ध्यानश्लोकः
सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुर-
त्तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् ।
पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं
सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्परामम्बिकाम् ॥
- १ॐ ऐं ह्रीं श्रीं रजताचलशृङ्गाग्रमध्यस्थायै नमो नमः
- २ॐ ऐं ह्रीं श्रीं हिमाचलमहावंशपावनायै नमो नमः
- ३ॐ ऐं ह्रीं श्रीं शङ्करार्धाङ्गसौन्दर्यशरीरायै नमो नमः
- ४ॐ ऐं ह्रीं श्रीं लसन्मरकतस्वच्छविग्रहायै नमो नमः
- ५ॐ ऐं ह्रीं श्रीं महातिशयसौन्दर्यलावण्यायै नमो नमः
- ६ॐ ऐं ह्रीं श्रीं शशाङ्कशेखरप्राणवल्लभायै नमो नमः
- ७ॐ ऐं ह्रीं श्रीं सदापञ्चदशात्मैक्यस्वरूपायै नमो नमः
- ८ॐ ऐं ह्रीं श्रीं वज्रमाणिक्यकटककिरीटायै नमो नमः
- ९ॐ ऐं ह्रीं श्रीं कस्तूरीतिलकोल्लासितनिटलायै नमो नमः
- १०ॐ ऐं ह्रीं श्रीं भस्मरेखाङ्कितलसन्मस्तकायै नमो नमः
- ११ॐ ऐं ह्रीं श्रीं विकचाम्भोरुहदललोचनायै नमो नमः
- १२ॐ ऐं ह्रीं श्रीं शरच्चाम्पेयपुष्पाभनासिकायै नमो नमः
- १३ॐ ऐं ह्रीं श्रीं लसत्काञ्चनताटङ्कयुगलायै नमो नमः
- १४ॐ ऐं ह्रीं श्रीं मणिदर्पणसङ्काशकपोलायै नमो नमः
- १५ॐ ऐं ह्रीं श्रीं ताम्बूलपूरितस्मेरवदनायै नमो नमः
- १६ॐ ऐं ह्रीं श्रीं सुपक्वदाडिमीबीजरदनायै नमो नमः
- १७ॐ ऐं ह्रीं श्रीं कम्बुपूगसमच्छायकन्धरायै नमो नमः
- १८ॐ ऐं ह्रीं श्रीं स्थूलमुक्ताफलोदारसुहारायै नमो नमः
- १९ॐ ऐं ह्रीं श्रीं गिरीशबद्धमाङ्गल्यमङ्गलायै नमो नमः
- २०ॐ ऐं ह्रीं श्रीं पद्मपाशाङ्कुशलसत्कराब्जायै नमो नमः
- २१ॐ ऐं ह्रीं श्रीं पद्मकैरवमन्दारसुमालिन्यै नमो नमः
- २२ॐ ऐं ह्रीं श्रीं सुवर्णकुम्भयुग्माभसुकुचायै नमो नमः
- २३ॐ ऐं ह्रीं श्रीं रमणीयचतुर्बाहुसंयुक्तायै नमो नमः
- २४ॐ ऐं ह्रीं श्रीं कनकाङ्गदकेयूरभूषितायै नमो नमः
- २५ॐ ऐं ह्रीं श्रीं बृहत्सौवर्णसौन्दर्यवसनायै नमो नमः
- २६ॐ ऐं ह्रीं श्रीं बृहन्नितम्बविलसज्जघनायै नमो नमः
- २७ॐ ऐं ह्रीं श्रीं सौभाग्यजातशृङ्गारमध्यमायै नमो नमः
- २८ॐ ऐं ह्रीं श्रीं दिव्यभूषणसन्दोहरञ्जितायै नमो नमः
- २९ॐ ऐं ह्रीं श्रीं पारिजातगुणाधिक्यपदाब्जायै नमो नमः
- ३०ॐ ऐं ह्रीं श्रीं सुपद्मरागसङ्काशचरणायै नमो नमः
- ३१ॐ ऐं ह्रीं श्रीं कामकोटिमहापद्मपीठस्थायै नमो नमः
- ३२ॐ ऐं ह्रीं श्रीं श्रीकण्ठनेत्रकुमुदचन्द्रिकायै नमो नमः
- ३३ॐ ऐं ह्रीं श्रीं सचामररमावाणीवीजितायै नमो नमः
- ३४ॐ ऐं ह्रीं श्रीं भक्तरक्षणदाक्षिण्यकटाक्षायै नमो नमः
