मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

सरस्वती सहस्र नाम स्तोत्रम्

3

स्कन्दपुराणम्

ध्यानम्

श्रीमच्चन्दनचर्चितोज्ज्वलवपुः शुक्लाम्बरा मल्लिका-

मालालालित-कुन्तला प्रविलसन्मुक्तावलीशोभना ।

सर्वज्ञाननिधानपुस्तकधरा रुद्राक्षमालाङ्किता

वाग्देवी वदनाम्बुजे वसतु मे त्रैलोक्यमाता शुभा ॥

॥१॥

श्री-नारद उवाच

भगवन् परमेशान सर्वलोकैकनायक ।

कथं सरस्वती साक्षात्प्रसन्ना परमेष्ठिनः ॥

॥२॥

कथं देव्या महावाण्याः सतत् प्राप सुदुर्लभम् ।

एतन्मे वद तत्त्वेन महायोगीश्वरप्रभो ॥

॥३॥

श्री-सनत्कुमार उवाच

साधु पृष्टं त्वया ब्रह्मन् गुह्याद्गुह्यमनुत्तमम् ।

भयानुगोपितं यत्नादिदानीं सत्प्रकाश्यते ॥

॥४॥

पुरा पितामहं दृष्ट्वा जगत्स्थावरजङ्गमम् ।

निर्विकारं निराभासं स्तम्भीभूतमचेतसम् ॥

॥५॥

सृष्ट्वा त्रैलोक्यमखिलं वागभावात्तथाविधम् ।

आधिक्याभावतः स्वस्य परमेष्ठी जगद्गुरुः ॥

॥६॥

दिव्यवर्षायुतं तेन तपो दुष्करमुत्तमम् ।

ततः कदाचित् सञ्जाता वाणी सर्वार्थशोभिता ॥

॥७॥

अहमस्मि महाविद्या सर्ववाचामधीश्वरी ।

मम नाम्नां सहस्रं तु उपदेक्ष्याम्यनुत्तमम् ॥

॥८॥

अनेन संस्तुता नित्यं पत्नी तव भवाम्यहम् ।

त्वया सृष्टं जगत् सर्वं वाणीयुक्तं भविष्यति ॥

॥९॥

इदं रहस्यं परमं मम नामसहस्रकम् ।

सर्वपापौघशमनं महासारस्वतप्रदम् ॥

॥१०॥

महाकवित्वदं लोके वागीशत्वप्रदायकम् ।

त्वं वा परः पुमान्यस्तु स्तवेनानेन तोषयेत् ॥

॥११॥

तस्याहं किङ्करी साक्षाद् भविष्यामि न संशयः ।

इत्युक्त्वाऽन्तर्दधे वाणी तदारभ्य पितामहः ॥

॥१२॥

स्तुत्वा स्तोत्रेण दिव्येन तत्पतित्वमवाप्तवान् ।

वाणीयुक्तं जगत् सर्वं तदारभ्याभवन्मुने ॥

॥१३॥

तत्तेहं सम्प्रवक्ष्यामि शृणु यत्नेन नारद ।

सावधानमना भूत्वा क्षणं शुद्धो मुनीश्वरः ॥

॥१४॥

स्तोत्रम्

वाग्वाणी वरदा वन्द्या वरारोहा वरप्रदा ।

वृत्तिर्वागीश्वरी वार्ता वरा वागीशवल्लभा ॥

॥१५॥

विश्वेश्वरी विश्ववन्द्या विश्वेशप्रियकारिणी ।

वाग्वादिनी च वाग्देवी वृद्धिदा वृद्धिकारिणी ॥

॥१६॥

वृद्धिर्वृद्धा विषघ्नी च वृष्टिर्वृष्टिप्रदायिनी ।

विश्वाराध्या विश्वमाता विश्वधात्री विनायका ॥

॥१७॥

विश्वशक्तिर्विश्वसारा विश्वा विश्वविभावरी ।

