मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्री रमण पूजा

श्री रमण पूजा. Also called ramana puja, ramana maharshi puja, ramana pooja, ramana jayanti.

3

श्रीरमणमहर्षेः प्रतिकृतिं निधाय पूजयेत्। अङ्गपूजानन्तरं श्रीरमणाष्टोत्तरशतनाम्ना सहस्रनाम्ना वा यथाशक्ति अर्चनं कार्यम्।

पूर्वाङ्गपूजा. इदं पूर्वाङ्गं सर्वासु पूजासु समानम् — आदौ आचर्य पश्चात् प्रधानपूजां कुर्यात्। पूर्वाङ्गपूजा

पूर्वाङ्गपूजा

संवृणु
आचमनम्
ध्यानम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

प्राणायामः — सङ्कल्पः

अप उपस्पृश्य

ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं करिष्यमाणस्य कर्मणः निर्विघ्नेन परिसमाप्त्यर्थं आदौ विघ्नेश्वरपूजां करिष्ये।

महद्भन्दनम्

आब्रह्मलोकादारोहात् आलोकात् लोकपर्वतात्।

ये वसन्ति द्विजा देवास्तेभ्यो नित्यं नमो नमः ॥

आसनपूजा

पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता। आसने विनियोगः।

पृथिवि त्वया धृता लोका देवि त्वं विष्णुना धृता।

त्वं च धारय मां देवि पवित्रं चासनं कुरु ॥

घण्टापूजा

घण्टानादं कृत्वा।

आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्।

घण्टारवं करोम्यादौ देवताह्वानकारणम् ॥

विघ्नेश्वरपूजा

अस्मिन् हरिद्राबिम्बे श्रीविघ्नेश्वरं ध्यायामि।

आवाहयामि। आसनं समर्पयामि। पादयोः पाद्यं समर्पयामि। अर्घ्यं समर्पयामि। आचमनीयं समर्पयामि। मधुपर्कं समर्पयामि। स्नानं समर्पयामि। आचमनीयं समर्पयामि। वस्त्रं समर्पयामि। उपवीतं समर्पयामि। दिव्यपरिमलगन्धान् धारयामि। अक्षतान् समर्पयामि। पुष्पैः पूजयामि।

सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णिकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
सिद्धिविनायकाय नमः
श्रीमहागणपतये नमः
उपचाराः

धूपमाघ्रापयामि। दीपं दर्शयामि। निवेदयामि। कर्पूरनीराजनं दर्शयामि। समस्तोपचारपूजां समर्पयामि।

प्रार्थना

वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ।

निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

इति प्रार्थ्य। प्राणायामः।

सङ्कल्पः

शुभे शोभने मुहूर्ते आद्यब्रह्मणः द्वितीयपराधे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोर्दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिके प्रभवादिषष्टिसंवत्सराणां मध्ये …… नाम संवत्सरे …… अयने …… ऋतौ …… मासे …… पक्षे …… शुभतिथौ …… वासरयुक्तायां …… नक्षत्रयुक्तायां शुभयोगशुभकरणसकलविशेषणविशिष्टायामस्यां शुभतिथौ ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं अस्माकं सहकुटुम्बानां क्षेमस्थैर्यधैर्यवीर्यविजयायुरारोग्यैश्वर्याभिवृद्ध्यर्थं अहरहः सत्सन्तानसमृद्ध्यर्थं समस्तमङ्गलावाप्त्यर्थं समस्तदुरितोपशान्त्यर्थं धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं इष्टकाम्यार्थसिद्ध्यर्थं (सुमङ्गल्यः) दीर्घसौमङ्गल्यावाप्त्यर्थं (इतरे) ज्ञानवैराग्यसिद्ध्यर्थं श्रीरमणप्रीत्यर्थं श्रीरमणप्रसादसिद्ध्यर्थं यावच्छक्ति षोडशोपचारविधानेन भगवद्रमणदेवतापूजां करिष्ये।

अप उपस्पृश्य। श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च। इति विघ्नेश्वरमुद्राम्।

कलशपूजा

कलशं गन्धपुष्पाक्षतैरभ्यर्च्य। कलशजलेन तत्तद्देवतानाम योजयेत्। पूजाद्रव्याणि आत्मानं च प्रोक्ष्य।

गङ्गे च यमुने चैव गोदावरि सरस्वति।

नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥

गङ्गायै नमः
यमुनायै नमः
गोदावर्यै नमः
सरस्वत्यै नमः
नर्मदायै नमः
सिन्धवे नमः
कावेर्यै नमःपुष्पैः पूजयामि।
शङ्खपूजा

