मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिष्यप्रतिबोधविधिप्रकरणम्

3
उपदेशसाहस्री · गद्यबन्धः · 1

श्रीशङ्करभगवत्पादकृता

अथ मोक्षसाधनोपदेशविधिं व्याख्यास्यामो मुमुक्षूणां श्रद्दधानानामर्थिनामर्थाय ॥

॥१॥

तदिदं मोक्षसाधनं ज्ञानं साधनसाध्यादनित्यात् सर्वस्माद् विरक्ताय त्यक्तपुत्रवित्तलोकैषणाय प्रतिपन्नपरमहंसपारिव्राज्याय शमदमदयादियुक्ताय शास्त्रप्रसिद्धशिष्यगुणसम्पन्नाय शुचये ब्राह्मणाय विधिवदुपसन्नाय शिष्याय जातिकर्मवृत्तविद्याधिजनैः परीक्षिताय ब्रूयात् पुनः पुनर्यावद् ग्रहणं दृढीभवति ॥

॥२॥

श्रुतिश्च -- ‘परीक्ष्य ... तत्त्वतो ब्रह्मविद्यां’ इति । दृढगृहीता हि विद्यात्मनः श्रेयसे सन्तत्यै च भवति । विद्यासन्ततैश्च प्राण्यनुग्रहाय भवति नौरिव नदीं तितीर्षोः । शास्त्रं च -- ‘यद्यपि अस्मा इमामद्भिः परिगृहीतां धनस्य पूर्णां दद्यादेतदेव ततो भूयः’ इति । अन्यथा च ज्ञानप्राप्त्यभावात् -- ‘आचार्यवान् पुरुषो वेद’ ‘ आचार्याद् धैव विद्या विदिता (साधिष्ठं प्रापत्)’ ‘आचार्यः प्लावयिता तस्य (सम्यग्) ज्ञानं प्लव इहोच्यते’ इत्यादिश्रुतिभ्यः स्मृतिभ्यश्च ॥

॥३॥

शिष्यस्य ज्ञानग्रहणं च लिन्गैर्बुद्ध्वा तदग्रहणहेतूनधर्मलौकिकप्रमादनित्यानित्य(वस्तु) विवेकविषयासंजातदृढपूर्वश्रुतत्वलोकचिन्तावेक्षणजात्याद्यभिमानादींस्तत् प्रतिपक्षैः श्रुतिस्मृतिविहितैरपनयेदक्रोधादिभिरहिंसादिभिश्च यमैर्ज्ञानाविरुद्धैश्च नियमैः ॥

॥४॥

अमानित्वादिगुणं च ज्ञानोपायं सम्यग् ग्राहयेत् ॥

॥५॥

आचार्याश्चोहापोहग्रहणधारणशमदमदयानुग्रहादिसम्पन्नो लब्धागमो दृष्टादृष्टभोगेष्वनासक्तस्त्यक्तसर्वकर्मसाधनो ब्रह्मविद् ब्रह्मणि स्थितोऽभिन्नवृत्तो दम्भदर्पकुहकशाठ्यमायामात्सर्यानृताहंकारममत्वादिदोषवर्जितः केवलपरानुग्रहप्रयोजनो विद्योपयोगार्थी पूर्वमुपदिशेत् -- ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं’ ‘यत्र नान्यत् पश्यति’ ‘आत्मा वा इदमेक एवाग्र आसीत्’ ‘सर्वं खल्विदं ब्रह्म’ इत्य्(आद्यः) आत्मैकत्वप्रतिपादनपराः श्रुतीः ॥

॥६॥

उपदिश्य च ग्राहयेद् ब्रह्मणो लक्षणं -- ‘य आत्मापहतपाप्मा’ ‘ यत् साक्षादपरोक्षाद् ब्रह्म’ ‘योऽनात्म्ये’ ‘स वा एषः’ ‘ अप्राणो ह्यमनाः’ ‘सबाह्याभ्यन्तरो ह्यजः’ ‘विज्ञानघन एव’ ‘अनन्तरमबाह्यं’ ‘अन्यदेव तद् विदितादथो अविदितात्’ ‘आकाशो वै नाम’ इत्यादिश्रुतिभिः ॥

