अध्ययनम्
- अनुक्रमणिका
- अष्टकादयः
- मूलम्
- याजुषमन्त्ररत्नाकरम् (मुद्रितग्रन्थः) पृष्ठम् ६४१–६४२ — मुद्रितग्रन्थस्य PDF-पाठात् स्वरसहितं यथावत् उद्धृतम्। कोष्ठकेषु सङ्ख्याः ग्रन्थस्य पृष्ठनिर्देशाः।
अष्टकादयः
उ॒क्थ्य॑श्चाऽस्य॑तिरा॒त्रश्च॒ साद्य॑स्क्री॒श्छन्द॑सा स॒ह। अ॒पू॒प॒घृ॒ताहु॑ते॒ नम॑स्ते अस्तु माꣳ सपि॒प्पले॒ स्वाहा᳚। भूः पृ॑थि॒व्य॑ग्निन॒र्चाऽमुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा᳚। भुवो॑ वा॒युना॒ऽन्तरि॑क्षेण॒ साम्ना॒ऽमुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा᳚। स्व॑र्दिवा॑ऽऽदि॒त्येन॒ यजु॑षा॒ऽमुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा᳚।
॥१॥ज॒नद॑द्भि॒रथ॑र्वाङि्गरोभिर॒मुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा᳚। रो॒चनाया॑जि॒राया॒ग्नये॑ दे॒वजा॑तवे॒ स्वाहा᳚। के॒तवे॒ मन॑वे॒ ब्रह्म॑णे दे॒वजा॑तवे॒ स्वाहा᳚। स्व॒धा स्वाहा॒ऽग्नये॑ कव्य॒वाह॑नाय स्व॒धा स्वाहा᳚।
॥२॥अन्न॑मिव ते दृ॒शे भू॑यासं॒ वस्त्र॑मिव ते दृ॒शे भू॑यासं॒ वित्त॑मिव ते दृ॒शे भू॑यासमा॒शेव॑ ते दृ॒शे भू॑यासꣴ श्र॒द्धेव॑ ते दृ॒शे भू॑यास॒ꣳ सꣴ स्र॑वन्तु॒ दिशो॑ म॒हीः समाधा॑वन्तु सू॒नृताः᳚। सर्वे॒ कामा॑ अ॒भिय॑न्तु मा प्रि॒या अ॒भिर॑क्षन्तु मा प्रि॒याः। यशो॑ऽसि॒ यशो॒ऽहं त्वयि॑ भूयासमसौ।
॥३॥(अ॒ङ्कौ न्य॒ङ्काव॒भित॒ इत्ये॒षा।) {अ॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथं॒ यौ ध्वा॒न्तं वा॑ता॒ग्रमनु॑ सं॒चर॑न्तौ दू॒रेहे॑तिरिन्द्रि॒यावा᳚न्पत॒त्री ते नो॒ऽग्नयः॒ पप्र॑यः पारयन्तु॥} अध्व॑नामध्वपते स्व॒स्ति मा॒ संपा॑रय। अ॒यं वा॑म॒श्विनौ॒ रथो॒ मा दुः॒खे मा सु॒खे रि॑षत्। अरि॑ष्टः स्व॒स्ति ग॑च्छतु विवि॒घ्नन्पृत॑नाय॒तः।
॥४॥अश्वो॑सि॒ हयो॒स्यत्यो॑सि॒ नरो॒स्यर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॑सि॒ वृषा॑ऽसि नृ॒मणा॑ असि॒ ययु॒र्नामा᳚स्याऽऽदि॒त्यानां॒ पत्वाऽन्वि॑हि। ह॒स्ति॒य॒श॒सम॑सि हस्तियश॒सी भू॑यासं॒ वह॑ काल॒वह॒ श्रियं॑ मा॒ऽभिव॑ह। इन्द्र॑स्य त्वा॒ वज्रे॑णा॒भि निद॑धाम्यसौ। अव॑ जिह्वक निजिह्व॒काव॑ त्वा ह॒विषा॑ यजे।
॥५॥तत्स॒त्यं यद॒हं ब्रवी॒म्यध॑रो॒ मद॒सौ व॑दा॒त्स्वाहा᳚। आ ते॒ वाच॑मा॒स्यां᳚ दद॒ आ म॑न॒स्याꣳ हृद॑या॒दधि॑। यत्र॑यत्र ते॒ वाङि्नहि॑ता॒ तां त॒ आद॑दे। तत्स॒त्यं यद॒हं ब्रवी॒म्यध॑रो॒ मत्प॑द्यस्वासौ॥२१॥
॥६॥