवे नमः |
| गणाध्यक्षाय नमः |
| फालचन्द्राय नमः |
| गजाननाय नमः |
| वक्रतुण्डाय नमः |
| शूर्पकर्णाय नमः |
| हेरम्बाय नमः |
| स्कन्दपूर्वजाय नमः |
| सिद्धिविनायकाय नमः |
| श्रीमहागणपतये नमः |
उपचाराः
धूपमाघ्रापयामि। दीपं दर्शयामि। निवेदयामि। कर्पूरनीराजनं दर्शयामि। समस्तोपचारपूजां समर्पयामि।
प्रार्थना
वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
इति प्रार्थ्य। प्राणायामः।
सङ्कल्पः
शुभे शोभने मुहूर्ते आद्यब्रह्मणः द्वितीयपराधे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोर्दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिके प्रभवादिषष्टिसंवत्सराणां मध्ये …… नाम संवत्सरे …… अयने …… ऋतौ …… मासे …… पक्षे …… शुभतिथौ …… वासरयुक्तायां …… नक्षत्रयुक्तायां शुभयोगशुभकरणसकलविशेषणविशिष्टायामस्यां शुभतिथौ ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेतश्रीरामचन्द्रप्रीत्यर्थं श्रीरामनवमीपुण्यकाले यावच्छक्ति ध्यानावाहनादिषोडशोपचारपूजां करिष्ये।
अप उपस्पृश्य। श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च। इति विघ्नेश्वरमुद्राम्।
कलशपूजा
कलशं गन्धपुष्पाक्षतैरभ्यर्च्य। कलशजलेन तत्तद्देवतानाम योजयेत्। पूजाद्रव्याणि आत्मानं च प्रोक्ष्य।
गङ्गे च यमुने चैव गोदावरि सरस्वति।
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥
| गङ्गायै नमः | |
| यमुनायै नमः | |
| गोदावर्यै नमः | |
| सरस्वत्यै नमः | |
| नर्मदायै नमः | |
| सिन्धवे नमः | |
| कावेर्यै नमः | पुष्पैः पूजयामि। |
शङ्खपूजा
कलशोदकेन शङ्खं पूरयेत्। शङ्खजलेन पूजोपकरणानि द्रव्याणि आत्मानं च त्रिः प्रोक्ष्य, पुनः शङ्खं पूरयेत्।
त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे।
देवैश्च पूजितः सर्वैः पाञ्चजन्य नमोऽस्तु ते ॥
आत्मपूजा
देहो देवालयः प्रोक्तो जीवो देवः सनातनः।
त्यजाम्यज्ञाननिर्मूल्यं सोऽहंभावेन पूजये ॥
पीठपूजा
| ओं सकलगुणात्मशक्तियुक्ताय योगपीठाय नमः |
| आधारशक्त्यै नमः |
| मूलप्रकृत्यै नमः |
| आदिवराहाय नमः |
| आदिकूर्माय नमः |
| अनन्ताय नमः |
| पृथिव्यै नमः |
| आदित्यादिनवग्रहदेवताभ्यो नमः |
| दशदिक्पालेभ्यो नमः |
गुरुध्यानम्
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॥
श्रीगुरुं ध्यायामि।
प्रधानपूजा
ध्यानम्
