skipLink.label

आपस्तम्ब — प्रातः सन्ध्या

**द्विराचम्य​**
आचमनं
ओं अच्युताय नम​:ओं अनन्ताय नम​:ओं गोविन्दाय नम​:
केशवनारायणमाधव
गोविन्दविष्णुमधुसूदन
त्रिविक्रमवामनश्रीधर
हृषीकेश​पद्मनाभ​दामोदरा
श्री गणपति ध्यानं

शुक्लां बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

प्रसन्न वदनं ध्यायेत् सर्व विध्नोप शांतये ॥

प्राणायाम​:

ऒं भू: ऒं भुव: ओꣳसुव​: ऒं मह: ऒं जन​: ऒं तप: ऒं ꣳसत्यं । ऒं तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया᳚त् ॥

ऒं आपो॒ ज्योती॒रसो॒म्रुतं॒ ब्रह्म॒ भूर्भुव॒सुव॒रोम् ।

इति त्रि: उक्त्वा - प्राणायामान्ते दक्षिण कर्णं स्पृष्ट्वा

सङ्कल्पम्

ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं प्रात: सन्ध्यां उपासिष्ये।

इति सङ्कल्प्य​

मार्जनम्

आपो॒हिष्ठा म॑यो॒भुव॑: । ता न॑ ऊ॒र्जे द॑धात न । म॒हेरणा॑य॒ चक्ष॑से ॥ योव॑श्शि॒वत॑मो॒ र​​स॑: । त​स्य॑ भाजय ते॒ह न॑: । उ॒श॒तीरि॑व मा॒तर॑: ॥ तस्मा॒ अर॑ङ्ग​मामव: । यस्य॒क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च न: ॥

इति शिरसि प्रोक्ष्य​

ओं भूर्भुव॒:सुव॑: ।

इति आत्मानं परिषिच्य​

प्राशनम्

सूर्यश्च मा मऩ्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्य​: । पापेभ्यो॑ रक्ष॒न्ताम् । यद्रात्रिया पाप॑मका॒र्षम् । मनसावाचा॑ हस्ता॒भ्यां । पद्भ्यामुदरे॑णशि॒ष्न । रात्रि॒स्तद॑व लु॒म्पतु । यत्किंच॑ दुरि॒तं मयि॑ । इदमहं माममृ॑त यो॒नौ । सूर्ये ज्योतिषि जुहो॑मि स्वा॒हा।

इति अप​: प्राश्य​

आचमनं — पुनः
आचमनं
ओं अच्युताय नम​:ओं अनन्ताय नम​:ओं गोविन्दाय नम​:
केशवनारायणमाधव
गोविन्दविष्णुमधुसूदन
त्रिविक्रमवामनश्रीधर
हृषीकेश​पद्मनाभ​दामोदरा
पुनर्माजनम्

द॒धिक्राव्णो॑ अकार्षम् । जि॒ष्णो रश्व॑स्य वा॒जि न॑: । सु॒र॒भिनो॒ मुका॑करत् । प्रण॒ आयूꣳ॑षि तारिषत् ॥

आपो॒हिष्ठा म॑यो॒भुव॑: । ता न॑ ऊ॒र्जे द॑धात न । म॒हेरणा॑य॒ चक्ष॑से ॥ योव॑श्शि॒वत॑मो॒ र​​स॑: । त​स्य॑ भाजय ते॒ह न॑: । उ॒श॒तीरि॑व मा॒तर॑: ॥ तस्मा॒ अर॑ङ्ग​मामव: । यस्य॒क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च न: ॥

इति शिरसि प्रोक्ष्य​

ओं भूर्भुव॒:सुव॑: ।

इति आत्मानं परिषिच्य​

अर्घ्य प्रदानं

ओं भूर्भुव॒:सुव॑: तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑॑त् ॥

इति अर्घ्यं त्रिवारं दद्यात्

प्राणायाम​:

