मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

आपस्तम्ब ब्रह्मयज्ञम्

Also spelled: Apastamba Brahmayagyam · Apasthamba Brahmayagyam

Āpastamba brahmayajñam (brahmayagyam) with svara.

3
आचमनं
ओं अच्युताय नम​:ओं अनन्ताय नम​:ओं गोविन्दाय नम​:
केशवनारायणमाधव
गोविन्दविष्णुमधुसूदन
त्रिविक्रमवामनश्रीधर
हृषीकेश​पद्मनाभ​दामोदरा
श्री गणपति ध्यानं

शुक्लां बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

प्रसन्न वदनं ध्यायेत् सर्व विध्नोप शांतये ॥

प्राणायाम​:

ऒं भू: ऒं भुव: ओꣳसुव​: ऒं मह: ऒं जन​: ऒं तप: ऒं ꣳसत्यं । ऒं तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया᳚त् ॥

ऒं आपो॒ ज्योती॒रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒सुव॒रोम् ।

सङ्कल्पम्
heading.anchorLabel

ममोपात्त समस्त दुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थं ब्रह्मयज्ञं करिष्ये । ब्रह्मयज्ञेन यक्ष्ये ।

यज्ञः
heading.anchorLabel

विद्यु॑दसि॒ विद्य॑ मे पा॒पमान॑मृ॒तात् स॒त्यमुपै॑मि ।

हस्तौ प्रक्षाल्य त्रिराचमेत् । उपस्थं कृत्वा ।

ॐ भूः । तत्स॑वि॒तुर्वरे᳚ण्यं॒ । ॐ भुवः । भर्गो॑ दे॒वस्य॑ धीमहि । ओꣳ सुवः । धियो॒ यो नः॑ प्रचो॒दया᳚त् । ॐ भूः तत्स॑वि॒तुर्वरे᳚ण्यं॒ । भर्गो॑ दे॒वस्य॑ धीमहि । ॐ भुवः । धियो॒ यो नः॑ प्रचो॒दया᳚त् । ओꣳ सुवः । तत्स॑वि॒तुर्वरे᳚ण्यं॒ । भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया᳚त् ।

अग्निमीळे - मधुच्छन्दः । अग्निः । गायत्री ।

॥ वेदादयः ॥

हरिः ॐ । अ॒ग्निमी᳚ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विजम्᳚। होता᳚रं रत्न॒-धात॑मम् ॥ हरिः॑ ॐ॥

हरिः ॐ । इ॒षेत्वो॒र्जे त्वा॑ वा॒यवः॑ स्थो पा॒यवः॑ स्थ दे॒वो वः॑ सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑णे ॥ हरिः॑ ॐ॥

हरिः ॐ । अग्न॒ आया॑हि वी॒तये॑ गृणा॒नो ह॒व्यदा॑तये । नि होता॑ सथ्सि ब॒र्हिषि॑ ॥ हरिः॑ ॐ॥

हरिः ॐ । शन्नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये᳚ । शं योर॒भिस्र॑वन्तु नः ॥ हरिः॑ ॐ॥

ॐ भूर्भुवः॒ सुवः॑ ।

सत्यं तपः श्रद्धायां॑ जुहो॒मि ॥

ॐ॥ नमो॒ ब्रह्म॑णे॒ नमो॑ अस्त्व॒ग्नये॒ नमः॑ पृथि॒व्यै नम॒ ओष॑धीभ्यः। नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये॒ नमो॒ विष्ण॑वे बृह॒ते क॑रोमि॥ (त्रिः)

वृष्टि॑रसि॒ वृश्च॑मे पा॒प्मान॑मृ॒तात्स॒त्यमुपागाम् ॥

हस्तौ प्रक्षाल्य ।

देवर्षि-पितृ-तर्पणं करिष्ये ॥

॥ देवर्षिपितृ - तर्पणम् ॥

उपवीती । सकृत् देवतीर्थेन ।

१.ब्रह्मादयो ये देवाः तान् देवाꣴस्तर्पयामि२.सर्वान् देवाꣴस्तर्पयामि
३.सर्वदेवगणाꣴस्तर्पयामि४.सर्वदेवपत्नीस्तर्पयामि
५.सर्वदेवगणपत्नीस्तर्पयामि

