मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवरात्रि व्रत पूजा

शिवरात्रि व्रत पूजा. Also called shivaratri, maha shivaratri, sivaratri puja, shiva puja.

3

माघमासे कृष्णचतुर्दश्यां रात्रौ। दिवा उपवासः, रात्रौ चतुर्षु यामेषु पूजा, शिवकथाश्रवणं भजनं च जागरणेन। परेद्युः स्नात्वा नित्यपूजां दम्पतिपूजां ब्राह्मणभोजनं च कृत्वा व्रतं समापयेत्।

पूर्वाङ्गपूजा. इदं पूर्वाङ्गं सर्वासु पूजासु समानम् — आदौ आचर्य पश्चात् प्रधानपूजां कुर्यात्। पूर्वाङ्गपूजा

पूर्वाङ्गपूजा

संवृणु
आचमनम्
ध्यानम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

प्राणायामः — सङ्कल्पः

अप उपस्पृश्य

ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं करिष्यमाणस्य कर्मणः निर्विघ्नेन परिसमाप्त्यर्थं आदौ विघ्नेश्वरपूजां करिष्ये।

महद्भन्दनम्

आब्रह्मलोकादारोहात् आलोकात् लोकपर्वतात्।

ये वसन्ति द्विजा देवास्तेभ्यो नित्यं नमो नमः ॥

आसनपूजा

पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता। आसने विनियोगः।

पृथिवि त्वया धृता लोका देवि त्वं विष्णुना धृता।

त्वं च धारय मां देवि पवित्रं चासनं कुरु ॥

घण्टापूजा

घण्टानादं कृत्वा।

आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्।

घण्टारवं करोम्यादौ देवताह्वानकारणम् ॥

विघ्नेश्वरपूजा

अस्मिन् हरिद्राबिम्बे श्रीविघ्नेश्वरं ध्यायामि।

आवाहयामि। आसनं समर्पयामि। पादयोः पाद्यं समर्पयामि। अर्घ्यं समर्पयामि। आचमनीयं समर्पयामि। मधुपर्कं समर्पयामि। स्नानं समर्पयामि। आचमनीयं समर्पयामि। वस्त्रं समर्पयामि। उपवीतं समर्पयामि। दिव्यपरिमलगन्धान् धारयामि। अक्षतान् समर्पयामि। पुष्पैः पूजयामि।

सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णिकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
सिद्धिविनायकाय नमः
श्रीमहागणपतये नमः
उपचाराः

धूपमाघ्रापयामि। दीपं दर्शयामि। निवेदयामि। कर्पूरनीराजनं दर्शयामि। समस्तोपचारपूजां समर्पयामि।

प्रार्थना

वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ।

निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

इति प्रार्थ्य। प्राणायामः।

सङ्कल्पः

शुभे शोभने मुहूर्ते आद्यब्रह्मणः द्वितीयपराधे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोर्दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिके प्रभवादिषष्टिसंवत्सराणां मध्ये …… नाम संवत्सरे …… अयने …… ऋतौ …… मासे …… पक्षे …… शुभतिथौ …… वासरयुक्तायां …… नक्षत्रयुक्तायां शुभयोगशुभकरणसकलविशेषणविशिष्टायामस्यां शुभतिथौ ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं श्रीसाम्बसदाशिवप्रीत्यर्थं शिवरात्रिपुण्यकाले यथाशक्ति षोडशोपचारैः साम्बसदाशिवपूजां करिष्ये।

अप उपस्पृश्य। श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च। इति विघ्नेश्वरमुद्राम्।

कलशपूजा

कलशं गन्धपुष्पाक्षतैरभ्यर्च्य। कलशजलेन तत्तद्देवतानाम योजयेत्। पूजाद्रव्याणि आत्मानं च प्रोक्ष्य।

गङ्गे च यमुने चैव गोदावरि सरस्वति।

नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥

गङ्गायै नमः
यमुनायै नमः
गोदावर्यै नमः
सरस्वत्यै नमः
नर्मदायै नमः
सिन्धवे नमः
कावेर्यै नमःपुष्पैः पूजयामि।
शङ्खपूजा

कलशोदकेन शङ्खं पूरयेत्। शङ्खजलेन पूजोपकरणानि द्रव्याणि आत्मानं च त्रिः प्रोक्ष्य, पुनः शङ्खं पूरयेत्।