ऒं भू: ऒं भुव: ओꣳसुव​: ऒं मह: ऒं जन​: ऒं तप: ऒं ꣳसत्यं । ऒं तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया᳚त् ॥

ऒं आपो॒ ज्योती॒रसो॒म्रुतं॒ ब्रह्म॒ भूर्भुव॒सुव॒रोम् ।

प्रायश्चित्त अर्घ्यं

ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं प्रात: सन्ध्या कालातीत प्रायश्चित्त अर्घ्यप्रदानं करिष्ये ॥ ओं भूर्भुव॒:सुव॑: तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया᳚त् ॥

ओं भूर्भुव॒:सुव॑ असावादित्यो ब्रह्मा । ब्रह्मैवाहमस्मि ।

इति आत्मानं परिषिच्य​

आचमनं — पुनः
आचमनं
ओं अच्युताय नम​:ओं अनन्ताय नम​:ओं गोविन्दाय नम​:
केशवनारायणमाधव
गोविन्दविष्णुमधुसूदन
त्रिविक्रमवामनश्रीधर
हृषीकेश​पद्मनाभ​दामोदरा
केशवादि तर्पणं
१. आदित्यं तर्पयामि२.सोमम् तर्पयामि३.अङ्गारकम् तर्पयामि
४.बुधं तर्पयामि५.बृहस्पतिं तर्पयामि६.शुक्रं तर्पयामि
७.शनैश्चरं तर्पयामि८.राहुं तर्पयामि९.केतुं तर्पयामि
१०.केशवं तर्पयामि११.नारायणं तर्पयामि१२.माधवं तर्पयामि
१३.गोविन्दं तर्पयामि१४.विष्णुं तर्पयामि१५.मधुसूदनं तर्पयामि
१६.त्रिविक्रमं तर्पयामि१७.वामनं तर्पयामि१८.श्रीधरं तर्पयामि
१९.हृषीकेशं तर्पयामि२०.पद्मनाभं तर्पयामि२१.दामोदरं तर्पयामि

इति जलेन नव - द्वादश च तर्पणानि कृत्वा

आचमनं — पुनः
आचमनं
ओं अच्युताय नम​:ओं अनन्ताय नम​:ओं गोविन्दाय नम​:
केशवनारायणमाधव
गोविन्दविष्णुमधुसूदन
त्रिविक्रमवामनश्रीधर
हृषीकेश​पद्मनाभ​दामोदरा
##### प्रार्थना >नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नम: ॥ आब्रह्मलोकादाशेषात् आलोकालोकपर्वतात् । ये वसन्ति द्विजा देवा: तेभ्यो नित्यं नमो नम: ॥ ##### भूमि प्रार्थना >अपसर्पन्तु ते भूता ये भूता भुवि संस्थिता: । ये भूता विघ्नकर्तार​: ते गच्छन्तु शिवाज्ञया ॥ उग्रभूत पिशाचाद्या: ये च वै भूमिधारका: । एतेषामविरोधेन ब्रह्मकर्म समारभे ॥ *इति अन्जलिं कृत्वा - भूमिं प्रार्थ्य​* ##### आसनम् **आसन महामन्त्रस्य - पृथिव्या: मेरो: पृष्ठ ऋषि: - कूर्मो देवता - अतलं छन्द​: - आसने विनियोग​:** >पृथ्वि त्वया धृता लोका: देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनं ॥
श्री गणपति ध्यानं

शुक्लां बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

प्रसन्न वदनं ध्यायेत् सर्व विध्नोप शांतये ॥

प्राणायाम​:

ऒं भू: ऒं भुव: ओꣳसुव​: ऒं मह: ऒं जन​: ऒं तप: ऒं ꣳसत्यं । ऒं तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया᳚त् ॥

