मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

काण्व ब्रह्मयज्ञम्

Vājasaneyi Kāṇva brahmayajñam (brahmayagyam) — Veda openings with svara, tarpaṇam, arghya and sūryopasthānam.

3
ब्रह्मयज्ञः

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

प्राणायामं कृत्वा सङ्कल्पं करोति ।

ब्रह्मयज्ञेन यक्ष्ये (ब्रह्मयज्ञस्वाध्यायजपं करिष्ये) ॥

विद्युदसि विद्य मे पाप्मानमृतात्सत्यमुपैमि ॥

इति हस्तयोः अवनेजनम् । त्रिराचम्य द्विः परिमृजति ।

सकृदुपस्पृश्य शिरश्चक्षुषी श्रोत्रे नासिके मुखं हृदयं चालभ्य, सव्यं पाणिं पादौ च प्रोक्ष्य, दक्षिणोत्तरौ पाणी पादौ कृत्वा जपति ।

वेदाध्ययनम्

ॐ भूर्भुव॒ः स्व॒ः । तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो न॑ः प्रचो॒दया॑त् ॥

एवं त्रिः ।

ॐ प्र नो॑ यच्छत्वर्य॒मा प्र पू॒षा प्र सर॑स्वती । प्र वाग्दे॒वी द॑दातु नः ॥

अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय ।

वाचं॒ विष्णु॒ᳪ सर॑स्वतीᳪ सवि॒तारं॑ च वा॒जिन॑म् ॥

॥ यजुर्वेदादिः ॥

ॐ इ॒षे त्वो॒र्जे त्वा॑ वा॒यव॑स्स्थ । दे॒वो व॑स्सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑णे ॥ ॐ

॥ ऋग्वेदादिः ॥

ॐ अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् । होता॑रं रत्न॒धात॑मम् ॥ ॐ

॥ सामवेदादिः ॥

ॐ अ꣢ग्न꣣ आ꣡ या꣢हि वी꣣त꣡ये꣢ गृणा꣣नो꣢ ह꣣व्य꣡दा꣢तये । नि꣡ होता꣢꣯ सत्सि ब꣣र्हि꣡षि꣢ ॥

॥ अथर्ववेदादिः ॥

ॐ शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ । शं योर॒भि स्र॑वन्तु नः ॥ ॐ

ॐ ई॒शा वा॒स्य॑मि॒दᳪ सर्वं॒ यत्किं च॒ जग॑त्यां॒ जग॑त् ।

तेन॑ त्य॒क्तेन॑ भुञ्जीथा॒ मा गृ॑धः॒ कस्य॑ स्वि॒द्धन॑म् ॥

अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।

यु॒यो॒ध्य॒स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम ॥

पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ नमो ब्रह्मादिभ्यो ब्रह्मविद्यासम्प्रदायकर्तृभ्यो वंशऋषिभ्यो नमो गुरुभ्यः ।

सर्वोपप्लवरहितप्रज्ञानघनप्रत्यगर्थो ब्रह्मैवाहमस्मि ।

अथातोऽधिकारः । फलयुक्तानि कर्माणि ।

पूर्वां पौर्णमासीमुत्तरां वोपवसेत् । अग्न्यन्वाधानमध्वर्युर्यजमानो वा ।

अथातो गृह्यस्थालीपाकानां कर्म ।

जपादौ नाधिकारोऽस्ति सम्यक्पाठमजानतः । प्रातिशाख्यमथो ज्ञेयं सम्यक्पाठस्य सिद्धये ॥

स्वरसंस्कारयोश्छन्दसि नियमः । अथातो धर्मजिज्ञासा । अथातो ब्रह्मजिज्ञासा ॥

ॐ स्वस्ति ॥

ॐ नमो॒ ब्रह्म॑णे॒ नमो॑ अस्त्व॒ग्नये॒ नम॑ः पृथि॒व्यै नम॒ ओष॑धीभ्यः ।

नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये॒ नमो॒ विष्ण॑वे मह॒ते क॑रोमि ॥

(त्रिः)

वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागाम् ॥

इति जलेन हस्तयोः अवनेजनम् । आचमनम् ।

देवतर्पणम्

देवर्षिपितृतर्पणं करिष्ये ॥

देवतीर्थेन कुर्यात् ।

ब्रह्मा तृप्यताम्विष्णुः तृप्यताम्
रुद्रः तृप्यताम्प्रजापतिः तृप्यताम्
देवाः तृप्यन्ताम्छन्दांसि तृप्यन्ताम्
वेदाः तृप्यन्ताम्ऋषयः तृप्यन्ताम्
पुराणाचार्याः तृप्यन्ताम्गन्धर्वाः तृप्यन्ताम्
इतराचार्याः तृप्यन्ताम्संवत्सरः सावयवः तृप्यताम्
देव्यः तृप्यन्ताम्अप्सरसः तृप्यन्ताम्
देवानुगाः तृप्यन्ताम्नागाः तृप्यन्ताम्
सागराः तृप्यन्ताम्पर्वताः तृप्यन्ताम्
सरितः तृप्यन्ताम्मनुष्याः तृप्यन्ताम्
यक्षाः तृप्यन्ताम्रक्षांसि तृप्यन्ताम्
पिशाचाः तृप्यन्ताम्सुपर्णाः तृप्यन्ताम्
भूतानि तृप्यन्ताम्पशवः तृप्यन्ताम्
वनस्पतयः तृप्यन्ताम्ओषधयः तृप्यन्ताम्
भूतग्रामश्चतुर्विधः तृप्यताम्
ऋषितर्पणम्

निवीती ऋषितीर्थेन कुर्यात् ।

सनकः तृप्यताम्सनन्दनः तृप्यताम्
सनातनः तृप्यताम्कपिलः तृप्यताम्
आसुरिः तृप्यताम्वोढुः तृप्यताम्
पञ्चशिखः तृप्यताम्
पितृतर्पणम्

प्राचीनावीती पितृतीर्थेन कुर्यात् ।

कव्यवाडनलः तृप्यताम्सोमः तृप्यताम्
यमः तृप्यताम्अर्यमा तृप्यताम्
अग्निष्वात्ताः पितरः तृप्यन्ताम्सोमपाः पितरः तृप्यन्ताम्
बर्हिषदः पितरः तृप्यन्ताम्यमाय नमस्तृप्तिरस्तु
धर्मराजाय नमस्तृप्तिरस्तुमृत्यवे नमस्तृप्तिरस्तु
अन्तकाय नमस्तृप्तिरस्तुवैवस्वताय नमस्तृप्तिरस्तु
कालाय नमस्तृप्तिरस्तुसर्वभूतक्षयाय नमस्तृप्तिरस्तु
औदुम्बराय नमस्तृप्तिरस्तुदध्नाय नमस्तृप्तिरस्तु
नीलाय नमस्तृप्तिरस्तुपरमेष्ठिने नमस्तृप्तिरस्तु
वृकोदराय नमस्तृप्तिरस्तुचित्राय नमस्तृप्तिरस्तु
चित्रगुप्ताय नमस्तृप्तिरस्तु

जीवत्पितृकाणां एतदन्तं भवति । (यमादितर्पणं कृताकृतम् ।)

मृतपितृकश्चेत् —

___ गोत्रः ___ शर्मा वसुरूपः अस्मत्पिता स्वधा नमस्तृप्यताम्
___ गोत्रः ___ शर्मा रुद्ररूपः अस्मत्पितामहः स्वधा नमस्तृप्यताम्
___ गोत्रः ___ शर्मा आदित्यरूपः अस्मत्प्रपितामहः स्वधा नमस्तृप्यताम्
___ गोत्रा ___ दा वसुरूपा अस्मन्माता स्वधा नमस्तृप्यताम्
___ गोत्रा ___ दा रुद्ररूपा अस्मत्पितामही स्वधा नमस्तृप्यताम्
___ गोत्रा ___ दा आदित्यरूपा अस्मत्प्रपितामही स्वधा नमस्तृप्यताम्
___ गोत्रः ___ शर्मा वसुरूपः अस्मन्मातामहः स्वधा नमस्तृप्यताम्
___ गोत्रः ___ शर्मा रुद्ररूपः अस्मत्प्रमातामहः स्वधा नमस्तृप्यताम्
___ गोत्रः ___ शर्मा आदित्यरूपः अस्मद्वृद्धप्रमातामहः स्वधा नमस्तृप्यताम्
___ गोत्रा ___ दा वसुरूपा अस्मन्मातामही स्वधा नमस्तृप्यताम्
___ गोत्रा ___ दा रुद्ररूपा अस्मत्प्रमातामही स्वधा नमस्तृप्यताम्
___ गोत्रा ___ दा आदित्यरूपा अस्मद्वृद्धप्रमातामही स्वधा नमस्तृप्यताम्