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
श्रीरामध्यानम्
विघ्नेश्वरमुद्वास्य। पूर्वाङ्गपूजां कृत्वा। श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेतश्रीरामचन्द्रं ध्यायामि।
वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे मध्ये पुष्पकमासने मणिमये वीरासने सुस्थितम्।
अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥
आवाहनम्
वामे भूमिसुता पुरश्च हनुमान् पश्चात् सुमित्रासुतः शत्रुघ्नो भरतश्च पार्श्वदलयोर्वाय्वादिकोणेषु च।
सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जांबवान् मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम् ॥
श्रीरामचन्द्रं आवाहयामि।
आसनम्
रत्नसिंहासनारूढ सर्वभूपालवन्दित।
आसनं ते मया दत्तं प्रीतिं जनयतु प्रभो ॥
श्रीरामाय नमः। आसनं समर्पयामि।
पाद्यम्
पादाङ्गुष्ठसमुद्भूतगंगापावितविष्टप।
पाद्यार्थमुदकं राम ददामि परिगृह्यताम् ॥
श्रीरामाय नमः। पाद्यं समर्पयामि।
अर्घ्यम्
वालखिल्यादिभिर्विप्रैस्त्रिसन्ध्यं प्रयतात्मभिः।
अर्घ्यैराराधित विभो ममार्घ्यं राम गृह्यताम् ॥
श्रीरामाय नमः। अर्घ्यं समर्पयामि।
आचमनीयम्
आचान्तांभोधिना राम मुनिना परिसेवित।
मया दत्तेन तोयेन कुर्वाचमनमीश्वर ॥
श्रीरामाय नमः। आचमनीयं समर्पयामि।
क्षीराभिषेकः
कामधेनुसमुद्भूतक्षीरेणेन्द्रेण राघव।
अभिषिक्ताखिलार्थाप्त्यै स्नाहि मद्दत्तदुग्धतः ॥
श्रीरामाय नमः। क्षीराभिषेकं समर्पयामि।
स्नानम्
नदीनदसमुद्रादितोयैर्मन्त्राभिसंस्कृतैः।
पट्टाभिषिक्त राजेन्द्र स्नाहि शुद्धजलेन मे ॥
श्रीरामाय नमः। स्नानं समर्पयामि।
वस्त्रम्
हित्वा पीतांबरं चीरकृष्णाजिनधराच्युत।
परिधत्स्वाद्य मे वस्त्रं स्वर्णसूत्रविनिर्मितम् ॥
श्रीरामाय नमः। वस्त्रं समर्पयामि।
उपवीतम्
राजर्षिवंशतिलक रामचन्द्र नमोऽस्तु ते।
यज्ञोपवीतं विधिना निर्मितं धत्स्व मे प्रभो ॥
श्रीरामाय नमः। उपवीतं समर्पयामि।
आभरणानि
किरीटादीनि राजेन्द्र हंसकान्तानि राघव।
विभूषणानि धृत्वाऽद्य शोभस्व सह सीतया ॥
श्रीरामाय नमः। आभरणानि समर्पयामि।
गन्धः
सन्ध्यासमानरुचिना नीलाभ्रसमविग्रह।
लिंपामि तेऽङ्गकं राम चन्दनेन मुदा हृदि ॥
श्रीरामाय नमः। गन्धान् धारयामि।
अक्षताः
अक्षतान् कुंकुमोन्मिश्रानक्षय्यफलदायक।
अर्पये तव पादाब्जे शालितण्डुलसंभवान् ॥
श्रीरामाय नमः। अक्षतान् समर्पयामि।
पुष्पाणि