॥७॥

स्मृतिभिश्च -- ‘न जायते म्रियते वा’ ‘नादत्ते कस्यचित् पापं’ ‘यथाकाशस्थितो नित्यं’ ‘क्षेत्रज्ञां चापि मां विद्धि’ ‘न सत् तन् नासदुच्यते’ ‘अनादित्वान् निर्गुणत्वात्’ ‘समं सर्वेषु भूतेषु’ ‘उत्तमः पुरुषः’ इत्यादिभिः श्रुत्युक्तलक्षणाविरुद्धाभिः परमात्मासंसारित्वप्रतिपादनपराभिः तस्य सर्वेणानन्यत्वप्रतिपादनपराभिश्च ॥

॥८॥

एवं श्रुतिस्मृतिभिर्गृहितपरमात्मलक्षणं शिष्यं संसारसागरादुत्तितीषुं पृच्छेत् -- कस्त्वमसि सोम्येति ॥

॥९॥

स यदि ब्रूयात् -- ब्राह्मणपुत्रोऽदोन्वयो ब्रह्मचार्यासं गृहस्थो वेदानीमस्मि परमहंसपरिव्राट् संसारसागराज् जन्ममृत्युमहाग्रहादुत्तितीषुरिति ॥

॥१०॥

आचार्यो ब्रूयाद् -- इहैव ते सोम्य मृतस्य शरीरं वयोभिरद्यते मृद्भावं वापद्यते तत्र कथं संसारसागरादत्तर्तुमिच्छसीति ॥

॥११॥

स यदि ब्रूयात् -- अन्योऽहं शरीरात् । शरीरं तु जायते म्रियते वयोभिरद्यते मृद्भावमापद्यते शस्त्राग्न्यादिभिश् च विनाश्यते व्याध्याधिभिश्च युज्यते । तस्मिन्नहं स्वस्वकृतधर्माधर्मवशात् पक्षी नीदमिव प्रविष्टः पुनः पुनः शरीरविनाशे धर्माधर्मवशाच्छरीरान्तरं यास्यामि पूर्वनीडविनाशे पक्षीव नीडान्तरम् । एवमेवाहमनादौ संसारे देवतिर्यञ्मनुष्यनिरयस्थानेषु स्वकर्मवशादुपात्तं शरीरं त्यजन् नवं नवं चान्यदुपाददानो जन्ममरणप्रबन्धचक्रे घटीयन्त्रवत् स्वकर्मणा भ्राम्यमाणः क्रमेणेदं शरीरमासाद्य संसारचक्रभ्रमणादस्मान् निर्विण्णो भगवन्तमुपसन्नोऽस्मि संसारचक्रभ्रमणप्रशमायेति । तस्मान् नित्य एवाहं शरीरादन्यः । शरीराण्यागच्छन्त्यपगच्छन्ति च वासांषीव पुरुषस्येति ॥

॥१२॥

आचार्यो ब्रूयात् -- साध्ववाधीः सम्यक् पश्यसि । कथं मृषावाधीः ब्राह्मणपुत्रोऽदोन्वयो ब्रह्मचर्यासं गृहस्थो वा इदानीमस्मि परमहंसपरिव्राडिति ॥

॥१३॥

स यदि ब्रूयात् -- भगवन्, कथमहं मृषावादिषमिति ॥

॥१४॥

तं प्रति ब्रूयादाचार्यः -- यतस्त्वं भिन्नजात्यन्वयसंस्कारं शरीरं जात्यन्वयसंस्कारवर्जितस्यात्मनः प्रत्यज्ञासीर्ब्राह्मणपुत्रोऽदोन्वय इत्यादिना वाक्येनेति ॥

॥१५॥

स यदि पृच्छेत् -- शृणु सोम्य यथेदं शरीरं त्वत्तो भिन्नं भिन्नजात्यन्वयसंस्कारं त्वं च जात्यन्वयसंस्कारवर्जित इत्युक्त्वा तं स्मारयेत् -- स्मर्तुमर्हसि सोम्य परमात्मानं सर्वात्मानं यथोक्तलक्षणं श्रावितोऽसि ‘सदेव सोम्येदं’ इत्यादि(भिः) श्रुतिभिः स्मृतिभिश्च । लक्षणं च तस्य श्रुतिभिः स्मृतिभिश्च ॥