त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे।

देवैश्च पूजितः सर्वैः पाञ्चजन्य नमोऽस्तु ते ॥

आत्मपूजा

देहो देवालयः प्रोक्तो जीवो देवः सनातनः।

त्यजाम्यज्ञाननिर्मूल्यं सोऽहंभावेन पूजये ॥

पीठपूजा
ओं सकलगुणात्मशक्तियुक्ताय योगपीठाय नमः
आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिवराहाय नमः
आदिकूर्माय नमः
अनन्ताय नमः
पृथिव्यै नमः
आदित्यादिनवग्रहदेवताभ्यो नमः
दशदिक्पालेभ्यो नमः
गुरुध्यानम्

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।

गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॥

श्रीगुरुं ध्यायामि।

प्राणप्रतिष्ठा

प्रतिमासु देवतां ध्यात्वा प्राणप्रतिष्ठां कुर्यात्।

अस्य श्रीप्राणप्रतिष्ठामहामन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः। ऋग्यजुस्सामाथर्वाणि छन्दांसि। सकलजगत्सृष्टिस्थितिसंहारकारिणी प्राणशक्तिः परा देवता। ओं बीजम्। ह्रीं शक्तिः। क्रों कीलकम्। प्राणप्रतिष्ठायां विनियोगः।

करन्यासः
ओं अङ्गुष्ठाभ्यां नमः
ह्रीं तर्जनीभ्यां नमः
क्रों मध्यमाभ्यां नमः
ओं अनामिकाभ्यां नमः
ह्रीं कनिष्ठाभ्यां नमः
क्रों करतलकरपृष्ठाभ्यां नमः
अङ्गन्यासः

भूर्भुवस्सुवरोमिति दिग्बन्धः। ध्यानम्।

ओं हृदयाय नमः
ह्रीं शिरसे स्वाहा
क्रों शिखायै वषट्
ओं कवचाय हुम्
ह्रीं नेत्रत्रयाय वौषट्
क्रों अस्त्राय फट्
प्राणशक्तिध्यानम्

रक्ताम्भोधिस्यपोतोद्यद्दारुणसरोजाधिरूढा कराम्बुजैः

पाशं कोदण्डमिक्षुं सृणिमपि दधती मण्यङ्कुशं पुष्पबाणान्।

बिभ्राणा सृक्कपालं विमलनखलसिता पीनवक्षोरुहाढ्या

देवी बाला त्रिनेत्रा भवतु सुखकरी प्राणशक्तिः परा नः ॥

तत्त्वोपचाराः
लं पृथिव्यात्मिकायैगन्धं समर्पयामि।
हं आकाशात्मिकायैपुष्पैः पूजयामि।
यं वाय्वात्मिकायैधूपमाघ्रापयामि।
रं अग्न्यात्मिकायैदीपं दर्शयामि।
वं अमृतात्मिकायैअमृतं महानैवेद्यं निवेदयामि।
सं सर्वात्मिकायैसर्वोपचारपूजां समर्पयामि।
जीवस्थापनम्

पञ्चदशसंस्कारार्थं पञ्चदशवारं प्रणवजपं कृत्वा।

ओं ह्रीं क्रों क्रों ह्रीं आं। यं रं लं वं शं षं सं हों। हंससोऽहं सोऽहं हंसः। अस्यां मूर्तौ जीवस्तिष्ठतु। अस्यां मूर्तौ सर्वेन्द्रियाणि मनस्त्वक्चक्षुःश्रोत्रजिह्वाप्राणवाक्पाणिपादपायूपस्थाख्यानि प्राणापानव्यानोदानसमानाश्चागत्य सुखं चिरं तिष्ठन्तु स्वाहा ॥

असुं नीते पुनरस्मासु चक्षुः पुनः प्राणमिह नो धेहि भोगम्। ज्योक् पश्येम सूर्यमुच्चरन्तमनुमते मृळया नः स्वस्ति ॥