वेदान्तवेदिनी वेद्या वित्ता वेदत्रयात्मिका ॥

॥१८॥

वेदज्ञा वेदजननी विश्वा विश्वविभावरी ।

वरेण्या वाङ्मयी वृद्धा विशिष्टप्रियकारिणी ॥

॥१९॥

विश्वतोवदना व्याप्ता व्यापिनी व्यापकात्मिका ।

व्यालघ्नी व्यालभूषाङ्गी विरजा वेदनायिका ॥

॥२०॥

वेदवेदान्तसंवेद्या वेदान्तज्ञानरूपिणी ।

विभावरी च विक्रान्ता विश्वामित्रा विधिप्रिया ॥

॥२१॥

वरिष्ठा विप्रकृष्टा च विप्रवर्यप्रपूजिता ।

वेदरूपा वेदमयी वेदमूर्तिश्च वल्लभा ॥

॥२२॥

गौरी गुणवती गोप्या गन्धर्वनगरप्रिया ।

गुणमाता गुहान्तस्था गुरुरूपा गुरुप्रिया ॥

॥२३॥

गिरिविद्या गानतुष्टा गायकप्रियकारिणी ।

गायत्री गिरिशाराध्या गीर्गिरीशप्रियङ्करी ॥

॥२४॥

गिरिज्ञा ज्ञानविद्या च गिरिरूपा गिरीश्वरी ।

गीर्माता गणसंस्तुत्या गणनीयगुणान्विता ॥

॥२५॥

गूढरूपा गुहा गोप्या गोरूपा गौर्गुणात्मिका ।

गुर्वी गुर्वम्बिका गुह्या गेयजा ग्रहनाशिनी ॥

॥२६॥

गृहिणी गृहदोषघ्नी गवघ्नी गुरुवत्सला ।

गृहात्मिका गृहाराध्या गृहबाधाविनाशिनी ॥

॥२७॥

गङ्गा गिरिसुता गम्या गजयाना गुहस्तुता ।

गरुडासनसंसेव्या गोमती गुणशालिनी ॥

॥२८॥

शारदा शाश्वती शैवी शाङ्करी शङ्करात्मिका ।

श्रीः शर्वाणी शतघ्नी च शरच्चन्द्रनिभानना ॥

॥२९॥

शर्मिष्ठा शमनघ्नी च शतसाहस्ररूपिणी ।

शिवा शम्भुप्रिया श्रद्धा श्रुतिरूपा श्रुतिप्रिया ॥

॥३०॥

शुचिष्मती शर्मकरी शुद्धिदा शुद्धिरूपिणी ।

शिवा शिवङ्करी शुद्धा शिवाराध्या शिवात्मिका ॥

॥३१॥

श्रीमती श्रीमयी श्राव्या श्रुतिः श्रवणगोचरा ।

शान्तिः शान्तिकरी शान्ता शान्ताचारप्रियङ्करी ॥

॥३२॥

शीललभ्या शीलवती श्रीमाता शुभकारिणी ।

शुभवाणी शुद्धविद्या शुद्धचित्तप्रपूजिता ॥

॥३३॥

श्रीकरी श्रुतपापघ्नी शुभाक्षी शुचिवल्लभा ।

शिवेतरघ्नी शबरी श्रवणीयगुणान्विता ॥

॥३४॥

शारी शिरीषपुष्पाभा शमनिष्ठा शमात्मिका ।

शमान्विता शमाराध्या शितिकण्ठप्रपूजिता ॥

॥३५॥

शुद्धिः शुद्धिकरी श्रेष्ठा श्रुतानन्ता शुभावहा ।

सरस्वती च सर्वज्ञा सर्वसिद्धिप्रदायिनी ॥

॥३६॥

सरस्वती च सावित्री सन्ध्या सर्वेप्सितप्रदा ।

सर्वार्तिघ्नी सर्वमयी सर्वविद्याप्रदायिनी ॥

॥३७॥

सर्वेश्वरी सर्वपुण्या सर्गस्थित्यन्तकारिणी ।

सर्वाराध्या सर्वमाता सर्वदेवनिषेविता ॥

॥३८॥