॥१७॥

लब्धपरमात्मलक्षणस्मृतये ब्रूयात् -- योऽसावाकाशनामा नामरूपाभ्यामर्थान्तरभूतोऽशरीरोऽस्थूलादिलक्षणोऽपहतपाप्मत्वादिलक्षण् अश्च सर्वैः संसारधर्मैरनागन्धितः ‘यत् साक्षादपरोक्षाद् ब्रह्म ... एष त आत्मा सर्वान्तरः’ ‘अदृष्टो द्रष्टा अश्रुतः श्रोता अमतो मन्ता अविज्ञातो विज्ञाता’ नित्यविज्ञानस्वरूपोऽनन्तरोऽबाह्यः ‘ विज्ञानघन एव’ परिपूर्ण आकाशवतनन्तशक्तिः आत्मा सर्वस्य, अशनायादिवर्जितः, आविर्भावतिरोभाववर्जितश्च स्वात्मविलक्षणयोर्नामरूपयोर्जगद्बीजभूतयोः स्वात्मस्थयोः तत्त्वान्यत्वाभ्यामनिर्वचनीययोः स्वसंवेद्ययोः सद्भावमात्रेणाचिन्त्यशक्तित्वाद् व्याकर्ताव्याकृतयोः ॥

॥१८॥

ते नामरूपेऽव्याकृते सति व्याक्रियमाणे तस्मादेतस्मादात्मन आकाशनामाकृती संवृत्ते । तच् चाकाशाख्यं भूतमनेन प्रकारेण परमात्मनः सम्भूतं प्रसन्नात् सलिलान् मलमिव फेनम् । न सलिलं न च सलिलादत्यन्तभिन्नं फेनम् । सलिलव्यतिरेकेणदर्शनात् । सलिलं तु स्वच्छमन्यत् फेनान् मलरूपात् । एवं परमात्मा नामरूपाभ्यामन्यः फेनास्थानीयाभ्यां शुद्धः प्रसन्नस्तद्विलक्षणः । ते नामरूपेऽव्याकृते सती व्याक्रियमाणे फेनस्थानीये आकाशनामाकृती संवृत्ते ॥

॥१९॥

ततोऽपि स्थूलभावमापद्यमाने नामरूपे व्याक्रियमाणे वायुभावमापद्येते ततोऽप्यग्निभावमग्नेरभावं ततः पृथ्वीभावमित्येवंक्रमेण पूर्वपूर्वो(त्तरो) त्तरानुप्रवेशेन पञ्चमहाभूतानि पृथिव्यन्तान्युत्पन्नानि । ततः पञ्चमहाभूतगुणविशिष्टा पृथ्(इ) वी । पृथ्(इ) व्याश्च पञ्चात्मक्यो व्रीहियवाद्या ओषधयो जायन्ते । ताभ्यो भक्षिताभ्यो लोहितं शुक्रं च स्त्रीपुंसशरीरसंबन्धि जायते । तदुभयं ऋतुकालेऽविद्याप्रयुक्तकामखजनिर्मथनोद्भूतं मन्त्रसंस्कृतं गर्भाशये निषिच्यते । तत् स्वयोनिरसानुप्रवेशेन विवर्धमानं गर्भीभूतं दशमे नवमे वा मासि सञ्जायते ॥

॥२०॥

तज्जातं लब्धनामाकृतिकं जातकर्मादिभिर्मन्त्रसंस्कृतं पुनरुपनयनसंस्कारयोगेन गृहस्थसंज्ञं भवति । तदेव शरीरं पत्नीसंयोगसंस्कारयोगेन गृहस्थसंज्ञं भवति । तदेव वनस्थसंस्कारेण तापससंज्ञं भवति । तदेव क्रियाविनिवृत्तिनिमित्तसंस्कारेण परिव्राट्संज्ञं भवति । इत्येवं त्वत्तो भिन्नं भिन्नजात्यन्वयसंस्कारं शरीरम् ॥