कलशोदकेन शङ्खं पूरयेत्। शङ्खजलेन पूजोपकरणानि द्रव्याणि आत्मानं च त्रिः प्रोक्ष्य, पुनः शङ्खं पूरयेत्।

त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे।

देवैश्च पूजितः सर्वैः पाञ्चजन्य नमोऽस्तु ते ॥

आत्मपूजा

देहो देवालयः प्रोक्तो जीवो देवः सनातनः।

त्यजाम्यज्ञाननिर्मूल्यं सोऽहंभावेन पूजये ॥

पीठपूजा
ओं सकलगुणात्मशक्तियुक्ताय योगपीठाय नमः
आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिवराहाय नमः
आदिकूर्माय नमः
अनन्ताय नमः
पृथिव्यै नमः
आदित्यादिनवग्रहदेवताभ्यो नमः
दशदिक्पालेभ्यो नमः
गुरुध्यानम्

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।

गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॥

श्रीगुरुं ध्यायामि।

प्रधानपूजा

ध्यानम् — आवाहनम्

अरुणाद्रिचरं देवमाश्रिताभयदायिनम्।

अप्राकृतपरञ्ज्योतिरभेदध्यानशालिनम् ॥

प्रसन्नवदनं शान्तं तेजोराशिं जगद्गुरुम्।

सर्वकल्याणदातारं गुरुमावाहयाम्यहम् ॥

पुष्पाक्षतान् गृहीत्वा। अस्यां प्रतिकृतौ भगवन्तं श्रीरमणं ध्यायाम्यावाहयामि॥

आसनम्

अनेकरत्नखचितं मुक्तामणिविभूषितम्।

स्वर्णसिंहासनं चारु रमणेशानुगृह्यताम् ॥

श्रीरमणभगवते नमः रत्नसिंहासनं समर्पयामि॥

पाद्यम्

गङ्गादिसर्वतीर्थेभ्य आहृतं विमलं जलम्।

रमणेश सुखस्पर्शं पाद्यार्थमुपयुज्यताम् ॥

श्रीरमणभगवते नमः पादयोः पाद्यं समर्पयामि॥

अर्घ्यम्

अनर्घगुणजालाय सर्वसिद्धिविधायिने।

आजानुबाहवे तुभ्यमिदमर्घ्यं मयाऽर्पितम् ॥

श्रीरमणभगवते नमः हस्तयोः अर्घ्यं समर्पयामि॥

आचमनीयम्

अफेनिलमिदं शीतं सुवर्णकलशस्थितम्।

तोयमाचम्यतां देव रमणेशार्पितं मया ॥

श्रीरमणभगवते नमः आचमनीयं समर्पयामि॥

मधुपर्कः

दधिक्षीरघृतोपेतं शर्करामधुसंयुतम्।

मधुपर्कं गृहाणेमं महनीय महागुरो ॥

श्रीरमणभगवते नमः मधुपर्कं समर्पयामि॥

पञ्चामृतस्नानम्

अरुणाद्रिदरीवास करुणामयविग्रह।

पञ्चामृतस्नानमिदं स्वीकुरुष्व जगद्गुरो ॥

श्रीरमणभगवते नमः पञ्चामृतस्नानं समर्पयामि॥

शुद्धोदकस्नानम्

गङ्गादिपुण्यतीर्थेभ्यस्समानीतमिदं जलम्।

स्नानार्थमुपक्लृप्तं ते गृह्यतां रमणप्रभो ॥

श्रीरमणभगवते नमः शुद्धोदकस्नानं समर्पयामि॥

वस्त्रम्

क्षौमं पीताम्बरं दिव्यं देवतार्हं सुमङ्गलम्।

गृह्यतां देवदेवेश भक्त्या परमयाऽर्पितम् ॥

श्रीरमणभगवते नमः वस्त्रं समर्पयामि॥

यज्ञोपवीतम्

राजतं ब्रह्मसूत्रं च काञ्चनञ्चोत्तरीयकम्।

गृहीत्वा रमणेशान त्राहि मां भवसागरात् ॥

श्रीरमणभगवते नमः यज्ञोपवीतं समर्पयामि॥

गन्धः

सुगन्धिचन्दनं दिव्यं श्रीखण्डोत्थं मनोहरम्।

कर्पूरकुङ्कुमोपेतं रमण प्रतिगृह्यताम् ॥

श्रीरमणभगवते नमः परिमलगन्धान् धारयामि॥

अक्षताः

अक्षतान् धवलान् दिव्यान् शालीयांस्तण्डुलान् शुभान्।

हरिद्राचूर्णसंयुक्तान् सङ्गृहाणारुणेश्वर ॥

श्रीरमणभगवते नमः गन्धस्योपरि अक्षतान् समर्पयामि॥

पुष्पाणि

सुगन्धीनि सुपुष्पाणि जातीकुन्दमुखानि च।

मालतीवकुलादीनि पूजार्थं प्रतिगृह्यताम् ॥

श्रीरमणभगवते नमः पुष्पमालां समर्पयामि। पुष्पाणि पूजयामि॥

अथाङ्गपूजा
पूज्यपादाय नमःपादौ पूजयामि
गूढगुल्फाय नमःगुल्फौ पूजयामि
पाराशर्याय नमःजानुनी पूजयामि
परमाचार्याय नमःजङ्घे पूजयामि
पाशमोचकाय नमःकटिं पूजयामि
परमार्थज्ञाय नमःनाभिं पूजयामि
आवर्तक्षेत्रजाताय नमःपार्श्वे पूजयामि
भूमिहृदयक्षेत्रगाय नमःहृदयं पूजयामि
श्रीकण्ठाय नमःकण्ठं पूजयामि
चिन्मुद्रिणे नमःकरौ पूजयामि
वाग्मिने नमःवाचं पूजयामि
सुरदनाय नमःदन्तान् पूजयामि
सुप्रसन्नाय नमःमुखं पूजयामि
मौनिने नमःजिह्वां पूजयामि
विशालाक्षाय नमःनेत्रे पूजयामि
सुललाटाय नमःललाटं पूजयामि
रमणाय नमःशिरः पूजयामि
सर्वात्मने नमःसर्वाङ्गं पूजयामि
नामार्चना