सर्वैश्वर्यप्रदा सत्या सती सत्वगुणाश्रया ।

स्वरक्रमपदाकारा सर्वदोषनिषूदिनी ॥

॥३९॥

सहस्राक्षी सहस्रास्या सहस्रपदसंयुता ।

सहस्रहस्ता साहस्रगुणालङ्कृतविग्रहा ॥

॥४०॥

सहस्रशीर्षा सद्रूपा स्वधा स्वाहा सुधामयी ।

षड्ग्रन्थिभेदिनी सेव्या सर्वलोकैकपूजिता ॥

॥४१॥

स्तुत्या स्तुतिमयी साध्या सवितृप्रियकारिणी ।

संशयच्छेदिनी साङ्ख्यवेद्या सङ्ख्या सदीश्वरी ॥

॥४२॥

सिद्धिदा सिद्धसम्पूज्या सर्वसिद्धिप्रदायिनी ।

सर्वज्ञा सर्वशक्तिश्च सर्वसम्पत्प्रदायिनी ॥

॥४३॥

सर्वाशुभघ्नी सुखदा सुखा संवित्स्वरूपिणी ।

सर्वसम्भीषणी सर्वजगत्सम्मोहिनी तथा ॥

॥४४॥

सर्वप्रियङ्करी सर्वशुभदा सर्वमङ्गला ।

सर्वमन्त्रमयी सर्वतीर्थपुण्यफलप्रदा ॥

॥४५॥

सर्वपुण्यमयी सर्वव्याधिघ्नी सर्वकामदा ।

सर्वविघ्नहरी सर्ववन्दिता सर्वमङ्गला ॥

॥४६॥

सर्वमन्त्रकरी सर्वलक्ष्मीः सर्वगुणान्विता ।

सर्वानन्दमयी सर्वज्ञानदा सत्यनायिका ॥

॥४७॥

सर्वज्ञानमयी सर्वराज्यदा सर्वमुक्तिदा ।

सुप्रभा सर्वदा सर्वा सर्वलोकवशङ्करी ॥

॥४८॥

सुभगा सुन्दरी सिद्धा सिद्धाम्बा सिद्धमातृका ।

सिद्धमाता सिद्धविद्या सिद्धेशी सिद्धरूपिणी ॥

॥४९॥

सुरूपिणी सुखमयी सेवकप्रियकारिणी ।

स्वामिनी सर्वदा सेव्या स्थूलसूक्ष्मापराम्बिका ॥

॥५०॥

साररूपा सरोरूपा सत्यभूता समाश्रया ।

सितासिता सरोजाक्षी सरोजासनवल्लभा ॥

॥५१॥

सरोरुहाभा सर्वाङ्गी सुरेन्द्रादिप्रपूजिता ।

महादेवी महेशानी महासारस्वतप्रदा ॥

॥५२॥

महासरस्वती मुक्ता मुक्तिदा मलनाशिनी ।

महेश्वरी महानन्दा महामन्त्रमयी मही ॥

॥५३॥

महालक्ष्मीर्महाविद्या माता मन्दरवासिनी ।

मन्त्रगम्या मन्त्रमाता महामन्त्रफलप्रदा ॥

॥५४॥

महामुक्तिर्महानित्या महासिद्धिप्रदायिनी ।

महासिद्धा महामाता महदाकारसंयुता ॥

॥५५॥

महा महेश्वरी मूर्तिर्मोक्षदा मणिभूषणा ।

मेनका मानिनी मान्या मृत्युघ्नी मेरुरूपिणी ॥

॥५६॥

मदिराक्षी मदावासा मखरूपा मखेश्वरी ।

महामोहा महामाया मातॄणां मूर्ध्निसंस्थिता ॥

॥५७॥

महापुण्या मुदावासा महासम्पत्प्रदायिनी ।

मणिपूरैकनिलया मधुरूपा महोत्कटा ॥

॥५८॥

महासूक्ष्मा महाशान्ता महाशान्तिप्रदायिनी ।

मुनिस्तुता मोहहन्त्री माधवी माधवप्रिया ॥

॥५९॥

मा महादेवसंस्तुत्या महिषीगणपूजिता ।

