श्रीशङ्करभगवत्पादकृता
स्वप्नस्मृत्योर्घटादेर्हि रूपाभासः प्रदृश्यते ।
पुरा नूनं तदाकारा धीर्दृष्टेत्यनुमीयते ॥
॥१॥भिक्षाम३अन् यथा स्वप्ने दृष्टो देहो न स स्वयम् ।
जाग्रद्दृश्यात् तथा देहाद् द्रष्टृत्वादन्य एव सः ॥
॥२॥मूषासिक्तं यथा ताम्रं तन्निभं जायते तथा ।
रूपादीन् व्याप्नुवच् चित्तं तन्निभं दृश्यते ध्रुवम् ॥
॥३॥व्यञ्जको वा यथालोको व्यङ्ग्यस्याकारतामियात् ।
सर्वार्थव्यञ्जकत्वाद् धिरर्थाकारा प्रदृश्यते ॥
॥४॥धीरेवार्थस्वरूपा हि पुंसा दृष्टा पुरापि च ।
न चेत् स्वप्ने कथं पश्येत् स्मरतो वाकृतिः कुतः ॥
॥५॥व्यञ्जकत्वं तदेवास्या रूपाद्याकारदृश्यता ।
द्रष्टृत्वं च दृशेस्तद्वद् व्याप्तिः स्याद् धिय उद्भवे ॥
॥६॥चिन्मात्रज्योतिषा सर्वाः सर्वदेहेषु बुद्धयः ।
मया यस्मात् प्रकाश्यन्ते सर्वस्यात्मा ततो ह्यहम् ॥
॥७॥करणं कर्म कर्ता च क्रिया स्वप्ने फलं च धीः ।
जाग्रत्येवं यतो दृष्टा द्रष्टा तस्मात् ततोऽन्यथा ॥
॥८॥बुद्ध्यादीनामनात्मत्वं हेयोपादेयरूपतः ।
हानोपादानकर्तात्मा न त्याज्यो न च गृह्यते ॥
॥९॥सबाह्याभ्यन्तरे शुद्धे प्रज्ञानैकरसे घने ।
बाह्यमाभ्यन्तरं चान्यत् कथं हेयं प्रकल्प्यते ॥
॥१०॥य आत्मा नेति नेतीति परापोहेन शेषितः ।
स चेद् ब्रह्मविदात्मेष्टो यतेतातः परं कथम् ॥
॥११॥अशनायाद्यतिक्रान्तं ब्रह्मैवास्मि निरन्तरम् ।
कार्यवान् स्यां कथं चाहं विमृशेदेवमञ्जसा ॥
॥१२॥पारगस्तु यथा नद्यास्तत्स्थः पारं यियासति ।
आत्मज्ञश्चेत् तथा कार्यं कर्तुमन्यदिहेच्छति ॥
॥१३॥आत्मज्ञस्यापि यस्य स्याद् धानोपादानता यदि ।
अ मोक्षार्हः स विज्ञेयो वान्तोऽसौ ब्रह्मणा ध्रुवम् ॥
॥१४॥सादित्यं हि जगत् प्राणस्तस्मान् नाहर्निशैव वा ।
प्राणज्ञस्यापि न स्यातां कुतो ब्रह्मविदोऽद्वये ॥
॥१५॥न स्मरत्यात्मनो ह्यात्मा विस्मरेद् वाप्यलुप्तचित् ।
मनोऽपि स्मरतीत्येतज् ज्ञानमज्ञानहेतुजम् ॥
॥१६॥ज्ञातुर्ज्ञेयः परो ह्यात्मा सोऽविद्याकल्पितः स्मृतः ।
अपोढे विद्यया तस्मिन् रज्ज्वां सर्प इवाद्वयः ॥
॥१७॥कर्तृकर्मफलाभावात् सबाह्याभ्यन्तरं ह्यजम् ।
ममाहं चेति यो भावस्तस्मिन् कस्य कुतो भवेत् ॥
॥१८॥आत्मा ह्यात्मीय इत्येष भावोऽविद्याप्रकल्पितः ।
आत्मैकत्वे ह्यसौ नास्ति बीजाभावे कुतः फलम् ॥
॥१९॥द्रष्टृ श्रोतृ तथा मन्तृ विज्ञात्रेव तदक्षरम् ।
द्रष्ट्राद्यन्यन् न तद् यस्मात् तस्माद् द्रष्टाहमक्षरम् ॥
॥२०॥स्थावरं जङ्गमं चैव द्रष्टृत्वादिक्रियायुतम् ।
सर्वमक्षरमेवातः सर्वस्यात्माक्षरं त्वहम् ॥
॥२१॥अकार्यशेषमात्मानमक्रियात्मक्रियाफलम् ।
निर्ममं निरहंकारं यः पश्यति स पश्यति ॥
॥२२॥ममाहंकारयत्नेच्छाः शून्या एव स्वभावतः ।
आत्मनीति यदि ज्ञातमाध्वं स्वस्थाः किमीहितैः ॥
॥२३॥योऽहंकर्तारमात्मानं तथा वेत्तारमेव यः ।
वेत्त्यनात्मज्ञ एवासौ योऽन्यथाज्ञः स आत्मवित् ॥
॥२४॥यथान्यत्वेऽपि तादात्म्यं देहादिष्वात्मनो मतम् ।
तथाकर्तुरविज्ञानात् फलकर्मात्मतात्मनः ॥
॥२५॥दृष्टिः श्रुतिर्मतिर्ज्ञातिः स्वप्ने दृष्टा जनैः सदा ।
तासामात्मस्वरूपत्वादतः प्रत्यक्षतात्मनः ॥