- ३५ॐ ऐं ह्रीं श्रीं भूतेशालिङ्गनोद्भूतपुलकाङ्ग्यै नमो नमः
- ३६ॐ ऐं ह्रीं श्रीं अनङ्गजनकापाङ्गवीक्षणायै नमो नमः
- ३७ॐ ऐं ह्रीं श्रीं ब्रह्मोपेन्द्रशिरोरत्नरञ्जितायै नमो नमः
- ३८ॐ ऐं ह्रीं श्रीं शचीमुख्यामरवधूसेवितायै नमो नमः
- ३९ॐ ऐं ह्रीं श्रीं लीलाकल्पितब्रह्माण्डमण्डलायै नमो नमः
- ४०ॐ ऐं ह्रीं श्रीं अमृतादिमहाशक्तिसंवृतायै नमो नमः
- ४१ॐ ऐं ह्रीं श्रीं एकातपत्रसाम्राज्यदायिकायै नमो नमः
- ४२ॐ ऐं ह्रीं श्रीं सनकादिसमाराध्यपादुकायै नमो नमः
- ४३ॐ ऐं ह्रीं श्रीं देवर्षिभिः स्तूयमानवैभवायै नमो नमः
- ४४ॐ ऐं ह्रीं श्रीं कलशोद्भवदुर्वासपूजितायै नमो नमः
- ४५ॐ ऐं ह्रीं श्रीं मत्तेभवक्त्रषड्वक्त्रवत्सलायै नमो नमः
- ४६ॐ ऐं ह्रीं श्रीं चक्रराजमहायन्त्रमध्यवर्त्यै नमो नमः
- ४७ॐ ऐं ह्रीं श्रीं चिदग्निकुण्डसम्भूतसुदेहायै नमो नमः
- ४८ॐ ऐं ह्रीं श्रीं शशाङ्कखण्डसंयुक्तमकुटायै नमो नमः
- ४९ॐ ऐं ह्रीं श्रीं मत्तहंसवधूमन्दगमनायै नमो नमः
- ५०ॐ ऐं ह्रीं श्रीं वन्दारुजनसन्दोहवन्दितायै नमो नमः
- ५१ॐ ऐं ह्रीं श्रीं अन्तर्मुखजनानन्दफलदायै नमो नमः
- ५२ॐ ऐं ह्रीं श्रीं पतिव्रताङ्गनाभीष्टफलदायै नमो नमः
- ५३ॐ ऐं ह्रीं श्रीं अव्याजकरुणापूरपूरितायै नमो नमः
- ५४ॐ ऐं ह्रीं श्रीं नितान्तसच्चिदानन्दसंयुक्तायै नमो नमः
- ५५ॐ ऐं ह्रीं श्रीं सहस्रसूर्यसंयुक्तप्रकाशायै नमो नमः
- ५६ॐ ऐं ह्रीं श्रीं रत्नचिन्तामणिगृहमध्यस्थायै नमो नमः
- ५७ॐ ऐं ह्रीं श्रीं हानिवृद्धिगुणाधिक्यरहितायै नमो नमः
- ५८ॐ ऐं ह्रीं श्रीं महापद्माटवीमध्यनिवासायै नमो नमः
- ५९ॐ ऐं ह्रीं श्रीं जाग्रत्स्वप्नसुषुप्तीनां साक्षिभूत्यै नमो नमः
- ६०ॐ ऐं ह्रीं श्रीं महापापौघपापानां विनाशिन्यै नमो नमः
- ६१ॐ ऐं ह्रीं श्रीं दुष्टभीतिमहाभीतिभञ्जनायै नमो नमः
- ६२ॐ ऐं ह्रीं श्रीं समस्तदेवदनुजप्रेरकायै नमो नमः
- ६३ॐ ऐं ह्रीं श्रीं समस्तहृदयाम्भोजनिलयायै नमो नमः
- ६४ॐ ऐं ह्रीं श्रीं अनाहतमहापद्ममन्दिरायै नमो नमः
- ६५ॐ ऐं ह्रीं श्रीं सहस्रारसरोजातवासितायै नमो नमः
- ६६ॐ ऐं ह्रीं श्रीं पुनरावृत्तिरहितपुरस्थायै नमो नमः
- ६७ॐ ऐं ह्रीं श्रीं वाणीगायत्रीसावित्रीसन्नुतायै नमो नमः
- ६८ॐ ऐं ह्रीं श्रीं रमाभूमिसुताराध्यपदाब्जायै नमो नमः
- ६९ॐ ऐं ह्रीं श्रीं लोपामुद्रार्चितश्रीमच्चरणायै नमो नमः
- ७०ॐ ऐं ह्रीं श्रीं सहस्ररतिसौन्दर्यशरीरायै नमो नमः
- ७१ॐ ऐं ह्रीं श्रीं भावनामात्रसन्तुष्टहृदयायै नमो नमः