मृष्टान्नदा च माहेन्द्री महेन्द्रपददायिनी ॥

॥६०॥

मतिर्मतिप्रदा मेधा मर्त्यलोकनिवासिनी ।

मुख्या महानिवासा च महाभाग्यजनाश्रिता ॥

॥६१॥

महिला महिमा मृत्युहारी मेधाप्रदायिनी ।

मेध्या महावेगवती महामोक्षफलप्रदा ॥

॥६२॥

महाप्रभाभा महती महादेवप्रियङ्करी ।

महापोषा महर्द्धिश्च मुक्ताहारविभूषणा ॥

॥६३॥

माणिक्यभूषणा मन्त्रा मुख्यचन्द्रार्धशेखरा ।

मनोरूपा मनःशुद्धिर्मनःशुद्धिप्रदायिनी ॥

॥६४॥

महाकारुण्यसम्पूर्णा मनोनमनवन्दिता ।

महापातकजालघ्नी मुक्तिदा मुक्तभूषणा ॥

॥६५॥

मनोन्मनी महास्थूला महाक्रतुफलप्रदा ।

महापुण्यफलप्राप्या मायात्रिपुरनाशिनी ॥

॥६६॥

महानसा महामेधा महामोदा महेश्वरी ।

मालाधरी महोपाया महातीर्थफलप्रदा ॥

॥६७॥

महामङ्गलसम्पूर्णा महादारिद्र्यनाशिनी ।

महामखा महामेघा महाकाली महाप्रिया ॥

॥६८॥

महाभूषा महादेहा महाराज्ञी मुदालया ।

भूरिदा भाग्यदा भोग्या भोग्यदा भोगदायिनी ॥

॥६९॥

भवानी भूतिदा भूतिर्भूमिर्भूमिसुनायिका ।

भूतधात्री भयहरी भक्तसारस्वतप्रदा ॥

॥७०॥

भुक्तिर्भुक्तिप्रदा भेकी भक्तिर्भक्तिप्रदायिनी ।

भक्तसायुज्यदा भक्तस्वर्गदा भक्तराज्यदा ॥

॥७१॥

भागीरथी भवाराध्या भाग्यासज्जनपूजिता ।

भवस्तुत्या भानुमती भवसागरतारणी ॥

॥७२॥

भूतिर्भूषा च भूतेशी भाललोचनपूजिता ।

भूता भव्या भविष्या च भवविद्या भवात्मिका ॥

॥७३॥

बाधापहारिणी बन्धुरूपा भुवनपूजिता ।

भवघ्नी भक्तिलभ्या च भक्तरक्षणतत्परा ॥

॥७४॥

भक्तार्तिशमनी भाग्या भोगदानकृतोद्यमा ।

भुजङ्गभूषणा भीमा भीमाक्षी भीमरूपिणी ॥

॥७५॥

भाविनी भ्रातृरूपा च भारती भवनायिका ।

भाषा भाषावती भीष्मा भैरवी भैरवप्रिया ॥

॥७६॥

भूतिर्भासितसर्वाङ्गी भूतिदा भूतिनायिका ।

भास्वती भगमाला च भिक्षादानकृतोद्यमा ॥

॥७७॥

भिक्षुरूपा भक्तिकरी भक्तलक्ष्मीप्रदायिनी ।

भ्रान्तिघ्ना भ्रान्तिरूपा च भूतिदा भूतिकारिणी ॥

॥७८॥

भिक्षणीया भिक्षुमाता भाग्यवद्दृष्टिगोचरा ।

भोगवती भोगरूपा भोगमोक्षफलप्रदा ॥

॥७९॥

भोगश्रान्ता भाग्यवती भक्ताघौघविनाशिनी ।

ब्राह्मी ब्रह्मस्वरूपा च बृहती ब्रह्मवल्लभा ॥

॥८०॥

ब्रह्मदा ब्रह्ममाता च ब्रह्माणी ब्रह्मदायिनी ।

ब्रह्मेशी ब्रह्मसंस्तुत्या ब्रह्मवेद्या बुधप्रिया ॥

॥८१॥

बालेन्दुशेखरा बाला बलिपूजाकरप्रिया ।