॥२१॥

मनश्चेन्द्रियाणि च नामरूपात्मकान्येव ‘अन्नमयं हि सोम्य मनः’ इत्यादिश्रुतिभ्यः ॥

॥२२॥

कथं चाहं भिन्नजात्यन्वयसंस्कारवर्जित इत्येतच्छृणु । योऽसौ नामरूपयोर्व्याकर्ता नामरूपधर्मविलक्षणः स एव नामरूपे व्याकुर्वन् सृष्ट्वेदं शरीरं स्वयं संस्कारधर्मवर्जितो नामरूप इह प्रविष्टोऽन्यैरदृष्टः स्वयं पश्यंस्तथाऽश्रुतः शृण्वन्नमतो मन्वानोऽविज्ञातो विजानं -- ‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन् यदास्ते’ इति । अस्मिन्नर्थे श्रुतयः सहस्रशः ‘तत् सृष्ट्वा तदेवानुप्राविशत्’ ‘अन्तः प्रविष्टः शास्ता जनानां’ ‘स एष इह प्रविष्टः’ ‘एष त आत्मा’ ‘स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत’ ‘एष सर्वेषु भूतेषु गूढोऽत्मा’ ‘सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवताः’ ‘अशरीरं शरीरेषु’ इत्याद्याः ॥

॥२३॥

स्मृतयोऽपि ‘आत्मैव देवताः सर्वाः’ ‘नवद्वारे पुरे देही’ ‘ क्षेत्रज्ञं चापि मां विद्धि’ ‘समं सर्वेषु भूतेषु’ ‘ उपद्रष्टानुमन्ता च’ ‘उत्तमः पुरुषस्त्वन्यः’ इत्याद्याः । तस्माज् जात्यन्वयसंस्कारवर्जितस्त्वमिति सिद्धम् ॥

॥२४॥

स यदि ब्रूयात् -- अन्य एवाहमज्ञः सुखी दुःखी बद्धः संसारी, अन्योऽसौ मद्विलक्षणोऽसंसारी देवः, तमहं बल्युपहारनमस्कारादिभिर्वर्णश्रमकर्मभिश्चाराध्य संसारसागरादुत्तितीर्षुरस्मि कथमहं स एवेति ॥

॥२५॥

आचार्यो ब्रूयात् -- नैवं सोम्य प्रतिपत्तुमर्हसि प्रतिषिद्धत्वाद् भेदप्रतिपत्तेः । कथं प्रतिषिद्धा भेदप्रतिपत्तिरित्यत आह -- ‘ अन्योऽसावन्योऽहमस्मीति न स वेद’ ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ इत्येवमाद्याः ॥

॥२६॥

एता एव श्रुतयो भेदप्रतिपत्तेः संसारगमनं दर्शयन्ति ॥

॥२७॥

अभेदप्रतिपत्तेश्च मोक्षं दर्शयन्ति सहस्रशः -- ‘स आत्मा तत् त्वमसि’ इति परमात्मभावं विधाय ‘आचार्यवान् पुरुषो वेद’ इत्युक्त्वा ‘तस्य तावदेव चिरं’ इति मोक्षं दर्शयन्त्यभेदविज्ञानादेव सत्यसन्धस्यातस्करस्येव दाहाद्यभावदृष्टान्तेन संसाराभावं दर्शयन्ति भेददर्शनादसत्याभिसन्धस्य संसारगमनं दर्शयन्ति तस्करस्येव दाहादिदृष्टान्तेन ॥

॥२८॥

‘त इह व्याघ्रो वा’ इत्यादिना चाभेददर्शनात् ‘(स) स्वराड् भवति’ इत्युक्त्वा तद्विपईतेन भेददर्शनेन संसारगमनं दर्शयन्ति -- ‘अथ येऽन्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति’ इति प्रतिशाखम् । तस्मान् मृषैवावादीः -- ब्राह्मणपुत्रोऽदोन्वयः संसारी परमात्मविलक्षण इति ॥