निवीती । द्विः । ऋषितीर्थेन ।

१.कृष्णद्वैपायनादयो ये ऋषयस्तान् ऋषीꣴस्तर्पयामि२.सर्वान् ऋषीꣴस्तर्पयामि३.सर्वर्षिगणाꣴस्तर्पयामि
४.सर्वर्षिपत्नीस्तर्पयामि५.सर्वर्षिगणपत्नीस्तर्पयामि६.प्रजापतिं काण्डऋषिं तर्पयामि
७.सोमं काण्डऋषिं तर्पयामि८.अग्निं काण्डऋषिं तर्पयामि९.विश्वान् देवान् काण्डऋषीꣴस्तर्पयामि

सकृत् देवतीर्थेन

१०.साꣳहितीर्देवताः उपनिषदस्तर्पयामि११.याज्ञिकीर्देवताः उपनिषदस्तर्पयामि
१२.वारुणीर्देवताः उपनिषदस्तर्पयामि१३.हव्यवाहं तर्पयामि
१४.विश्वान् देवान् काण्डऋषीꣴस्तर्पयामि

द्विः। ब्रह्मतीर्थेन

१५.ब्रह्माणं स्वयम्भुवं तर्पयामि

पुनः ऋषितीर्थेन। द्विः

१६.विश्वान् देवान् काण्डऋषीꣴस्तर्पयामि१७.अरुणान् काण्डऋषीꣴस्तर्पयामि

सकृत् देवतीर्थेन

१८.सदसस्पतिं तर्पयामि१९.ऋग्वेदं तर्पयामि२०.यजुर्वेदं तर्पयामि
२१.सामवेदं तर्पयामि२२.अथर्ववेदं तर्पयामि२३.इतिहासपुराणं तर्पयामि
२४.कल्पं तर्पयामि

प्राचीनावीती । त्रिः । पितृतीर्थेन ।

१. सोमः पितृमान् यमोऽङ्गिरस्वान् अग्निः कव्यवाहनः
इत्यादयो ये पितरस्तान् पितॄꣴस्तर्पयामि
२. सर्वान् पितॄꣴस्तर्पयामि
३. सर्वपितृगणाꣴस्तर्पयामि४. सर्वपितृ-पत्नीस्तर्पयामि
५. सर्वपितृ-गण-पत्नीस्तर्पयामि

पितृवर्ग / मातृवर्ग - तर्पणानि – जीवत्पितृकः न कुर्यात् ।

१.पितॄन् स्वधा नमस्तर्पयामि२.पितामहान् स्वधा नमस्तर्पयामि३.प्रपितामहान् स्वधा नमस्तर्पयामि
४.मातृः स्वधा नमस्तर्पयामि५.पितामही स्वधा नमस्तर्पयामि६.प्रपितामही स्वधा नमस्तर्पयामि
७.मातामहान् स्वधा नमस्तर्पयामि८.मातुः पितामहान् स्वधा नमस्तर्पयामि९.मातुः प्रपितामहान् स्वधा नमस्तर्पयामि
१०.मातामही स्वधा नमस्तर्पयामि११.मातुः पितामही स्वधा नमस्तर्पयामि१२.मातुः प्रपितामही स्वधा नमस्तर्पयामि
ऊर्जं वहन्ती-रमृतं घृतं पयः कीलालं परिस्रुतं स्वधास्थ तर्पयत मे पितॄन् ॥ तृप्यत, तृप्यत, तृप्यत ॥

उपवीती

कायेन वाचा मनसेंद्रियैर्वा बुध्यात्मनावा प्रक्रुते स्वभावात् । करोमि यद्यत्सकलं परस्मै नारायाणायेति समर्पयामि ॥

आचमनं
ओं अच्युताय नम​:ओं अनन्ताय नम​:ओं गोविन्दाय नम​:
केशवनारायणमाधव
गोविन्दविष्णुमधुसूदन
त्रिविक्रमवामनश्रीधर
हृषीकेश​पद्मनाभ​दामोदरा

॥ ओं तत्सत् ब्रह्मार्पणमस्तु ॥