बलदा बिन्दुरूपा च बालसूर्यसमप्रभा ॥

॥८२॥

ब्रह्मरूपा ब्रह्ममयी ब्रध्नमण्डलमध्यगा ।

ब्रह्माणी बुद्धिदा बुद्धिर्बुद्धिरूपा बुधेश्वरी ॥

॥८३॥

बन्धक्षयकरी बाधनाशनी बन्धुरूपिणी ।

बिन्द्वालया बिन्दुभूषा बिन्दुनादसमन्विता ॥

॥८४॥

बीजरूपा बीजमाता ब्रह्मण्या ब्रह्मकारिणी ।

बहुरूपा बलवती ब्रह्मजा ब्रह्मचारिणी ॥

॥८५॥

ब्रह्मस्तुत्या ब्रह्मविद्या ब्रह्माण्डाधिपवल्लभा ।

ब्रह्मेशविष्णुरूपा च ब्रह्मविष्ण्वीशसंस्थिता ॥

॥८६॥

बुद्धिरूपा बुधेशानी बन्धी बन्धविमोचनी ।

अक्षमालाऽक्षराकाराऽक्षराऽक्षरफलप्रदा ॥

॥८७॥

अनन्ताऽऽनन्दसुखदाऽनन्तचन्द्रनिभानना ।

अनन्तमहिमाऽघोराऽनन्तगम्भीरसम्मिता ॥

॥८८॥

अदृष्टाऽदृष्टदाऽनन्ताऽदृष्टभाग्यफलप्रदा ।

अरुन्धत्यव्ययीनाथाऽनेकसद्गुणसंयुता ॥

॥८९॥

अनेकभूषणाऽदृश्याऽनेकलेखनिषेविता ।

अनन्ताऽनन्तसुखदाऽघोराऽघोरस्वरूपिणी ॥

॥९०॥

अशेषदेवतारूपाऽमृतरूपाऽमृतेश्वरी ।

अनवद्याऽनेकहस्ताऽनेकमाणिक्यभूषणा ॥

॥९१॥

अनेकविघ्नसंहर्त्री ह्यनेकाभरणान्विता ।

अविद्याऽज्ञानसंहर्त्री ह्यविद्याजालनाशिनी ॥

॥९२॥

अभिरूपाऽनवद्याङ्गी ह्यप्रतर्क्यगतिप्रदा ।

अकलङ्कारूपिणी च ह्यनुग्रहपरायणा ॥

॥९३॥

अम्बरस्थाऽम्बरमयाऽम्बरमालाऽम्बुजेक्षणा ।

अम्बिकाऽब्जकराऽब्जस्थांऽशुमत्यंशुशतान्विता ॥

॥९४॥

अम्बुजाऽनवराऽखण्डाऽम्बुजासनमहाप्रिया ।

अजरामरसंसेव्याऽजरसेवितपद्युगा ॥

॥९५॥

अतुलार्थप्रदाऽर्थैक्याऽत्युदारा त्वभयान्विता ।

अनाथवत्सलाऽनन्तप्रियाऽनन्तेप्सितप्रदा ॥

॥९६॥

अम्बुजाक्ष्यम्बुरूपाऽम्बुजातोद्भवमहाप्रिया ।

अखण्डा त्वमरस्तुत्याऽमरनायकपूजिता ॥

॥९७॥

अजेया त्वजसङ्काशाऽज्ञाननाशिन्यभीष्टदा ।

अक्ताऽघनेना चास्त्रेशी ह्यलक्ष्मीनाशिनी तथा ॥

॥९८॥

अनन्तसाराऽनन्तश्रीरनन्तविधिपूजिता ।

अभीष्टाऽमर्त्यसम्पूज्या ह्यस्तोदयविवर्जिता ॥

॥९९॥

आस्तिकस्वान्तनिलयाऽस्त्ररूपाऽस्त्रवती तथा ।

अस्खलत्यस्खलद्रूपाऽस्खलद्विद्याप्रदायिनी ॥

॥१००॥

अस्खलत् सिद्धिदाऽऽनन्दाऽम्बुजाताऽमरनायिका ।

अमेयाऽशेषपापघ्न्यक्षयसारस्वतप्रदा ॥

॥१०१॥

जया जयन्ती जयदा जन्मकर्मविवर्जिता ।

जगत्प्रिया जगन्माता जगदीश्वरवल्लभा ॥

॥१०२॥

जातिर्जया जितामित्रा जप्या जपनकारिणी ।

