मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगतारावली

3

सम्प्रदायतः श्रीशङ्करकृता

वन्दे गुरूणां चरणारविन्दे सन्दर्शितस्वात्मसुखावबोधे ।

जनस्य ये जाङ्गलिकायमाने संसारहालाहलमोहशान्त्यै ॥

॥१॥

सदाशिवोक्तानि सपादलक्षलयावधानानि वसन्ति लोके ।

नादानुसन्धानसमाधिमेकं मन्यामहे मान्यतमं लयानाम् ॥

॥२॥

सरेचपूरैरनिलस्य कुम्भैः सर्वासु नाडीषु विशोधितासु ।

अनाहताख्यो बहुभिः प्रकारैरन्तः प्रवर्तेत सदा निनादः ॥

॥३॥

नादानुसन्धान नमोऽस्तु तुभ्यं त्वां साधनं तत्त्वपदस्य जाने ।

भवत्प्रसादात्पवनेन साकं विलीयते विष्णुपदे मनो मे ॥

॥४॥

जालन्धरोड्याणनमूलबन्धाञ्जल्पन्ति कण्ठोदरपायुमूलान् ।

बन्धत्रयेऽस्मिन्परिचीयमाने बन्धः कुतो दारुणकालपाशात् ॥

॥५॥

ओड्याणजालन्धरमूलबन्धैरुन्निद्रितायामुरगाङ्गनायाम् ।

प्रत्यङ्मुखत्वात्प्रविशन्सुषुम्नां गमागमौ मुञ्चति गन्धवाहः ॥

॥६॥

उत्थापिताधारहुताशनोल्कैराकुञ्चनैः शश्वदपानवायोः ।

सन्तापिताच्चन्द्रमसः पतन्तीं पीयूषधारां पिबतीह धन्यः ॥

॥७॥

बन्धत्रयाभ्यासविपाकजातां विवर्जितां रेचकपूरकाभ्याम् ।

विशोषयन्तीं विषयप्रवाहं विद्यां भजे केवलकुम्भरूपाम् ॥

॥८॥

अनाहते चेतसि सावधानैरभ्यासशूरैरनुभूयमाना ।

संस्तम्भितश्वासमनःप्रचारा सा जृम्भते केवलकुम्भकश्रीः ॥

॥९॥

सहस्रशः सन्तु हठेषु कुम्भाः सम्भाव्यते केवलकुम्भ एव ।

कुम्भोत्तमे यत्र तु रेचपूरौ प्राणस्य न प्राकृतवैकृताख्यौ ॥

॥१०॥

त्रिकूटनाम्नि स्तिमितेऽन्तरङ्गे खे स्तम्भिते केवलकुम्भकेन ।

प्राणानिलो भानुशशाङ्कनाड्यौ विहाय सद्यो विलयं प्रयाति ॥

॥११॥

प्रत्याहृतः केवलकुम्भकेन प्रबुद्धकुण्डल्युपभुक्तशेषः ।

प्राणः प्रतीचीनपथेन मन्दं विलीयते विष्णुपदान्तराले ॥

॥१२॥

निरङ्कुशानां श्वसनोद्गमानां निरोधनैः केवलकुम्भकाख्यैः ।

उदेति सर्वेन्द्रियवृत्तिशून्यो मरुल्लयः कोऽपि महामतीनाम् ॥

॥१३॥

न दृष्टिलक्ष्याणि न चित्तबन्धो न देशकालौ न च वायुरोधः ।

न धारणाध्यानपरिश्रमो वा समेधमाने सति राजयोगे ॥

॥१४॥

अशेषदृश्योज्झितदृङ्मयानामवस्थितानामिह राजयोगे ।

न जागरो नापि सुषुप्तिभावो न जीवितं नो मरणं विचित्रम् ॥

॥१५॥

अहम्ममत्वाद्व्यपहाय सर्व श्रीराजयोगे स्थिरमानसानाम् ।

न द्रष्टृता नास्ति च दृश्यभावः सा जृम्भते केवलसंविदेव ॥

॥१६॥

नेत्रे ययोन्मेषनिमेषशून्ये वायुर्यया वर्जितरेचपूरः ।

मनश्च सङ्कल्पविकल्पशून्यं मनोन्मनी सा मयि सन्निधत्ताम् ॥

॥१७॥

चित्तेन्द्रियाणां चिरनिग्रहेण श्वासप्रचारे शमिते यमीन्द्राः ।

निवातदीपा इव निश्चलाङ्गाः मनोन्मनीमग्नधियो भवन्ति ॥

॥१८॥

उन्मन्यवस्थाधिगमाय विद्वन् उपायमेकं तव निर्दिशामः ।

पश्यन्नुदासीनतया प्रपञ्चं सङ्कल्पमुन्मूलय सावधानः ॥

॥१९॥

प्रसह्य सङ्कल्पपरंपराणां संभेदने सन्ततसावधानम् ।

आलम्बनाशादपचीयमानं शनैः शनैः शान्तिमुपैति चेतः ॥

॥२०॥

निश्वासलोपैर्निभृतैः शरीरैर्नेत्राम्बुजैरर्धनिमीलितैश्च ।

आविर्भवन्तीममनस्कमुद्रामालोकयामो मुनिपुङ्गवानाम् ॥

॥२१॥

अमी यमीन्द्राः सहजामनस्का-दहंममत्वे शिथिलायमाने ।

मनोतिगं मारुतवृत्तिशून्यं गच्छन्ति भावं गगनावशेषम् ॥

॥२२॥

निवर्तयन्तीं निखिलेन्द्रियाणि प्रवर्तयन्तीं परमात्मयोगम् ।

संविन्मयीं तां सहजामनस्कां कदा गमिष्यामि गतान्यभावः ॥

॥२३॥

प्रत्यग्विमर्शातिशयेन पुंसां प्राचीनगन्धेषु पलायितेषु ।

प्रादुर्भवेत्काचिदजाड्यनिद्रा प्रपञ्चचिन्तां परिवर्जयन्ती ॥

॥२४॥

विच्छिन्नसङ्कल्पविकल्पमूले निःशेषनिर्मूलितकर्मजाले ।

निरन्तराभ्यासनितान्तभद्रा सा जृम्भते योगिनि योगनिद्रा ॥

॥२५॥

विश्रान्तिमासाद्य तुरीयतल्पे विश्वाद्यवस्थात्रितयोपरिस्थे ।

संविन्मयीं कामपि सर्वकालं निद्रां सखे निर्विश निर्विकल्पाम् ॥

॥२६॥

प्रकाशमाने परमात्मभानौ नश्यत्यविद्यातिमिरे समस्ते ।

अहो बुधा निर्मलदृष्टयोऽपि किञ्चिन्न पश्यन्ति जगत्समग्रम् ॥

॥२७॥

सिद्धिं तथाविधमनोविलयां समाधौ

श्रीशैलशृङ्गकुहरेषु कदोपलप्स्ये ।

गात्रं यदा मम लताः परिवेष्टयन्ति

कर्णे यदा विरचयन्ति खगाश्च नीडान् ॥

॥२८॥

विचरतु मतिरेषा निर्विकल्पे समाधौ

कुचकलशयुगे वा कृष्णसारेक्षणानाम् ।

चरतु जडमते वा सज्जनानां मते वा

मतिकृतगुणदोषा मां विभुं न स्पृशन्ति ॥

॥२९॥

इति श्री आदि शङ्करभगवत्पाद विरचितं योगतारावली सम्पूर्णम्