आवाहनस्थापनम्

आवाहितो भव। स्थापितो भव। सन्निहितो भव। सन्निरुद्धो भव। अवकुण्ठितो भव। सुप्रीतो भव। सुप्रसन्नो भव। सुमुखो भव। वरदो भव। प्रसीद प्रसीद। स्वामिन् सर्वजगन्नाथ यावत्पूजावसानकम् तावत्त्वं प्रीतिभावेन बिम्बेऽस्मिन् सन्निधिं कुरु ॥

इति पूर्वाङ्गपूजा।

प्रधानपूजा

ध्यानम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

ध्यानम्

ध्यायामि दक्षिणामूर्तिं नीलग्रीवं त्रिलोचनम्।

गङ्गाधरमुमाकान्तं नित्यकल्याणरूपिणम् ॥

गोक्षीरधवलाकारं चन्द्रबिम्बसमाननम्।

भस्मभूषितसर्वाङ्गं रुद्राक्षाभरणान्वितम् ॥

साम्बपरमेश्वरं ध्यायामि ॥

आवाहनम्

आवाहयामि देवेशमादिमध्यान्तवर्जितम्।

आधारं सर्वलोकानामाश्रितार्तिविनाशनम् ॥

साम्बपरमेश्वरम् आवाहयामि ॥

आसनम्

आसनं गृह्यतामीश निर्मलं स्वर्णनिर्मितम्।

आधारं सर्वजगतामन्धकासुरसूदन ॥

साम्बपरमेश्वराय नमः। आसनं समर्पयामि ॥

पाद्यम्

पाद्यं गृहाण भगवन् पावनं परमेश्वर।

पार्वतीहृदयानन्द पापं सर्वं व्यपोहय ॥

साम्बपरमेश्वराय नमः। पाद्यं समर्पयामि ॥

अर्घ्यम्

अर्घ्यं गृहाण गिरिश गन्धपुष्पाक्षतैर्युतम्।

अघमज्ञानमखिलं नीलकण्ठ निवारय ॥

साम्बपरमेश्वराय नमः। अर्घ्यं समर्पयामि ॥

आचमनीयम्

गृहाणाचमनार्थाय गङ्गादिसरिदाहृतम्।

विमलं जलमीशान व्याधीन्मे विनिवारय ॥

साम्बपरमेश्वराय नमः। आचमनीयं समर्पयामि ॥

पञ्चामृतम्

पञ्चामृतं गृहाणेदं पन्नगेश्वरभूषण।

पञ्चवक्त्र नमस्तुभ्यं पञ्च पापानि नाशय ॥

साम्बपरमेश्वराय नमः। पञ्चामृतं समर्पयामि ॥

स्नानम्

गङ्गाक्लिन्नजटाभार सोम सोमार्धशेखर।

सह्यजादिसरित्तोयैः स्नानं कुरु सदाशिव ॥

साम्बपरमेश्वराय नमः। स्नानं समर्पयामि ॥

वस्त्रम्

गजचर्मधरानन्त गरलाङ्कितकन्धर।

दुकूलं गृह्यतां देव दुर्गतिं मे निवारय ॥

साम्बपरमेश्वराय नमः। वस्त्रं समर्पयामि ॥

उपवीतम्

उपवीतं गृहाणेश पवित्रं परमं शुभम्।

उमाकान्त नमस्तुभ्यमुत्तमं देहि मे फलम् ॥

साम्बपरमेश्वराय नमः। उपवीतं समर्पयामि ॥

आभरणानि

कुण्डलाङ्गदमुख्यानि कुण्डलीश्वरभूषण।

भूषणानि गृहाणेश भूतिभूषितविग्रह ॥

साम्बपरमेश्वराय नमः। आभरणानि समर्पयामि ॥

गन्धः