ऒं आपो॒ ज्योती॒रसो॒म्रुतं॒ ब्रह्म॒ भूर्भुव॒सुव॒रोम् ।

इति त्रि: उक्त्वा - प्राणायामान्ते दक्षिण कर्णं स्पृष्ट्वा

सङ्कल्पम्

ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं प्रात: सन्ध्याङ्ग यथा शक्ति गायत्रि महामंत्र जपं करिष्ये ॥

प्राणायाम - न्यासं
  • प्रणवस्य ऋषि: ब्रह्मा, देवी गायत्री छंद​:, परमात्मा देवता
  • भूरादि सप्त व्याह्रुतीनाम् अत्रि - भ्रुगु - कुत्स - वसिष्ठ - गौतम - काष्यप - आङ्गीरस​ ऋषय:
  • गायत्रि - उष्णिक् - अनुष्टुप् - ब्रुहती - पङ्ती - त्रिष्टुप् - जगत्यश्छ्न्दांसि
  • अग्नि - वायु - अर्क - वागीश - वरुण - इन्द्र - विश्वेदेवा देवता: प्राणायामे विनियोग:
प्राणायाम​:

ऒं भू: ऒं भुव: ओꣳसुव​: ऒं मह: ऒं जन​: ऒं तप: ऒं ꣳसत्यं । ऒं तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया᳚त् ॥

ऒं आपो॒ ज्योती॒रसो॒म्रुतं॒ ब्रह्म॒ भूर्भुव॒सुव॒रोम् ।

गायत्री आवाहनम्

**आयात्विति अनुवाकस्य वामदेव ऋषि:, अनुष्टुप् छंद​:, गायत्री देवता आवाहने विनियोग:**

आया॑तु॒ वर॑दा दे॒वि॒ अ॒क्षरं॑ ब्रह्म॒ सम्मि॑तम् । गा॒य॒त्री॑म् छंद॑सांमा॒तेतम् ब्र॑ह्म जु॒षस्व॑मे ॥

ओजो॑सि॒ - सहो॑सि॒ - बल॑मसि॒ - भ्राजो॑सि - दे॒वाना॒म् धाम॒नामा॑सि॒ - विश्व॑मसि वि॒श्वायु॒: सर्व॑मसि स॒र्वायुरभिभूरोम्

  • गायत्रीं आवाहयामि
  • सावित्रीं आवाहयामि
  • सरस्वतीं आवाहयामि

इति गायत्रीं सूर्य मण्डले स्वहृदये वा आवाह्य​

गायत्री न्यासम्

**विष्वामित्र ऋषि:, सविता देवता, निच्रुत् गायत्री छंद​:**

ध्यानम्

मुक्ता - विद्रुम - हेम - नील - धवलच्छायैर्मुखैस्त्रीक्षणै: युक्तामिंदुकला-निबद्धरत्ऩमकुटाम् तत्त्वार्थ - वर्णात्मिकाम् ।

गायत्रीं वरदाभयांकुश - कशा​:शुभ्रम्गपालं गदां

शंखं - चक्र - मथारविंदयुगलं हस्तैर्वहंतीं भजे ॥

इति सावित्रीमूर्तिध्यानं कृत्वा​

गायत्री जपम्

ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑॑त् ॥

कणिष्ठिकामूलमारभ्य प्रादक्षिण्येन गणयन् यथासङ्कल्पं पन्चावसानं गायत्री मन्त्रं जपेत्

प्राणायाम​:

ऒं भू: ऒं भुव: ओꣳसुव​: ऒं मह: ऒं जन​: ऒं तप: ऒं ꣳसत्यं । ऒं तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया᳚त् ॥

ऒं आपो॒ ज्योती॒रसो॒म्रुतं॒ ब्रह्म॒ भूर्भुव॒सुव॒रोम् ।

सङ्कल्पम् - उपस्थानं

ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं प्रात: सन्ध्या गायत्री उपस्थानं करिष्ये ॥

अभिवाद नमस्कार​:

अभिवादये ___ त्रयार्षेय​।पञ्चार्षेय प्रवरान्वित ___ गोत्र​: ___ आपस्तम्ब सूत्र​: ___ यजुश्शाखाध्यायी ___ शर्मा नाम अहं अस्मि भो:।