॥२९॥

तस्मात् प्रतिसिद्धत्वात् भेददर्शनस्य भेदविषयत्वाच् च कर्मोपादानस्य, कर्मसाधनत्वाच् च यज्ञोपवीतादेः कर्मसाधनोपादानस्य परमात्माभेदप्रतिपत्त्या प्रतिषेधः कृतो वेदितव्यः । कर्मणां तत्साधनानां च यज्ञोपवीतादीनां परमात्माभेदप्रतिपत्तिविरुद्धत्वात् । संसारिणो हि कर्माणि विधीयन्ते तत्साधनानि च यज्ञोपवीतादीनि न परमात्मनोऽभेददर्शिनः । भेददर्शनमात्रेण च ततोऽन्यत्वम् ॥

॥३०॥

यदि च कर्माणि कर्तव्यानि न निवर्तयिषितानि कर्मसाधनासम्बन्धिनः कर्मनिमित्तजात्याश्रमाद्यसम्बन्धिनश्च परमात्मन आत्मनैवाभेदप्रतिपत्तिं नावक्ष्यत् ‘स आत्मा तत् त्वमसि’ इत्येवमादिभिर्निश्चितरूपैर्वाक्यैर्भेदप्रतिपत्तिनिन्दां च नाभ्यधास्यत् ‘ एष नित्यो महिमा ब्राह्मणस्य’ ‘अनन्वागतं पुण्येनानन्वागतं पापेन’ ‘अत्र स्तेनोऽस्तेन’ इत्यादिना ॥

॥३१॥

कर्मासम्बन्धरूपत्वं कर्मनिमित्तवर्णाद्यसम्बन्धरूपतां (च) नाभ्यधास्यत् कर्माणि (च) कर्मसाधनानि (च) यज्ञोपवीतादीनि यद्यपरितित्याजयिषितानि । तस्मात् ससाधनं कर्म परित्यक्तव्यं मुमुक्षुणा परमात्माभेददर्शनविरोधात् । आत्मा च पर एवेति प्रतिपत्तव्यो यथाश्रुत्युक्तलक्षणः ॥

॥३२॥

स यदि ब्रूयात् -- भगव्न् दह्यमाने छिद्यमाने वा देहे प्रत्यक्षा वेदना, अशनायादिनिमित्तं च प्रत्यक्षं दुःखं मम । परश्चात्मा ‘अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः’ सर्वसंसारधर्मविवर्जितः श्रूयते सर्वश्रुतिषु स्मृतिषु च । कथं तद्विलक्षणोऽनेकसंसारधर्मसंयुक्तः परमात्मानमात्मत्वेन मां च संसारिणं परमात्मत्वेनाग्निमिव शीतत्वेन प्रतिपद्येयम् । संसारि च सन् सर्वाभ्युदयनिःश्रेयससाधनेऽधिकृतोऽभ्युदयनिःश्रेयससाधनानि कर्माणि तत्साधननानि च यज्ञोपवीतादीनि कथं परियजेयमिति ॥

॥३३॥

तं प्रति ब्रूयात् -- यदवोचो दह्यमाने वा देहे प्रत्यक्षा वेदनोपलभ्यते ममेति तदसत् । कस्मात् । दह्यमाने छिद्यमान इव वृक्ष उपलब्धुरुपलभ्यमाने कर्मणि शरीरे दाहच्छेदवेदनाया उपलभ्यमानत्वाद् दाहादिसमानाश्रयैव वेदना । यत्र हि दाहः छेदो वा क्रियते तत्रैव व्यपदिशति दाहादिवेदनां लोको न दाहाद्युपलब्धरीति । कथम् । क्व ते वेदनेति पृष्टः शिरसि मे वेदनोरस्युदर इति यत्र दाहादिस्तत्र व्यपदिशति नोपलब्धरीति । यद्युपलब्धरि वेदना स्याद् वेदनानिमित्तं वा दाहच्छेदादि वेदनाश्रयत्वेनोपदिशेद् दाहाद्याश्रयवत् ॥

