- १ॐ स्कन्दाय नमः
- २ॐ गुहाय नमः
- ३ॐ षण्मुखाय नमः
- ४ॐ फालनेत्रसुताय नमः
- ५ॐ प्रभवे नमः
- ६ॐ पिङ्गलाय नमः
- ७ॐ कृत्तिकासूनवे नमः
- ८ॐ शिखिवाहाय नमः
- ९ॐ द्विषड्भुजाय नमः
- १०ॐ द्विषण्णेत्राय नमः
- ११ॐ शक्तिधराय नमः
- १२ॐ पिशिताशप्रभञ्जनाय नमः
- १३ॐ तारकासुरसंहारिणे नमः
- १४ॐ रक्षोबलविमर्दनाय नमः
- १५ॐ मत्ताय नमः
- १६ॐ प्रमत्ताय नमः
- १७ॐ उन्मत्ताय नमः
- १८ॐ सुरसैन्यसुरक्षकाय नमः
- १९ॐ देवसेनापतये नमः
- २०ॐ प्राज्ञाय नमः
- २१ॐ कृपालवे नमः
- २२ॐ भक्तवत्सलाय नमः
- २३ॐ उमासुताय नमः
- २४ॐ शक्तिधराय नमः
- २५ॐ कुमाराय नमः
- २६ॐ क्रौञ्चदारणाय नमः
- २७ॐ सेनानिने नमः
- २८ॐ अग्निजन्मने नमः
- २९ॐ विशाखाय नमः
- ३०ॐ शङ्करात्मजाय नमः
- ३१ॐ शिवस्वामिने नमः
- ३२ॐ गणस्वामिने नमः
- ३३ॐ सर्वस्वामिने नमः
- ३४ॐ सनातनाय नमः
- ३५ॐ अनन्तमूर्तये नमः
- ३६ॐ अक्षोभ्याय नमः
- ३७ॐ पार्वतीप्रियनन्दनाय नमः
- ३८ॐ गङ्गासुताय नमः
- ३९ॐ शरोद्भूताय नमः
- ४०ॐ आहूताय नमः
- ४१ॐ पावकात्मजाय नमः
- ४२ॐ जृम्भाय नमः
- ४३ॐ प्रजृम्भाय नमः
- ४४ॐ उज्जृम्भाय नमः
- ४५ॐ कमलासनसंस्तुताय नमः
- ४६ॐ एकवर्णाय नमः
- ४७ॐ द्विवर्णाय नमः
- ४८ॐ त्रिवर्णाय नमः
- ४९ॐ सुमनोहराय नमः
- ५०ॐ चतुर्वर्णाय नमः
- ५१ॐ पञ्चवर्णाय नमः
- ५२ॐ प्रजापतये नमः
- ५३ॐ अहस्पतये नमः
- ५४ॐ अग्निगर्भाय नमः
- ५५ॐ शमीगर्भाय नमः
- ५६ॐ विश्वरेतसे नमः
- ५७ॐ सुरारिघ्ने नमः
- ५८ॐ हरिद्वर्णाय नमः
- ५९ॐ शुभकराय नमः
- ६०ॐ वटवे नमः
- ६१ॐ पटुवेषभृते नमः
- ६२ॐ पूष्णे नमः
- ६३ॐ गभस्तये नमः
- ६४ॐ गहनाय नमः
- ६५ॐ चन्द्रवर्णाय नमः
- ६६ॐ कलाधराय नमः
- ६७ॐ मायाधराय नमः
- ६८ॐ महामायिने नमः
- ६९ॐ कैवल्याय नमः
- ७०ॐ शङ्करात्मजाय नमः
- ७१ॐ विश्वयोनये नमः
- ७२ॐ अमेयात्मने नमः
- ७३ॐ तेजोयोनये नमः
- ७४ॐ अनामयाय नमः
- ७५ॐ परमेष्ठिने नमः
- ७६ॐ परब्रह्मणे नमः
- ७७ॐ वेदगर्भाय नमः
- ७८ॐ विराट्सुताय नमः
- ७९ॐ पुलिन्दकन्याभर्त्रे नमः
- ८०ॐ महासारस्वतावृताय नमः
- ८१ॐ आश्रिताखिलदात्रे नमः
- ८२ॐ चोरघ्नाय नमः
- ८३ॐ रोगनाशनाय नमः
- ८४ॐ अनन्तमूर्तये नमः
- ८५ॐ आनन्दाय नमः
- ८६ॐ शिखण्डिने नमः
- ८७ॐ कृतकेतनाय नमः
- ८८ॐ डम्भाय नमः
- ८९ॐ परमडम्भाय नमः
- ९०ॐ महाडम्भाय नमः
- ९१ॐ वृषाकपये नमः
- ९२ॐ कारणोत्पत्ति-देहाय नमः
- ९३ॐ कारणातीत-विग्रहाय नमः
- ९४ॐ अनीश्वराय नमः
- ९५ॐ अमृताय नमः
- ९६ॐ प्राणाय नमः
- ९७ॐ प्राणायामपरायणाय नमः
- ९८ॐ विरुद्धहन्त्रे नमः
- ९९ॐ वीरघ्नाय नमः
- १००ॐ रक्तश्यामगलाय नमः
- १०१ॐ सुब्रह्मण्याय नमः
- १०२ॐ गुहाय नमः
- १०३ॐ प्रीताय नमः
- १०४ॐ ब्रह्मण्याय नमः
- १०५ॐ ब्राह्मणप्रियाय नमः
- १०६ॐ वंशवृद्धिकराय नमः
- १०७ॐ वेदवेद्याय नमः
- १०८ॐ अक्षयफलप्रदाय नमः
इति श्री-सुब्रह्मण्याष्टोत्तरशतनामावलिः सम्पूर्णा