चंपकाशोकपुन्नागैः जलजैस्तुलसीदलैः।
पूजयामि रघूत्तंस पूज्यं त्वां सनकादिभिः ॥
श्रीरामाय नमः। पुष्पाणि समर्पयामि।
अङ्गपूजा
| अहल्योद्धारकाय नमः | पादौ पूजयामि। |
| विनतकल्पद्रुमाय नमः | गुल्फौ पूजयामि। |
| दण्डकारण्यगमनजंघालाय नमः | जंघे पूजयामि। |
| जानुन्यस्तकरांबुजाय नमः | जानुनी पूजयामि। |
| वीरासनाध्यासिने नमः | ऊरू पूजयामि। |
| पीतांबरालंकृताय नमः | कटिं पूजयामि। |
| आकाशमध्यगाय नमः | गुह्यम् पूजयामि। |
| अब्धिमेखलापतये नमः | नाभिं पूजयामि। |
| उदरस्थितब्रह्माण्डाय नमः | उदरं पूजयामि। |
| सीतानुलेपितकाश्मीरचन्दनाय नमः | वक्षः पूजयामि। |
| अभयप्रदशौण्डाय नमः | पार्श्वौ पूजयामि। |
| ज्ञानविज्ञानभासकाय नमः | हृदयं पूजयामि। |
| दशाननकालरूपिणे नमः | स्कन्धौ पूजयामि। |
| सीताबाहुलतालिंगिताय नमः | कण्ठं पूजयामि। |
| वितरणजितकल्पद्रुमाय नमः | हस्तान् पूजयामि। |
| अरिनिग्रहपराय नमः | बाहून् पूजयामि। |
| सुमुखाय नमः | मुखम् पूजयामि। |
| अनासादितपापगन्धाय नमः | नासिकां पूजयामि। |
| पुण्डरीकाक्षाय नमः | अक्षिणी पूजयामि। |
| कपालिपूजिताय नमः | कर्णौ पूजयामि। |
| कस्तूरीतिलकांकिताय नमः | फालं पूजयामि। |
| राजाधिराजवेषाय नमः | किरीटं पूजयामि। |
| सर्वेश्वराय नमः | सर्वाण्यंगानि पूजयामि ॥ |
अष्टोत्तरशतनामार्चना
राम अष्टोत्तरशत नामावलिःपृथक्पृष्ठे पठ
- १ॐ श्रीरामाय नमः
- २ॐ रामचन्द्राय नमः
- ३ॐ रामभद्राय नमः
- ४ॐ शाश्वताय नमः
- ५ॐ राजीवलोचनाय नमः
- ६ॐ श्रीमते नमः
- ७ॐ राजेन्द्राय नमः
- ८ॐ रघुपुङ्गवाय नमः
- ९ॐ जानकीवल्लभाय नमः
- १०ॐ जैत्राय नमः
- ११ॐ जितामित्राय नमः
- १२ॐ जनार्दनाय नमः
- १३ॐ विश्वामित्रप्रियाय नमः
- १४ॐ दान्ताय नमः
- १५ॐ शरण्यत्राणतत्पराय नमः
- १६ॐ वालिप्रमथनाय नमः
- १७ॐ वाग्मिने नमः
- १८ॐ सत्यवाचे नमः
- १९ॐ सत्यविक्रमाय नमः
- २०ॐ सत्यव्रताय नमः
- २१ॐ व्रतधराय नमः
- २२ॐ सदा हनुमदाश्रयाय नमः
- २३ॐ कौसलेयाय नमः
- २४ॐ खरध्वंसिने नमः
- २५ॐ विराधवधपण्डिताय नमः
- २६ॐ विभीषणपरित्रात्रे नमः
- २७ॐ हरकोदण्डखण्डनाय नमः
- २८ॐ सप्ततालप्रभेत्त्रे नमः
- २९ॐ दशग्रीवशिरोहराय नमः
- ३०ॐ जामदग्न्यमहादर्पदलनाय नमः
- ३१ॐ ताडकान्तकृते नमः
- ३२ॐ वेदान्तपाराय नमः
- ३३ॐ वेदात्मने नमः
- ३४ॐ भवबन्धैकभेषजाय नमः
- ३५ॐ दूषणत्रिशिरोरये नमः
- ३६ॐ त्रिमूर्तये नमः