॥३४॥

स्वयं च नोपलभ्येत चक्षुर्गतरूपवत् । तस्माद् दाहच्छेदादिसमानाश्रयत्वेनोपलभ्यमानत्वाद् दाहादिवत् कर्मभूतैव वेदना । भावरूपत्वाच् च साश्रया तण्डुलपाकवत् । वेदनासमानाश्रय एव तत्संस्कारः । स्मृतिसमानकाल एवोपलभ्यमानत्वात् । वेदनाविषयस्तन्निमित्तविषयश्च द्वेषोऽपि संस्कारसमानाश्रय एव । तथा चोक्तं -- ‘रूपसंस्कारतुल्याधि रागद्वेषौ भयं च यत् । गृह्यते धीश्रयं तस्माज् ज्ञाता शुद्धोऽभयः सदा’ ॥

॥३५॥

किमाश्रयः पुना रूपादिसंस्कारादय इति । उच्यते । यत्र कामादयः । क्व पुनस्ते कामादयः । ‘कामः सङ्कल्पो विचिकित्सा’ इत्यादिश्रुतेर्बुद्धावेव । तत्रैव रूपादिसंस्कारादयोऽपि ‘कस्मिन् नु रूपाणि प्रतिष्ठितानीति हृदये’ इति श्रुतेः । ‘कामा येऽस्य हृदि श्रिताः’ ‘तीर्णो हि’ ‘असङ्गो ह्ययं’ ‘तद् वा अस्यैतदतिच्छन्दाः’ इत्यादिश्रुतिशतेभ्यः ‘अविकार्योऽयमुच्यते’ ‘अनादित्वान् निर्गुणत्वात्’ इत्यादि -- इच्छाद्वेषादि च क्षेत्रस्यैव विषयस्य धर्मो नात्मन इति -स्मृतिभ्यश्च कर्मस्थैवाशुद्धिर्नात्मस्था इति ॥

॥३६॥

अतो रूपादिसंस्काराद्यशुद्धिसंबन्धाभावान् न परस्मादात्मनो विलक्षणस्त्वमिति प्रत्यक्षादिविरोधाभावाद् युक्तं पर एवात्माहमिति प्रतिपत्तुं -- ‘ तदात्मानमेवावेद् (अहं ब्रह्मास्मि)’ ‘एकधैवानुम्द्रष्टव्यं’ ‘ अहमेवाधस्तात्’ ‘आत्मैवाधस्तात्’ ‘सर्वमात्मानं पश्येत्’ ‘ यत्र त्वस्य सर्वमात्मैव’ ‘इदं सर्वं यदयमात्मा’ ‘स एषो ('कलः)’ ‘अनन्तरमबाह्यं’ ‘सबाह्याभ्यन्तरो ह्यजः’ ‘ ब्रह्मैवेदं’ ‘एतया द्वारा प्रापद्यत’ ‘प्रज्ञानस्य नामधेयानि’ ‘सत्यं ज्ञानमनन्तं ब्रह्म’ ‘तस्माद् वा’ ‘ तत् सृष्ट्वा तदेवानुप्रविशत्’ ‘एको देवः सर्वभूतेषु गुढः’ ‘ अशरीरं शरीरेषु’ ‘न जायते म्रियते’ ‘स्वप्नान्तं जागरितान्तं’ ‘स म आत्मेति विद्यात्’ ‘यस्तु सर्वाणि भूतानि’ ‘तदेजति तन् नैजति’ ‘वेनस्तत् पश्यन्’ ‘तदेवाग्निः’ ‘ अहं मनुरभवं सूर्यश्च’ ‘अन्तः प्रविष्टः शास्ता जनानां’ ‘ सदेव सोम्य’ ‘तत् सत्यं स आत्मा तत् त्वमसि’ इत्यादिश्रुतिभ्यः ॥

॥३७॥

स्मृतिभ्यश्च -- ‘पूः प्राणिनः ... गुहाशयस्य’ ‘आत्मैव देवताः’ ‘नवद्वारे पुरे’ ‘समं सर्वेषु भूतेषु’ ‘ विद्याविनयसम्पन्ने’ ‘अविभक्तं विभक्तेषु’ ‘वासुदेवः सर्वं’ इत्यादिभ्यः, एक एवात्मा परं ब्रह्म (सर्व) संसारधर्मविनिर्मुक्तस्त्वमिति सिद्धम् ॥