- ७२ॐ ऐं ह्रीं श्रीं सत्यसम्पूर्णविज्ञानसिद्धिदायै नमो नमः
- ७३ॐ ऐं ह्रीं श्रीं श्रीलोचनकृतोल्लासफलदायै नमो नमः
- ७४ॐ ऐं ह्रीं श्रीं श्रीसुधाब्धिमणिद्वीपमध्यगायै नमो नमः
- ७५ॐ ऐं ह्रीं श्रीं दक्षाध्वरविनिर्भेदसाधनायै नमो नमः
- ७६ॐ ऐं ह्रीं श्रीं श्रीनाथसोदरीभूतशोभितायै नमो नमः
- ७७ॐ ऐं ह्रीं श्रीं चन्द्रशेखरभक्तार्तिभञ्जनायै नमो नमः
- ७८ॐ ऐं ह्रीं श्रीं सर्वोपाधिविनिर्मुक्तचैतन्यायै नमो नमः
- ७९ॐ ऐं ह्रीं श्रीं नामपारायणाभीष्टफलदायै नमो नमः
- ८०ॐ ऐं ह्रीं श्रीं सृष्टिस्थितितिरोधानसङ्कल्पायै नमो नमः
- ८१ॐ ऐं ह्रीं श्रीं श्रीषोडशाक्षरीमन्त्रमध्यगायै नमो नमः
- ८२ॐ ऐं ह्रीं श्रीं अनाद्यन्तस्वयम्भूतदिव्यमूर्त्यै नमो नमः
- ८३ॐ ऐं ह्रीं श्रीं भक्तहंसपरीमुख्यवियोगायै नमो नमः
- ८४ॐ ऐं ह्रीं श्रीं मातृमण्डलसंयुक्तललितायै नमो नमः
- ८५ॐ ऐं ह्रीं श्रीं भण्डदैत्यमहासत्त्वनाशनायै नमो नमः
- ८६ॐ ऐं ह्रीं श्रीं क्रूरभण्डशिरश्छेदनिपुणायै नमो नमः
- ८७ॐ ऐं ह्रीं श्रीं धात्र्यच्युतसुराधीशसुखदायै नमो नमः
- ८८ॐ ऐं ह्रीं श्रीं चण्डमुण्डनिशुम्भादिखण्डनायै नमो नमः
- ८९ॐ ऐं ह्रीं श्रीं रक्ताक्षरक्तजिह्वादिशिक्षणायै नमो नमः
- ९०ॐ ऐं ह्रीं श्रीं महिषासुरदोर्वीर्यनिग्रहायै नमो नमः
- ९१ॐ ऐं ह्रीं श्रीं अभ्रकेशमहोत्साहकारणायै नमो नमः
- ९२ॐ ऐं ह्रीं श्रीं महेशयुक्तनटनतत्परायै नमो नमः
- ९३ॐ ऐं ह्रीं श्रीं निजभर्तृमुखाम्भोजचिन्तनायै नमो नमः
- ९४ॐ ऐं ह्रीं श्रीं वृषभध्वजविज्ञानभावनायै नमो नमः
- ९५ॐ ऐं ह्रीं श्रीं जन्ममृत्युजरारोगभञ्जनायै नमो नमः
- ९६ॐ ऐं ह्रीं श्रीं विदेहमुक्तविज्ञानसिद्धिदायै नमो नमः
- ९७ॐ ऐं ह्रीं श्रीं कामक्रोधादिषड्वर्गनाशनायै नमो नमः
- ९८ॐ ऐं ह्रीं श्रीं राजराजार्चितपदसरोजायै नमो नमः
- ९९ॐ ऐं ह्रीं श्रीं सर्ववेदान्तसंसिद्धसुतत्त्वायै नमो नमः
- १००ॐ ऐं ह्रीं श्रीं श्रीवीरभक्तविज्ञाननिधानायै नमो नमः
- १०१ॐ ऐं ह्रीं श्रीं अशेषदुष्टदनुजसूदनायै नमो नमः
- १०२ॐ ऐं ह्रीं श्रीं साक्षाच्छ्रीदक्षिणामूर्तिमनोज्ञायै नमो नमः
- १०३ॐ ऐं ह्रीं श्रीं हयमेधाग्रसम्पूज्यमहिमायै नमो नमः
- १०४ॐ ऐं ह्रीं श्रीं दक्षप्रजापतिसुतवेषाढ्यायै नमो नमः
- १०५ॐ ऐं ह्रीं श्रीं सुमबाणेक्षुकोदण्डमण्डितायै नमो नमः
- १०६ॐ ऐं ह्रीं श्रीं नित्ययौवनमाङ्गल्यमङ्गलायै नमो नमः
- १०७ॐ ऐं ह्रीं श्रीं महादेवसमायुक्तशरीरायै नमो नमः
- १०८ॐ ऐं ह्रीं श्रीं महादेवरतोत्सुकमहादेव्यै नमो नमः
इति श्रीललिताष्टोत्तरशतनामावलिः सम्पूर्णा