- ३७ॐ त्रिगुणाय नमः
- ३८ॐ त्रयिणे नमः
- ३९ॐ त्रिविक्रमाय नमः
- ४०ॐ त्रिलोकात्मने नमः नमः
- ४१ॐ पुण्यचारित्रकीर्तनाय नमः
- ४२ॐ त्रिलोकरक्षकाय नमः
- ४३ॐ धन्विने नमः
- ४४ॐ दण्डकारण्यवासकृते नमः
- ४५ॐ अहल्यापावनाय नमः
- ४६ॐ पितृभक्ताय नमः
- ४७ॐ वरप्रदाय नमः
- ४८ॐ जितेन्द्रियाय नमः
- ४९ॐ जितक्रोधाय नमः
- ५०ॐ जितलोभो नमः
- ५१ॐ जगद्गुरवे नमः
- ५२ॐ ऋक्षवानरसङ्घातिने नमः
- ५३ॐ चित्रकूटसमाश्रयाय नमः
- ५४ॐ जयन्तत्राणवरदाय नमः
- ५५ॐ सुमित्रापुत्रसेविताय नमः
- ५६ॐ सर्वदेवाधिदेवाय नमः
- ५७ॐ मृतवानरजीवनाय नमः
- ५८ॐ मायामारीचहन्त्रे नमः
- ५९ॐ महाभोगाय नमः
- ६०ॐ महाभुजाय नमः नमः
- ६१ॐ सर्वदेवस्तुताय नमः
- ६२ॐ सौम्याय नमः
- ६३ॐ ब्रह्मण्याय नमः
- ६४ॐ मुनिसत्तमाय नमः
- ६५ॐ महायोगाय नमः
- ६६ॐ महोदाराय नमः
- ६७ॐ सुग्रीवस्थिरराज्यदाय नमः
- ६८ॐ सर्वपुण्याधिकफलाय नमः
- ६९ॐ स्मृताय नमः
- ७०ॐ सर्वाघनाशनाय नमः
- ७१ॐ अनादये नमः
- ७२ॐ आदिपुरुषाय नमः
- ७३ॐ महापुरुषाय नमः
- ७४ॐ परमाय नमः
- ७५ॐ पुरुषाय नमः
- ७६ॐ पुण्योदयाय नमः
- ७७ॐ दयासाराय नमः
- ७८ॐ पुराणाय पुरुषोत्तमाय नमः
- ७९ॐ स्मितवक्त्राय नमः
- ८०ॐ मितभाषिणे नमः
- ८१ॐ पूर्वभाषिणे नमः
- ८२ॐ राघवाय नमः
- ८३ॐ अनन्तगुणगम्भीराय नमः
- ८४ॐ धीराय नमः
- ८५ॐ दान्तगुणोत्तमाय नमः
- ८६ॐ मायामानुषचारित्राय नमः
- ८७ॐ महादेवाभिपूजिताय नमः
- ८८ॐ सेतुकृते नमः
- ८९ॐ जितवारीशाय नमः
- ९०ॐ सर्वतीर्थमयाय नमः
- ९१ॐ हरये नमः
- ९२ॐ श्यामाङ्गाय नमः
- ९३ॐ सुन्दराय नमः
- ९४ॐ शूराय नमः
- ९५ॐ पीतवाससे नमः
- ९६ॐ धनुर्धराय नमः
- ९७ॐ सर्वयज्ञाधिपाय नमः
- ९८ॐ यज्ञाय नमः
- ९९ॐ जरामरणवर्जिताय नमः
- १००ॐ शिवलिङ्गप्रतिष्ठात्रे नमः
- १०१ॐ सर्वाघगणवर्जिताय नमः
- १०२ॐ परमात्मने नमः
- १०३ॐ परस्मै ब्रह्मणे नमः
- १०४ॐ सच्चिदानन्दविग्रहाय नमः
- १०५ॐ परस्मै ज्योतिषे नमः
- १०६ॐ परस्मै धाम्ने नमः
- १०७ॐ पराकाशाय नमः
- १०८ॐ परात्पराय नमः
- १०९ॐ परेशाय नमः
- ११०ॐ पारगाय नमः
- १११ॐ पाराय नमः
- ११२ॐ सर्वभूतात्मकाय नमः
- ११३ॐ शिवाय नमः
धूपः
दशाङ्गो गुग्गुलूपेतः सुगन्धः सुमनोहरः।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
श्रीरामाय नमः। धूपं समर्पयामि। आचमनीयं समर्पयामि।
दीपः
साज्यं त्रिवर्तिसंयुक्तं वह्निना योजितं मया।
गृहाण मङ्गलं दीपं त्रैलोक्यतिमिरापहम् ॥
