मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

अर्धनारीश्वर-अष्टकम्

3

श्रीशङ्करभगवत्पादकृतम्

चाम्पेयगौरार्ध-शरीरकायै

कर्पूरगौरार्ध-शरीरकाय ।

धम्मिल्लकायै च जटाधराय

नमः शिवायै च नमः शिवाय ॥

॥१॥

कस्तूरिकाकुङ्कुमचर्चितायै

चितारजःपुञ्जविचर्चिताय ।

कृतस्मरायै विकृतस्मराय

नमः शिवायै च नमः शिवाय ॥

॥२॥

झणत्क्वणत्कङ्कण-नूपुरायै

पादाब्जराजत्-फणिनूपुराय ।

हेमाङ्गदायै च भुजङ्गदाय

नमः शिवायै च नमः शिवाय ॥

॥३॥

विशालनीलोत्पललोचनायै

विकासिपङ्केरुहलोचनाय ।

समेक्षणायै विषमेक्षणाय

नमः शिवायै च नमः शिवाय ॥

॥४॥

मन्दारमालाकलितालकायै

कपालमालाङ्कितकन्धराय ।

दिव्याम्बरायै च दिगम्बराय

नमः शिवायै च नमः शिवाय ॥

॥५॥

अम्भोधरश्यामलकुन्तलायै

तटित्प्रभाताम्रजटाधराय ।

निरीश्वरायै निखिलेश्वराय

नमः शिवायै च नमः शिवाय ॥

॥६॥

प्रपञ्चसृष्ट्युन्मुखलास्यकायै

समस्तसंहारकताण्डवाय ।

जगज्जनन्यै जगदेकपित्रे

नमः शिवायै च नमः शिवाय ॥

॥७॥

प्रदीप्तरत्नोज्ज्वलकुण्डलायै

स्फुरन्महापन्नगभूषणाय ।

शिवान्वितायै च शिवान्विताय

नमः शिवायै च नमः शिवाय ॥

॥८॥

एतत्पठेदष्टकमिष्टदं यो

भक्त्या स मान्यो भुवि दीर्घजीवी ।

प्राप्नोति सौभाग्यमनन्तकालं

भूयात् सदा तस्य समस्तसिद्धिः ॥

॥९॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री-अर्धनारीश्वराष्टकं सम्पूर्णम्