अनन्तरं श्रीरमणाष्टोत्तरशतसहस्रनामार्चनं यथाशक्ति कार्यम्।

श्री रमण अष्टोत्तरशत नामावलिःपृथक्पृष्ठे पठ
  1. १ॐ महासेनमहोंशेनजाताय नमः
  2. २ॐ श्रीरमणाय नमः
  3. ३ॐ गुरवे नमः
  4. ४ॐ अखण्डसंविदाकाराय नमः
  5. ५ॐ महौजसे नमः
  6. ६ॐ कारणोद्भवाय नमः
  7. ७ॐ जगद्धितावताराय नमः
  8. ८ॐ श्री भूमिनाथस्थलोत्थिताय नमः
  9. ९ॐ पराशरकुलोत्तंसाय नमः
  10. १०ॐ सुन्दरार्यतपःफलाय नमः
  11. ११ॐ कमनीयसुचारित्राय नमः
  12. १२ॐ सहायाम्बासहायवते नमः
  13. १३ॐ शोणाचलमहोलीनमानसाय नमः
  14. १४ॐ स्वर्णहस्तकाय नमः
  15. १५ॐ श्रीमद्द्वादशान्तमहास्थले लब्धविद्योदयाय नमः
  16. १६ॐ महाशक्तिनिपातेनप्रबुद्धाय नमः
  17. १७ॐ परमार्थविदे नमः
  18. १८ॐ तीव्राय नमः
  19. १९ॐ पितृपदान्वेषिणे नमः
  20. २०ॐ इन्दुमौलिनापितृमते नमः
  21. २१ॐ पितुरादेशतः शोणशैलम्प्राप्ताय नमः
  22. २२ॐ तपोमयाय नमः
  23. २३ॐ उदासीनाय नमः
  24. २४ॐ महायोगिने नमः
  25. २५ॐ महोन्त्साहाय नमः
  26. २६ॐ कुशाग्रधिये नमः
  27. २७ॐ शान्तसङ्कल्पसंरम्भाय नमः
  28. २८ॐ सुसन्दृशे नमः
  29. २९ॐ सवित्रे नमः
  30. ३०ॐ स्थिराय नमः
  31. ३१ॐ तपःक्षपितसर्वाङ्गाय नमः
  32. ३२ॐ फुल्लाम्बुजविलोचनाय नमः
  33. ३३ॐ चन्द्रिकासितहासश्रीमण्डितानन मण्डलाय नमः
  34. ३४ॐ चूतवाट्यांसमासीनाय नमः
  35. ३५ॐ चूर्णिताखिलविभ्रमाय नमः
  36. ३६ॐ वेदवेदान्ततत्त्वज्ञाय नमः
  37. ३७ॐ चिन्मुद्रिणे नमः
  38. ३८ॐ त्रिगुणातिगाय नमः
  39. ३९ॐ विरूपाक्षगुहावासाय नमः
  40. ४०ॐ विराजदचलाकृतये नमः
  41. ४१ॐ उद्दीप्तनयनाय नमः
  42. ४२ॐ पूर्णाय नमः
  43. ४३ॐ रचिताचलताण्डवाय नमः
  44. ४४ॐ गम्भीराय नमः
  45. ४५ॐ परमाचार्याय नमः
  46. ४६ॐ सुप्रसन्नाय नमः
  47. ४७ॐ अभयप्रदाय नमः
  48. ४८ॐ दक्षिणास्यनिभाय नमः
  49. ४९ॐ धीराय नमः
  50. ५०ॐ दक्षिणाभिमुखाय नमः
  51. ५१ॐ स्वराजे नमः
  52. ५२ॐ महर्षये नमः