श्रीरामाय नमः। दीपं समर्पयामि। आचमनीयं समर्पयामि।
नैवेद्यम्
अन्नं चतुर्विधं सूपफलभक्ष्यसमन्वितम्।
दधिमध्वाज्यसंयुक्तं नैवेद्यं प्रतिगृह्यताम् ॥
श्रीरामाय नमः। अमृतं महानैवेद्यं समर्पयामि। मध्ये मध्ये पानीयं समर्पयामि। आचमनीयं समर्पयामि।
ताम्बूलम्
पूगीफलसमायुक्तं नागवल्लीदलैर्युतम्।
कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
श्रीरामाय नमः। कर्पूरताम्बूलं समर्पयामि।
नीराजनम्
चन्द्रादित्यौ च नक्षत्रं विद्युदग्निस्त्वमेव च।
त्वमेव सर्वज्योतींषि कुर्यां नीराजनं तव ॥
श्रीरामाय नमः। सर्वमङ्गलप्राप्त्यर्थं सर्वापराधक्षमापणार्थं कर्पूरनीराजनं दर्शयामि। आचमनीयं समर्पयामि।
पुष्पाञ्जलिः
मन्दारनीलोत्पलकुन्दजातीपुन्नागमल्लीकरवीरपङ्कजैः।
पुष्पाञ्जलिं बिल्वदलैस्तुलस्या देव त्वदंघ्रौ विनिवेशयामि ॥
श्रीरामाय नमः। मन्त्रपुष्पाञ्जलिं समर्पयामि।
प्रदक्षिणनमस्काराः
यानि कानि च पापानि जन्मान्तरकृतानि च।
तानि तानि विनश्यन्ति प्रदक्षिणपदे पदे ॥
प्रकृष्टपापनाशाय प्रकृष्टफलसिद्धये।
प्रदक्षिणं करोमि त्वां प्रसीद परमेश्वर ॥
नमो नमः सुरवरपूजिताङ्घ्रये
नमो नमो निरुपममङ्गलात्मने।
नमो नमो विपुलपदैकसिद्धये
नमो नमः परमदयानिधे नमः ॥
श्रीरामाय नमः। प्रदक्षिणनमस्कारान् समर्पयामि।
प्रार्थना
ध्येयं सदा परिभवघ्नमभीष्टदोहं तीर्थास्पदं शिवविरिंचिनुतं शरण्यम्।
भृत्यार्तिहं प्रणतपाल भवाब्धिपोतं वन्दे महापुरुष ते चरणारविन्दम् ॥
त्यक्त्वा सुदुस्त्यजसुरेप्सितराज्यलक्ष्मीं धर्मिष्ठ आर्यवचसा यदगादरण्यम्।
मायामृगं दयितयेप्सितमन्वधावत् वन्दे महापुरुष ते चरणारविन्दम् ॥
श्रीरामाय नमः। नमस्कारान् समर्पयामि ॥ प्रार्थना ॥
राजोपचाराः
श्रीरामाय नमः। छत्रचामरनृत्तगीतवाद्यादिसमस्तराजोपचारान् समर्पयामि ॥
क्षीरार्घ्यप्रदानम्
पूजान्ते क्षीरार्घ्यप्रदानं करिष्ये।
राम रात्रिंचराराते क्षीरमध्वाज्यकल्पितम्।
पूजान्तेऽर्घ्यं मया दत्तं स्वीकृत्य वरदो भव ॥
इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम् ॥
प्रार्थना
नान्या स्पृहा रघुपते हृदयेऽस्मदीये सत्यं वदामि च भवानखिलान्तरात्मा।
भक्तिं प्रयच्छ रघुपुंगव निर्भरां मे कामादिदोषरहितं कुरु मानसं च ॥
समर्पणम्
अनया पूजया श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेतश्रीरामचन्द्रः प्रीयताम्।
ओं तत्सत् ब्रह्मार्पणमस्तु ॥