ततः पितृव्य-तत्पत्नी-भ्रातृ-तत्पत्नी-भगिनी-मातुल-मातुलानी-पितृष्वसृ-पैतृष्वस्रीय-मातृष्वसृ-मातृष्वस्रीय-मातुलेयादि-पितृमातृसपिण्डेभ्य एकैकमञ्जलिं दत्वा, समानोदक-सगोत्र-आचार्य-श्वशुर-ऋत्विक्-शिष्य-याज्यादिभ्यः सवर्णेभ्य एकैकमञ्जलिं दद्यात् ।

अर्घ्यप्रदानम्

इतः परं जीवत्पितृकाणामपि भवति । उपवीती आचम्य अर्घ्यप्रदानं कुर्यात् ।

ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः ।

स बु॒ध्न्या॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ ॥

ब्रह्मणे नम इदमर्घ्यम् ।

इ॒दं विष्णु॒र्विच॑क्रमे त्रे॒धा नि द॑धे प॒दम् । समू॑ढमस्य पाᳪसु॒रे स्वाहा॑ ॥

विष्णवे नम इदमर्घ्यम् ।

नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नमः॑ । बा॒हुभ्या॑मु॒त ते॒ नमः॑ ॥

रुद्राय नम इदमर्घ्यम् ।

तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया॑त् ॥

सवित्रे नम इदमर्घ्यम् ।

मि॒त्रस्य॑ चर्षणी॒धृतोऽवो॑ दे॒वस्य॑ सान॒सि । द्यु॒म्नं चि॒त्रश्र॑वस्तमम् ॥

मित्राय नम इदमर्घ्यम् ।

इ॒मं मे॑ वरुण श्रु॒धी हव॑म॒द्या च॑ मृळय । त्वाम॑व॒स्युरा च॑के ॥

वरुणाय नम इदमर्घ्यम् । इत्यर्घ्यं दत्वा उत्थाय —

सूर्योपस्थानम्

अदृ॑श्रमस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॒३ अनु॑ । भ्राज॑न्तो अ॒ग्नयो॑ यथा ॥

ह॒ᳪसः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् ।

नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् ॥

इति सूर्यमुपतिष्ठेत ।

दिग्देवतावन्दनम्

ततो दिग्देवतावन्दनं कुर्यात् ।

प्राच्यै दिशे नमःइन्द्राय नमः
आग्नेय्यै दिशे नमःअग्नये नमः
दक्षिणायै दिशे नमःयमाय नमः
नैर्ऋत्यै दिशे नमःनिर्ऋतये नमः
प्रतीच्यै दिशे नमःवरुणाय नमः
वायव्यै दिशे नमःवायवे नमः
उदीच्यै दिशे नमःसोमाय नमः
ऐशान्यै दिशे नमःईशानाय नमः
ऊर्ध्वायै दिशे नमःब्रह्मणे नमः
अधरायै दिशे नमःअनन्ताय नमः

इति नमस्कृत्य उपविश्य वक्ष्यमाणदेवताभ्यो जलाञ्जलिं दद्यात् ।

ब्रह्मणे नमःअग्नये नमः
पृथिव्यै नमःओषधीभ्यो नमः
वाचे नमःवाचस्पतये नमः
विष्णवे नमःमहद्भ्यो नमः
अद्भ्यो नमःअपांपतये नमः
वरुणाय नमः
मुखमार्जनम् — प्रार्थना

ततोऽञ्जलिना अपो गृहीत्वा मुखं सम्मार्ष्टि —

सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सᳪ शि॒वेन॑ ।

त्वष्टा॑ सु॒दत्रो॒ विद॑धातु॒ रायोऽनु॑मार्ष्टु त॒न्वो॒ यद्विलि॑ष्टम् ॥

ततः प्रार्थना —

देवा॑ गातुविदो गा॒तुमि॒त्त्वा गा॒तुमि॑त । मन॑सस्पत इ॒मं दे॑व य॒ज्ञᳪ स्वाहा॒ वाते॑ धाः ॥

ॐ ॐ ॐ ॐ ॐ