गन्धं कुङ्कुमसंयुक्तं मृगनाभिसमन्वितम्।

महादेव गृहाणेश महापापविनाशन ॥

साम्बपरमेश्वराय नमः। गन्धं समर्पयामि ॥

अक्षताः

अक्षतानक्षतविभो नक्षत्रेशविभूषण।

शुद्धस्फटिकसंकाश स्वामिन् स्वीकुरु शंकर ॥

साम्बपरमेश्वराय नमः। अक्षतान् समर्पयामि ॥

पुष्पाणि

मल्लिकाकुन्दमन्दारकमलादीनि शंकर।

पुष्पाणि बिल्वपत्राणि गृहाण करुणानिधे ॥

साम्बपरमेश्वराय नमः। पुष्पाणि समर्पयामि ॥

अथाङ्गपूजा
परमाय नमःपादौ पूजयामि।
गुणातीताय नमःगुल्फौ पूजयामि।
जन्महीनाय नमःजानुनी पूजयामि।
जगत्पित्रे नमःजङ्घे पूजयामि।
उमापतये नमःऊरू पूजयामि।
गिरिशाय नमःगुह्यं पूजयामि।
करुणाकराय नमःकटिं पूजयामि।
नानारूपाय नमःनाभिं पूजयामि।
उत्तमाय नमःउदरं पूजयामि।
वामदेवाय नमःवक्षः पूजयामि।
बहुरूपाय नमःबाहून् पूजयामि।
हराय नमःहस्तान् पूजयामि।
नीलकण्ठाय नमःकण्ठं पूजयामि।
पञ्चमुखाय नमःमुखं पूजयामि।
त्रिनेत्राय नमःनेत्राणि पूजयामि।
फालनेत्राय नमःफालं पूजयामि।
श्रुतिगम्याय नमःश्रोत्रे पूजयामि।
कपर्दिने नमःकपर्दं पूजयामि।
शिवाय नमःशिरः पूजयामि।
सर्वेश्वराय नमःसर्वाण्यङ्गानि पूजयामि ॥
अष्टोत्तरशतनामार्चना
शिव अष्टोत्तरशत नामावलिःपृथक्पृष्ठे पठ
  1. १ॐ शिवाय नमः
  2. २ॐ महेश्वराय नमः
  3. ३ॐ शम्भवे नमः
  4. ४ॐ पिनाकिने नमः
  5. ५ॐ शशिशेखराय नमः
  6. ६ॐ वामदेवाय नमः
  7. ७ॐ विरूपाक्षाय नमः
  8. ८ॐ कपर्दिने नमः
  9. ९ॐ नीललोहिताय नमः
  10. १०ॐ शङ्कराय नमः
  11. ११ॐ शूलपाणये नमः
  12. १२ॐ खट्वाङ्गिने नमः
  13. १३ॐ विष्णुवल्लभाय नमः
  14. १४ॐ शिपिविष्टाय नमः
  15. १५ॐ अम्बिकानाथाय नमः
  16. १६ॐ श्रीकण्ठाय नमः
  17. १७ॐ भक्तवत्सलाय नमः
  18. १८ॐ भवाय नमः
  19. १९ॐ शर्वाय नमः
  20. २०ॐ त्रिलोकीशाय नमः
  21. २१ॐ शितिकण्ठाय नमः
  22. २२ॐ शिवाप्रियाय नमः
  23. २३ॐ उग्राय नमः
  24. २४ॐ कपालिने नमः
  25. २५ॐ कामारये नमः
  26. २६ॐ अन्धकासुरसूदनाय नमः
  27. २७ॐ गङ्गाधराय नमः
  28. २८ॐ ललाटाक्षाय नमः
  29. २९ॐ कालकालाय नमः
  30. ३०ॐ कृपानिधये नमः
  31. ३१ॐ भीमाय नमः
  32. ३२ॐ परशुहस्ताय नमः
  33. ३३ॐ मृगपाणये नमः
  34. ३४ॐ जटाधराय नमः
  35. ३५ॐ कैलासवासिने नमः