इति ताम् ताम् दिशं प्रति अन्जलिं कृत्वा

१. प्राच्यै नम​:२. दक्षिणायै नम​:
३. प्रतीच्यै नम​:४. उदीच्यै नम​:
५. ऊर्ध्वाय नम​:६. अधराय नम​:
७. अन्तरिक्षाय नम​:८. भूम्यै नम​:
९. ब्रह्मणे नम​:१०. विष्णवे नम​:
११. मृत्यवे नम​:१२. यमाय नम​:

यमाय धर्मराजाय मृत्यवे चांतकाय च । वैवस्वताय कालाय सर्वभूतक्षयाय च ।

औदुंबराय तध्नाय नीलाय परमेष्ठिने । व्रुकोधराय चित्राय चित्रगुप्ताय वै नम: ॥

चित्रगुप्ताय वै नमो नम इति ।

ऋतं सत्यं परं ब्रह्म पुरुषं क्रुष्ण पिंगलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपायवै नम: ॥ विश्वरूपायवै नमो नम इति ।

नर्मदायै नम: प्रातर्नर्मदायै नमो निशि । नमोस्तु नर्मदे तुभ्यं पाहिमां विषसर्पत: ॥ अपसर्प सर्प भत्रं ते दूरं गच्छ महायश: । जनमेजयस्य यञांते आस्तीक वचनं स्मरन् ॥ जरत्कारो जरत्कार्वां समुत्पन्नो महायशा: । आस्तीक: सत्य संधोमां पन्नगेभ्योभिरक्षतु ॥

नमस्सवित्रे जगदेक चक्षुषे जगत्प्रसूति-स्थिति नाशहेतवे । त्रयीमयाय त्रिगुणात्म धारिणे विरिंचि नारायण शंकरात्मने ॥ध्येयस्स्दा सवित्रुमंडल मध्यवर्ती नारायण: सरसिजासन सन्निविष्ट: ।केयूरवान् मकरकुंडलवान् किरीटिहारि हिराण्मय वपुर्ध्रुत शंख चक्र: ॥

शंखचक्र गदापाणे द्वारका निलयाच्युत । गोविंद पुंडरीकाक्ष रक्षमां शरणागतम् ॥

आकशात्पतितम्तोयं यथा गच्छति सागरम् । सर्व देव नमस्कार: केशवं प्रतिगच्छति ॥

केशवं प्रतिगच्छत्योम् नम इति ।

अभिवाद नमस्कार​:

अभिवादये ___ त्रयार्षेय​।पञ्चार्षेय प्रवरान्वित ___ गोत्र​: ___ आपस्तम्ब सूत्र​: ___ यजुश्शाखाध्यायी ___ शर्मा नाम अहं अस्मि भो:।

आचमनं — पुनः
आचमनं
ओं अच्युताय नम​:ओं अनन्ताय नम​:ओं गोविन्दाय नम​:
केशवनारायणमाधव
गोविन्दविष्णुमधुसूदन
त्रिविक्रमवामनश्रीधर
हृषीकेश​पद्मनाभ​दामोदरा

कायेन वाचा मनसेंद्रियैर्वा बुद्ध्यात्म​नावा प्रक्रुते स्वभावात् । करोमि यद्यत्सकलं परस्मै नारायाणायेति समर्पयामि

अ॒द्यानो॑ देव सवित​: । प्र॒जाव॑त्सवी॒: सौभ॑गम् । परा॑ दु॒ष्वप्नि॑यम् सुव ।

विश्वा॑नि देव सवित​: । दुरि॒तानि॒ परा॑सुव । यद् भ॒द्रं तन्म॒ आसु॑व ।

जप स्थलं प्रोक्ष्य तन्मृदं हृदि धारयेत्

॥ ओं तत्सत् ब्रह्मार्पणमस्तु ॥