जीवनी जीवनिलया जीवाख्या जीवधारिणी ॥

॥१०३॥

जाह्नवी ज्या जपवती जातिरूपा जयप्रदा ।

जनार्दनप्रियकरी जोषनीया जगत्स्थिता ॥

॥१०४॥

जगज्ज्येष्ठा जगन्माया जीवनत्राणकारिणी ।

जीवातुलतिका जीवजन्मी जन्मनिबर्हणी ॥

॥१०५॥

जाड्यविध्वंसनकरी जगद्योनिर्जयात्मिका ।

जगदानन्दजननी जम्बूश्च जलजेक्षणा ॥

॥१०६॥

जयन्ती जङ्गपूगघ्नी जनितज्ञानविग्रहा ।

जटा जटावती जप्या जपकर्तृप्रियङ्करी ॥

॥१०७॥

जपकृत्पापसंहर्त्री जपकृत्फलदायिनी ।

जपापुष्पसमप्रख्या जपाकुसुमधारिणी ॥

॥१०८॥

जननी जन्मरहिता ज्योतिर्वृत्यभिदायिनी ।

जटाजूटनचन्द्रार्धा जगत्सृष्टिकरी तथा ॥

॥१०९॥

जगत्त्राणकरी जाड्यध्वंसकर्त्री जयेश्वरी ।

जगद्बीजा जयावासा जन्मभूर्जन्मनाशिनी ॥

॥११०॥

जन्मान्त्यरहिता जैत्री जगद्योनिर्जपात्मिका ।

जयलक्षणसम्पूर्णा जयदानकृतोद्यमा ॥

॥१११॥

जम्भराद्यादिसंस्तुत्या जम्भारिफलदायिनी ।

जगत्त्रयहिता ज्येष्ठा जगत्त्रयवशङ्करी ॥

॥११२॥

जगत्त्रयाम्बा जगती ज्वाला ज्वालितलोचना ।

ज्वालिनी ज्वलनाभासा ज्वलन्ती ज्वलनात्मिका ॥

॥११३॥

जितारातिसुरस्तुत्या जितक्रोधा जितेन्द्रिया ।

जरामरणशून्या च जनित्री जन्मनाशिनी ॥

॥११४॥

जलजाभा जलमयी जलजासनवल्लभा ।

जलजस्था जपाराध्या जनमङ्गलकारिणी ॥

॥११५॥

कामिनी कामरूपा च काम्या कामप्रदायिनी ।

कमाली कामदा कर्त्री क्रतुकर्मफलप्रदा ॥

॥११६॥

कृतघ्नघ्नी क्रियारूपा कार्यकारणरूपिणी ।

कञ्जाक्षी करुणारूपा केवलामरसेविता ॥

॥११७॥

कल्याणकारिणी कान्ता कान्तिदा कान्तिरूपिणी ।

कमला कमलावासा कमलोत्पलमालिनी ॥

॥११८॥

कुमुद्वती च कल्याणी कान्तिः कामेशवल्लभा ।

कामेश्वरी कमलिनी कामदा कामबन्धिनी ॥

॥११९॥

कामधेनुः काञ्चनाक्षी काञ्चनाभा कलानिधिः ।

क्रिया कीर्तिकरी कीर्तिः क्रतुश्रेष्ठा कृतेश्वरी ॥

॥१२०॥

क्रतुसर्वक्रियास्तुत्या क्रतुकृत्प्रियकारिणी ।

क्लेशनाशकरी कर्त्री कर्मदा कर्मबन्धिनी ॥

॥१२१॥

कर्मबन्धहरी कृष्टा क्लमघ्नी कञ्जलोचना ।

कन्दर्पजननी कान्ता करुणा करुणावती ॥

॥१२२॥

क्लीङ्कारिणी कृपाकारा कृपासिन्धुः कृपावती ।

करुणार्द्रा कीर्तिकरी कल्मषघ्नी क्रियाकरी ॥

॥१२३॥

क्रियाशक्तिः कामरूपा कमलोत्पलगन्धिनी ।

कला कलावती कूर्मी कूटस्था कञ्जसंस्थिता ॥

॥१२४॥