  36. ३६ॐ कवचिने नमः
  37. ३७ॐ कठोराय नमः
  38. ३८ॐ त्रिपुरान्तकाय नमः
  39. ३९ॐ वृषाङ्काय नमः
  40. ४०ॐ वृषभारूढाय नमः
  41. ४१ॐ भस्मोद्धूलितविग्रहाय नमः
  42. ४२ॐ सामप्रियाय नमः
  43. ४३ॐ स्वरमयाय नमः
  44. ४४ॐ त्रयीमूर्तये नमः
  45. ४५ॐ अनीश्वराय नमः
  46. ४६ॐ सर्वज्ञाय नमः
  47. ४७ॐ परमात्मने नमः
  48. ४८ॐ सोमसूर्याग्निलोचनाय नमः
  49. ४९ॐ हविषे नमः
  50. ५०ॐ यज्ञमयाय नमः
  51. ५१ॐ सोमाय नमः
  52. ५२ॐ पञ्चवक्त्राय नमः
  53. ५३ॐ सदाशिवाय नमः
  54. ५४ॐ विश्वेश्वराय नमः
  55. ५५ॐ वीरभद्राय नमः
  56. ५६ॐ गणनाथाय नमः
  57. ५७ॐ प्रजापतये नमः
  58. ५८ॐ हिरण्यरेतसे नमः
  59. ५९ॐ दुर्धर्षाय नमः
  60. ६०ॐ गिरीशाय नमः
  61. ६१ॐ गिरिशाय नमः
  62. ६२ॐ अनघाय नमः
  63. ६३ॐ भुजङ्गभूषणाय नमः
  64. ६४ॐ भर्गाय नमः
  65. ६५ॐ गिरिधन्वने नमः
  66. ६६ॐ गिरिप्रियाय नमः
  67. ६७ॐ कृत्तिवाससे नमः
  68. ६८ॐ पुरारातये नमः
  69. ६९ॐ भगवते नमः
  70. ७०ॐ प्रमथाधिपाय नमः
  71. ७१ॐ मृत्युञ्जयाय नमः
  72. ७२ॐ सूक्ष्मतनवे नमः
  73. ७३ॐ जगद्व्यापिने नमः
  74. ७४ॐ जगद्गुरवे नमः
  75. ७५ॐ व्योमकेशाय नमः
  76. ७६ॐ महासेनजनकाय नमः
  77. ७७ॐ चारुविक्रमाय नमः
  78. ७८ॐ रुद्राय नमः
  79. ७९ॐ भूतपतये नमः
  80. ८०ॐ स्थाणवे नमः
  81. ८१ॐ अहये बुध्न्याय नमः
  82. ८२ॐ दिगम्बराय नमः
  83. ८३ॐ अष्टमूर्तये नमः
  84. ८४ॐ अनेकात्मने नमः
  85. ८५ॐ सात्त्विकाय नमः
  86. ८६ॐ शुद्धविग्रहाय नमः
  87. ८७ॐ शाश्वताय नमः
  88. ८८ॐ खण्डपरशवे नमः
  89. ८९ॐ अजाय नमः
  90. ९०ॐ पाशविमोचकाय नमः
  91. ९१ॐ मृडाय नमः
  92. ९२ॐ पशुपतये नमः
  93. ९३ॐ देवाय नमः
  94. ९४ॐ महादेवाय नमः
  95. ९५ॐ अव्ययाय नमः
  96. ९६ॐ हरये नमः
  97. ९७ॐ पूषदन्तभिदे नमः
  98. ९८ॐ अव्यग्राय नमः
  99. ९९ॐ दक्षाध्वरहराय नमः
  100. १००ॐ हराय नमः
  101. १०१ॐ भगनेत्रभिदे नमः
  102. १०२ॐ अव्यक्ताय नमः
  103. १०३ॐ सहस्राक्षाय नमः
  104. १०४ॐ सहस्रपदे नमः
  105. १०५ॐ अपवर्गप्रदाय नमः
  106. १०६ॐ अनन्ताय नमः
  107. १०७ॐ तारकाय नमः
  108. १०८ॐ परमेश्वराय नमः
धूपः