॥२६॥परलोकभयं यस्य नास्ति मृत्युभयं तथा ।
तस्यात्मज्ञस्य शोच्याः स्युः सब्रह्मेन्द्रा अपीश्वराः ॥
॥२७॥ईश्वरत्वेन किं तस्य ब्रह्मेन्द्रत्वेन वा पुनः ।
तृष्णा चेत् सर्वतश्छिन्ना सर्वदैन्योद्भवाशुभा ॥
॥२८॥अहमित्यात्मधीर्या च मम्मेत्यात्मीयधीरपि ।
अर्थशून्ये यदा यस्य स आत्मज्ञो भवेत् तदा ॥
॥२९॥बुद्ध्यादौ सत्युपाधौ च तथासत्यविशेषता ।
यस्य चेदात्मनो ज्ञाता तस्य कार्यं कथं भवेत् ॥
॥३०॥प्रसन्ने विमले व्योम्नि प्रज्ञानैकरसेऽद्वये ।
उत्पन्नात्मधियो ब्रूत किमन्यत् कार्यमिष्यते ॥
॥३१॥आत्मानं सर्वभूतस्थममित्रं चात्मनोऽपि यः ।
पश्यन्निच्छत्यसौ नूनं शीतीकर्तुं विभावसुम् ॥
॥३२॥प्रज्ञाप्राणानुकार्यात्मा छायेवाक्षादिगोचरः ।
ध्यायतीवेति चोक्तो हि शुद्धो मुक्तः स्वतो हि सः ॥
॥३३॥अप्राणस्यामनस्कस्य तथासंसर्गिणो दृशेः ।
व्योमवद् व्यापिनो ह्यस्य कथं कार्यं भवेन् मम ॥
॥३४॥असमाधीं न पश्यामि निर्विकारस्य सर्वदा ।
ब्रह्मणो मे विशुद्धस्य शोध्यं चान्यद् विपाप्मनः ॥
॥३५॥गन्तव्यं च तथैवाहं सर्वगस्याचलस्य च ।
नोर्ध्वं नाधस्तिरो वापि निष्कलस्यागुणत्वतः ॥
॥३६॥चिन्मात्रज्योतिषो नित्यं तमस्तस्मिन् न विद्यते ।
कथं कार्यं ममैवाद्य नित्यमुक्तस्य शिष्यते ॥
॥३७॥अमनस्कस्य का चिन्ता क्रिया वानिन्द्रियस्य का ।
अप्राणो ह्यमनाः शुभ्र इति सत्यं श्रुतेर्वचः ॥
॥३८॥अकालत्वाददेशत्वाददिकत्वादनिमित्तः ।
आत्मनो नैव कालादेरपेक्षा ध्यायतः सदा ॥
॥३९॥यस्मिन् देवाश्च वेदश्च पवित्रं कृत्स्नमेकताम् ।
व्रजेत् तन् मानसं तीर्थं यस्मिन् स्नात्वामृतो भवेत् ॥
॥४०॥न चास्ति शब्दादिरनन्यवेदनः परस्परेणापि न चैव दृश्यते ।
परेण दृश्यास्तु यथा रसादयस्तथैव दृश्यत्वत एव दैहिकाः ॥
॥४१॥अहं ममेत्येषणयत्नविक्रियाः सुखादयस्तद्वदिह प्रदृश्यतः ।
दृश्यत्वयोगाच् च परस्परेण ते न दृश्यतां यान्ति ततः परो भवेत् ॥
॥४२॥अहंक्रियाद्या हि समस्तविक्रिया सकर्तृका कर्मफलेन संहिता ।
चितिस्वरूपेण समन्ततोऽर्कवत् प्रकाश्यमानासिततात्मनो ह्यतः ॥
॥४३॥दृशिस्वरूपेण हि सर्वदेहिनां वियद् यथा व्याप्य मनांस्यवस्थितः ।
अतो न तस्मादपरोऽस्ति वेदिता परोऽपि तस्मादत एक ईश्वरः ॥
॥४४॥शरीरबुद्ध्योर्यदि चान्यदृश्यता निरात्मवादाः सुनिराकृता मया ।
परश्च सिद्धो ह्यविशुद्धिकर्मतः सुनिर्मलः सर्वगतोऽसितोऽद्वयः ॥
॥४५॥घटादिरूपं यदि ते न गृह्यते मनः प्रवृत्तं बहुधा स्ववृत्तिभिः ।
अशुद्ध्यचिद्रूपविकारदोषता मतेर्यथा वारयितुं न पार्यते ॥
॥४६॥यथा विशुद्धं गगनं निरन्तरं न सज्जते नापि च लिप्यते तथा ।
समस्तभूतेषु सदैव तेष्वयं समः सदात्मा ह्यजरोऽमरोऽभयः ॥
॥४७॥अमूर्तमूर्तानि च कर्मवासना दृशिस्वरूपस्य बहिः प्रकल्पिताः ।
अविद्यया ह्यात्मनि मूढदृष्टिभिरपोह्य नेतीति अवशेषितो दृशिः ॥
॥४८॥प्रबोधरूपं मनसोऽर्थयोगजं स्मृतौ च सुप्तस्य च दृश्यतेऽर्थवत् ।
तथैव देहप्रतिमानतः पृथग् दृशेः शरीरं च मनश्च दृश्यतः ॥
॥४९॥स्वभावशुद्धे गगने घनादिके मलेऽपायते सति चाविशेषता ।
यथा च तद्वच् छ्रुतिवारितद्वये सदाविशेषो गगनोपमे दृशौ ॥
॥५०॥