कालिका कल्मषघ्नी च कमनीयजटान्विता ।

करपद्मा कराभीष्टप्रदा क्रतुफलप्रदा ॥

॥१२५॥

कौशिकी कोशदा काव्या कर्त्री कोशेश्वरी कृशा ।

कूर्मयाना कल्पलता कालकूटविनाशिनी ॥

॥१२६॥

कल्पोद्यानवती कल्पवनस्था कल्पकारिणी ।

कदम्बकुसुमाभासा कदम्बकुसुमप्रिया ॥

॥१२७॥

कदम्बोद्यानमध्यस्था कीर्तिदा कीर्तिभूषणा ।

कुलमाता कुलावासा कुलाचारप्रियङ्करी ॥

॥१२८॥

कुलानाथा कामकला कलानाथा कलेश्वरी ।

कुन्दमन्दारपुष्पाभा कपर्दस्थितचन्द्रिका ॥

॥१२९॥

कवित्वदा काव्यमाता कविमाता कलाप्रदा ।

तरुणी तरुणीताता ताराधिपसमानना ॥

॥१३०॥

तृप्तिस्तृप्तिप्रदा तर्क्या तपनी तापिनी तथा ।

तर्पणी तीर्थरूपा च त्रिदशा त्रिदशेश्वरी ॥

॥१३१॥

त्रिदिवेशी त्रिजननी त्रिमाता त्र्यम्बकेश्वरी ।

त्रिपुरा त्रिपुरेशानी त्र्यम्बका त्रिपुराम्बिका ॥

॥१३२॥

त्रिपुरश्रीस्त्रयीरूपा त्रयीवेद्या त्रयीश्वरी ।

त्रय्यन्तवेदिनी ताम्रा तापत्रितयहारिणी ॥

॥१३३॥

तमालसदृशी त्राता तरुणादित्यसन्निभा ।

त्रैलोक्यव्यापिनी तृप्ता तृप्तिकृत् तत्त्वरूपिणी ॥

॥१३४॥

तुर्या त्रैलोक्यसंस्तुत्या त्रिगुणा त्रिगुणेश्वरी ।

त्रिपुरघ्नी त्रिमाता च त्र्यम्बका त्रिगुणान्विता ॥

॥१३५॥

तृष्णाच्छेदकरी तृप्ता तीक्ष्णा तीक्ष्णस्वरूपिणी ।

तुला तुलादिरहिता तत्तद् ब्रह्मस्वरूपिणी ॥

॥१३६॥

त्राणकर्त्री त्रिपापघ्नी त्रिपदा त्रिदशान्विता ।

तथ्या त्रिशक्तिस्त्रिपदा तुर्या त्रैलोक्यसुन्दरी ॥

॥१३७॥

तेजस्करी त्रिमूर्त्याद्या तेजोरूपा त्रिधामता ।

त्रिचक्रकर्त्री त्रिभगा तुर्यातीतफलप्रदा ॥

॥१३८॥

तेजस्विनी तापहारी तापोपप्लवनाशिनी ।

तेजोगर्भा तपःसारा त्रिपुरारिप्रियङ्करी ॥

॥१३९॥

तन्वी तापससन्तुष्टा तपताङ्गजभीतिनुत् ।

त्रिलोचना त्रिमार्गा च तृतीया त्रिदशस्तुता ॥

॥१४०॥

त्रिसुन्दरी त्रिपथगा तुरीयपददायिनी ।

शुभा शुभावती शान्ता शान्तिदा शुभदायिनी ॥

॥१४१॥

शीतला शूलिनी शीता श्रीमती च शुभान्विता ।

योगसिद्धिप्रदा योग्या यज्ञेनपरिपूरिता ॥

॥१४२॥

यज्या यज्ञमयी यक्षी यक्षिणी यक्षिवल्लभा ।

यज्ञप्रिया यज्ञपूज्या यज्ञतुष्टा यमस्तुता ॥

॥१४३॥

यामिनीयप्रभा याम्या यजनीया यशस्करी ।

यज्ञकर्त्री यज्ञरूपा यशोदा यज्ञसंस्तुता ॥

॥१४४॥

यज्ञेशी यज्ञफलदा योगयोनिर्यजुस्तुता ।