  53. ५३ॐ भगवते नमः
  54. ५४ॐ ईड्याय नमः
  55. ५५ॐ भूमविद्याविशारदाय नमः
  56. ५६ॐ विमलाय नमः
  57. ५७ॐ दीर्घदर्शिने नमः
  58. ५८ॐ आप्ताय नमः
  59. ५९ॐ ऋजुमार्गप्रदर्शकाय नमः
  60. ६०ॐ समदृशे नमः
  61. ६१ॐ सत्यदृशे नमः
  62. ६२ॐ सत्याय नमः
  63. ६३ॐ प्रशान्ताय नमः
  64. ६४ॐ अमितविक्रमाय नमः
  65. ६५ॐ सुकुमाराय नमः
  66. ६६ॐ सदानन्दाय नमः
  67. ६७ॐ मृदुभाषिणे नमः
  68. ६८ॐ दयार्णवाय नमः
  69. ६९ॐ श्रीशोणाचलहृद्भूतस्कन्दाश्रम निकेतनाय नमः
  70. ७०ॐ सद्दर्शनोपदेष्ट्रे नमः
  71. ७१ॐ सद्भक्तवृन्दपरीवृताय नमः
  72. ७२ॐ गणेशमुनिभृङ्गेनसेविताङ्घ्रिसरोरुहाय नमः
  73. ७३ॐ गीतोपदेशसारादिग्रन्थसंछिन्नसंशयाय नमः
  74. ७४ॐ वर्णाश्रममतातीताय नमः
  75. ७५ॐ रसज्ञाय नमः
  76. ७६ॐ सौम्याय नमः
  77. ७७ॐ आत्मवते नमः
  78. ७८ॐ सर्वावनिमतस्थानमाराध्याय नमः
  79. ७९ॐ सर्वसद्गुणिने नमः
  80. ८०ॐ आत्मारामाय नमः
  81. ८१ॐ महाभागाय नमः
  82. ८२ॐ मातृमुक्तिविधायकाय नमः
  83. ८३ॐ विनताय नमः
  84. ८४ॐ विनुताय नमः
  85. ८५ॐ विप्राय नमः
  86. ८६ॐ मुनीन्द्राय नमः
  87. ८७ॐ पावकोज्ज्वलाय नमः
  88. ८८ॐ दर्शनादघसंहारिणे नमः
  89. ८९ॐ मौनेन स्वात्मबोधकाय नमः
  90. ९०ॐ हृच्छान्तिकरसान्निध्याय नमः
  91. ९१ॐ स्मरणाद्बन्धमोचकाय नमः
  92. ९२ॐ अन्तस्तिमिरचण्डांशवे नमः
  93. ९३ॐ संसारार्णवतारकाय नमः
  94. ९४ॐ शोणाद्रीशस्तुतिद्रष्ट्रे नमः
  95. ९५ॐ हार्दविद्याप्रकाशकाय नमः
  96. ९६ॐ अविच्युतनिजप्रज्ञाय नमः
  97. ९७ॐ नैसर्गिकमहातपसे नमः
  98. ९८ॐ कमण्डलुधराय नमः
  99. ९९ॐ शुभ्रकौपीनवसनाय नमः
  100. १००ॐ गुहाय नमः
  101. १०१ॐ दण्डपाणये नमः
  102. १०२ॐ कृपापूर्णाय नमः
  103. १०३ॐ भवरोगभिषग्वराय नमः
  104. १०४ॐ स्कन्दाय नमः
  105. १०५ॐ देवतमाय नमः
  106. १०६ॐ अमर्त्याय नमः
  107. १०७ॐ सेनान्ये नमः
  108. १०८ॐ पुरुषोत्तमाय नमः
धूपः