॥३८॥

स यदि ब्रूयात् -- यदि भगवन् ‘अनन्तरोऽबाह्यः’ ‘सबाह्याभ्यन्तरो ह्यजः’ ‘कृत्स्नः प्रज्ञानघन एव’ सैन्धवघनवदात्मा सर्वमूर्तिभेदवर्जित आकाशवदेकरसः किमिदं दृश्यते श्रूयते वा साध्यं साधनं (वा) साधकश्चेति श्रुतिस्मृतिलोकप्रसिद्धं वादिशतविप्रतिपत्तिविषय इति ॥

॥३९॥

आचार्यो ब्रूयात् -- अविद्याकृतमेतद् यदिदं दृश्यते श्रूयते वा परमार्थतस्त्वेक अवात्मा अविद्यादृष्टेरनेकवदवभासते तिमिरदृष्ट्यानेकचन्द्रवत् । ‘यत्र वान्यदिव स्यात्’ ‘यत्र हि द्वैतमिव भवति इतर इतरं पश्यति’ ‘मृत्योः स मृत्युमाप्नोति’ ‘अथ यत्रानुअत् पश्यत्यन्यच्छृणोत्यन्यद् विजानाति तदल्पं ... अथ यदल्पं तन् मर्त्यं’ इति ‘वाचारम्भणं विकारो नामधेयं’ (‘ अनृतं’ ) ‘अन्योऽसावन्योऽहं’ इति भेददर्शननिन्दोपपत्तेरविद्याकृतं द्वैतं ‘एकमेवाद्वितीयं’ ‘ यत्र त्वस्य’ ‘को मोहः कः शोकः’ इत्याद्येकत्वविधिश्रुतिभ्यश्चेति ॥

॥४०॥

यद्येवं भगवन्, किमर्थं श्रुत्या साध्यसाधनादिभेद उच्यते उत्पत्तिः प्रलयश्चेति ॥

॥४१॥

अत्रोच्यते -- अविद्यावत उपात्तशरीरादिभेदस्येष्टानिष्टयोगिनमात्मानं मन्यमानस्य साधनैरेवेष्टानिष्टप्राप्तिपरिहारोपायविवेकमजानत इष्टप्राप्तिं चानिष्टपरिहारं चेच्छतः शनैस्तद्विषयमज्ञानं निवर्तयति शास्त्रं न साध्यसाधनादिभेदं विधत्ते । अनिष्टरूपः संसारो हि स इति तद् भेददृष्टिमेवाविद्यां संसारमूलमुन्मूलयति उत्पत्तिप्रलयाद्येकत्वोपपत्तिप्रदर्शनेन ॥

॥४२॥

अविद्यायामुन्मूल्तितायां श्रुतिस्मृतिन्यायेभ्यः ‘अनन्तरमबाह्यं’ ‘ सबाह्याभ्यन्तरो ह्यजः’ सैधवघनवत् ‘प्रज्ञानघन एव’ एकरस आत्मा आकाशवत् परिपूर्ण इत्यत्रैवैका प्रज्ञा प्रतिष्ठिता परमार्थदर्शिनो भवति न साध्यसाधनोत्पत्तिप्रलयादिभेदेनाशुद्धिगन्धोऽप्युपपद्यते ॥

॥४३॥

तच् चैतत् परमार्थदर्शनं प्रतिपत्तुमिच्छता वर्णाश्रमाद्यभिमानकृतपाङ्क्तरूपपुत्रवित्तलोकैषणादिभ्यो व्युत्थानं कर्तव्यम् । सम्यक्प्रत्ययविरोधात् तदभिमानस्य भेददर्शनप्रतिषेधार्थोपपत्तिश्चोपपद्यते । न ह्येकस्मिन्नात्मन्यसंसारित्वबुद्धौ शास्त्रन्यायोत्पादितायां तद्विपरीता बुद्धिर्भवति । न ह्य् अग्नौ शितत्वबुद्धिः, शरीरे वाजरामरणबुद्धिः । तस्मादविद्याकार्यत्वात् सर्वकर्मणां तत्साधनानां च यज्ञोपवीतादीनां परमार्थदर्शनिष्टेन त्यागः कर्तव्यः ॥

॥४४॥

इति शिष्यप्रतिबोधन(विधि) प्रकरणम्