यमिसेव्या यमाराध्या यमिपूज्या यमीश्वरी ॥

॥१४५॥

योगिनी योगरूपा च योगकर्तृप्रियङ्करी ।

योगयुक्ता योगमयी योगयोगीश्वराम्बिका ॥

॥१४६॥

योगज्ञानमयी योनिर्यमाद्यष्टाङ्गयोगता ।

यन्त्रिताघौघसंहारा यमलोकनिवारिणी ॥

॥१४७॥

यष्टिव्यष्टीशसंस्तुत्या यमाद्यष्टाङ्गयोगयुक् ।

योगीश्वरी योगमाता योगसिद्धा च योगदा ॥

॥१४८॥

योगारूढा योगमयी योगरूपा यवीयसी ।

यन्त्ररूपा च यन्त्रस्था यन्त्रपूज्या च यन्त्रिता ॥

॥१४९॥

युगकर्त्री युगमयी युगधर्मविवर्जिता ।

यमुना यमिनी याम्या यमुनाजलमध्यगा ॥

॥१५०॥

यातायातप्रशमनी यातनानान्निकृन्तनी ।

योगावासा योगिवन्द्या यत्तच्छब्दस्वरूपिणी ॥

॥१५१॥

योगक्षेममयी यन्त्रा यावदक्षरमातृका ।

यावत्पदमयी यावच्छब्दरूपा यथेश्वरी ॥

॥१५२॥

यत्तदीया यक्षवन्द्या यद्विद्या यतिसंस्तुता ।

यावद्विद्यामयी यावद्विद्याबृन्दसुवन्दिता ॥

॥१५३॥

योगिहृत्पद्मनिलया योगिवर्यप्रियङ्करी ।

योगिवन्द्या योगिमाता योगीशफलदायिनी ॥

॥१५४॥

यक्षवन्द्या यक्षपूज्या यक्षराजसुपूजिता ।

यज्ञरूपा यज्ञतुष्टा यायजूकस्वरूपिणी ॥

॥१५५॥

यन्त्राराध्या यन्त्रमध्या यन्त्रकर्तृप्रियङ्करी ।

यन्त्रारूढा यन्त्रपूज्या योगिध्यानपरायणा ॥

॥१५६॥

यजनीया यमस्तुत्या योगयुक्ता यशस्करी ।

योगबद्धा यतिस्तुत्या योगज्ञा योगनायकी ॥

॥१५७॥

योगिज्ञानप्रदा यक्षी यमबाधाविनाशिनी ।

योगिकाम्यप्रदात्री च योगिमोक्षप्रदायिनी ॥

॥१५८॥

फलश्रुतिः

इति नाम्नां सरस्वत्याः सहस्रं समुदीरितम् ।

मन्त्रात्मकं महागोप्यं महासारस्वतप्रदम् ॥

॥१५९॥

यः पठेच्छृणुयाद् भक्त्या त्रिकालं साधकः पुमान् ।

सर्वविद्यानिधिः साक्षात् स एव भवति ध्रुवम् ॥

॥१६०॥

लभते सम्पदः सर्वाः पुत्रपौत्रादिसंयुताः ।

मूकोऽपि सर्वविद्यासु चतुर्मुख इवापरः ॥

॥१६१॥

भूत्वा प्राप्नोति सान्निध्यम् अन्ते धातुर्मुनीश्वर ।

सर्वमन्त्रमयं सर्वविद्यामानफलप्रदम् ॥

॥१६२॥

महाकवित्वदं पुंसां महासिद्धिप्रदायकम् ।

कस्मैचिन्न प्रदातव्यं प्राणैः कण्ठगतैरपि ॥

॥१६३॥

महारहस्यं सततं वाणीनामसहस्रकम् ।

सुसिद्धमस्मदादीनां स्तोत्रं ते समुदीरितम् ॥

॥१६४॥

इति श्रीस्कान्दपुराणान्तर्गत-सनत्कुमार-संहितायां नारद-सनत्कुमार-संवादे सरस्वती-सहस्रनाम-स्तोत्रं सम्पूर्णम्