वनस्पतिरसो दिव्यः गन्धाढ्यस्सुमनोहरः।

आघ्रेयस्सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥

श्रीरमणभगवते नमः धूपमाघ्रापयामि॥

दीपः

ज्योतिषां त्वं परं ज्योतिस्तेजस्त्वं तेजसामपि।

आत्मज्योतिरिदं दीपज्योतिरस्तु तवानघ ॥

श्रीरमणभगवते नमः दीपं सन्दर्शयामि। धूपदीपानन्तरमाचमनीयं समर्पयामि॥

नैवेद्यम्

ॐ भूर्भुवस्सुवः। … देवसवितः प्रसुव। श्रीरमणभगवते नमः अमृतोपस्तरणमसि स्वाहा। प्राणाय स्वाहा। अपानाय स्वाहा। व्यानाय स्वाहा। उदानाय स्वाहा। समानाय स्वाहा। मधु मधु मधु।

नैवेद्यसमर्पणम्

नैवेद्यं षड्रसोपेतं भक्ष्यभोज्यं चतुर्विधम्।

सघृतं सफलं देव गृह्यतां रमणेश्वर ॥

श्रीरमणभगवते नमः नैवेद्यं समर्पयामि। मध्ये मध्ये पानीयं समर्पयामि। हस्तप्रक्षालनं समर्पयामि। पादप्रक्षालनं समर्पयामि। नैवेद्यानन्तरं आचमनीयं समर्पयामि॥

ताम्बूलम्

पूगीफलसमायुक्तं नागवल्लीदलैर्युतम्।

कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥

श्रीरमणभगवते नमः दिव्यताम्बूलं समर्पयामि॥

दक्षिणा

सौवर्णीं राजतीं ताम्रां नानारत्नसमन्विताम्।

पूजासाद्गुण्यसिद्ध्यर्थं दक्षिणामर्पयाम्यहम् ॥

श्रीरमणभगवते नमः स्वर्णपुष्पदक्षिणां समर्पयामि॥

नीराजनम्

चन्द्रादित्यौ च धरणिर्विद्युदग्निस्तथैव च।

त्वमेव सर्वज्योतींषि भज नीराजनं प्रभो ॥

श्रीरमणभगवते नमः कर्पूरनीराजनं समर्पयामि। नीराजनानन्तरं आचमनीयं समर्पयामि। ततः पुष्पाञ्जलिं समर्पयामि॥

प्रदक्षिणम्

यानि कानि च पापानि जन्मान्तरकृतानि च।

तानि तानि विनश्यन्ति प्रदक्षिणपदे पदे ॥

नमस्ते रमणेशान नमस्ते मुनिकुञ्जर।

नमस्ते करुणामूर्ते नमस्ते सर्वसिद्धिद ॥

श्रीरमणभगवते नमः अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि॥

मन्त्रपुष्पाञ्जलिः

त्वद्भक्तिगन्धसंयुक्तं त्वत्कृपाकाङ्क्षयायुतम्।

मनःपुष्पाञ्जलिं तुभ्यं गृहाण रमणार्पितम् ॥

श्रीरमणभगवते नमः मन्त्रपुष्पाञ्जलिं समर्पयामि॥

प्रार्थना

साधु वाऽसाधु वा कर्म यद्यदाचरितं मया।

तत्सर्वं दयया नाथ गृहाणाराधनं मम ॥

जगतां नायकस्वामिन् देशिकस्वात्मनायक।

त्राहि त्राहि कृपासिन्धो पूजां पूर्णतरां कुरु ॥

ज्ञानतोऽज्ञानतो वापि यन्मयाचरितं पुरा।

तव कृत्यमिति ज्ञात्वा क्षमस्व रमणप्रभो ॥

उद्वासनम्

एवं क्षमापणं प्रार्थ्य श्रीरमणं स्वस्मिन्विलीनं भावयेत्।

हृत्पद्मकर्णिकामध्ये ज्ञानेन सह सद्गुरो।

प्रविश त्वं महायोगिन् सर्वैर्भक्तगणैस्सह ॥

समर्पणम्

मया कृतमिदं श्रीरमणभगवत्पूजाख्यं कर्म सर्वं श्रीब्रह्मार्पणमस्तु।

ॐ तत् सत्।

ब्राह्मणेभ्य उपायनदानम्। घण्टादेवता निवेदनम्। इति श्रीरमणभगवत्पूजाविधानं सङ्क्षिप्तं समाप्तम्।