दशाङ्गो गुग्गुलूपेतः सुगन्धः सुमनोहरः।

आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥

साम्बपरमेश्वराय नमः। धूपं समर्पयामि। आचमनीयं समर्पयामि।

दीपः

साज्यं त्रिवर्तिसंयुक्तं वह्निना योजितं मया।

गृहाण मङ्गलं दीपं त्रैलोक्यतिमिरापहम् ॥

साम्बपरमेश्वराय नमः। दीपं समर्पयामि। आचमनीयं समर्पयामि।

नैवेद्यम्

अन्नं चतुर्विधं सूपफलभक्ष्यसमन्वितम्।

दधिमध्वाज्यसंयुक्तं नैवेद्यं प्रतिगृह्यताम् ॥

साम्बपरमेश्वराय नमः। अमृतं महानैवेद्यं समर्पयामि। मध्ये मध्ये पानीयं समर्पयामि। आचमनीयं समर्पयामि।

ताम्बूलम्

पूगीफलसमायुक्तं नागवल्लीदलैर्युतम्।

कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥

साम्बपरमेश्वराय नमः। कर्पूरताम्बूलं समर्पयामि।

नीराजनम्

चन्द्रादित्यौ च नक्षत्रं विद्युदग्निस्त्वमेव च।

त्वमेव सर्वज्योतींषि कुर्यां नीराजनं तव ॥

साम्बपरमेश्वराय नमः। सर्वमङ्गलप्राप्त्यर्थं सर्वापराधक्षमापणार्थं कर्पूरनीराजनं दर्शयामि। आचमनीयं समर्पयामि।

पुष्पाञ्जलिः

मन्दारनीलोत्पलकुन्दजातीपुन्नागमल्लीकरवीरपङ्कजैः।

पुष्पाञ्जलिं बिल्वदलैस्तुलस्या देव त्वदंघ्रौ विनिवेशयामि ॥

साम्बपरमेश्वराय नमः। मन्त्रपुष्पाञ्जलिं समर्पयामि।

प्रदक्षिणनमस्काराः

यानि कानि च पापानि जन्मान्तरकृतानि च।

तानि तानि विनश्यन्ति प्रदक्षिणपदे पदे ॥

प्रकृष्टपापनाशाय प्रकृष्टफलसिद्धये।

प्रदक्षिणं करोमि त्वां प्रसीद परमेश्वर ॥

नमो नमः सुरवरपूजिताङ्घ्रये

नमो नमो निरुपममङ्गलात्मने।

नमो नमो विपुलपदैकसिद्धये

नमो नमः परमदयानिधे नमः ॥

साम्बपरमेश्वराय नमः। प्रदक्षिणनमस्कारान् समर्पयामि।

नमस्कारः

महादेव नमस्तेऽस्तु मन्मथारे नमोऽस्तु ते।

अमृतेश नमस्तुभ्यमाश्रितार्थप्रदायिने ॥

साम्बपरमेश्वराय नमः। नमस्कारान् समर्पयामि ॥

प्रार्थना

त्राहि मां देव देवेश तरुणेन्दुशिखामणे।

ईप्सितं देहि मे देव दयाराशे नमोऽस्तु ते ॥

साम्बपरमेश्वराय नमः। छत्रचामरनृत्तगीतवाद्यादिसमस्तराजोपचारान् समर्पयामि ॥

क्षीरार्घ्यप्रदानम्

पूजान्ते क्षीरार्घ्यप्रदानं करिष्ये। (इति सङ्कल्प्य)

नमः शिवाय साम्बाय सर्वपापहराय च।

शिवरात्रौ मया दत्तमिदमर्घ्यं गृहाण भो ॥

साम्बशिवाय नमः। इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम् ॥

मया कृतान्यशेषाणि पापानि नुद शंकर।

शिवरात्रौ मया दत्तं गृहाणार्घ्यं मया शिव ॥

साम्बशिवाय नमः। इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम् ॥

आकाशदिक्शरीराय ग्रहनक्षत्रमालिने।

सुरसिन्धुनिवासाय दत्तमर्घ्यं मया शिव ॥

साम्बशिवाय नमः। इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम् ॥

व्योमकेश नमस्तुभ्यं सोमात्मन् व्योमरूपिणे।

नक्षत्रमालिने देव गृहाणार्घ्यमिदं प्रभो ॥

साम्बपरमेश्वराय नमः। इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम् ॥

अम्बिकायै नमस्तुभ्यं नमस्ते देवि पार्वति।

गृहाणार्घ्यं मया दत्तं सुप्रीता वरदा भव ॥

अम्बिकायै नमः। इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम् ॥

सुब्रह्मण्य महाभाग कार्तिकेय सुरोत्तम।

गृहाणार्घ्यमिदं दत्तं सुप्रीतो वरदो भव ॥

सुब्रह्मण्याय नमः। इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम् ॥

नन्दिकेश महाभाग शिवध्यानपरायण।

गृहाणार्घ्यमिदं दत्तं नन्दिकेश नमोऽस्तु ते ॥

नन्दिकेशाय नमः। इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम् ॥

चण्डिकेशाय नमः। इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम् ॥

समर्पणम्

अनया पूजया अर्घ्यप्रदानेन च सपरिवारः साम्बशिवः प्रीयताम् ॥