अध्ययनम्
- अनुक्रमणिका
- भाग्यसूक्तम्
- मूलम्
- याजुषमन्त्ररत्नाकरम् (मुद्रितग्रन्थः) पृष्ठम् ६१४ — मुद्रितग्रन्थस्य PDF-पाठात् स्वरसहितं यथावत् उद्धृतम्। कोष्ठकेषु सङ्ख्याः ग्रन्थस्य पृष्ठनिर्देशाः।
भाग्यसूक्तम्
प्रा॒तर॒ग्निं प्रा॒तरिन्द्र॑ꣳ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना᳚। प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रꣳ हु॑वेम। प्रा॒त॒र्जितं॒ भग॑मु॒ग्रꣳ हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता। आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑।
॥१॥भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑व॒दद॑न्नः। भग॒ प्रणो॑ जनय॒ गोभि॒रश्वै॒र्भग॒ प्रनृभि॑र्नृ॒वन्तः॑ स्याम। उ॒तेदानीं॒ भग॑वन्तः स्यामो॒त प्रपि॒त्व उ॒त मध्ये॒ अह्ना᳚म्। उ॒तोदि॑ता मघव॒न् सूर्य॑स्य व॒यं दे॒वाना॑ꣳ सुम॒तौ स्या॑म। भग॑ ए॒व भग॑वाꣳ अस्तु देवा॒स्तेन॑ व॒यं भग॑वन्तः स्याम।
॥२॥तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि॒ स नो॑ भग पुर ए॒ता भ॑वे॒ह। सम॑ध्व॒रायो॒षसो॑ नमन्त दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑। अ॒र्वा॒ची॒नं व॑सु॒विदं॒ भगं॑ नो॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ आव॑हन्तु। अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑तीः॒ सद॑मुच्छन्तु भ॒द्राः। घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ना यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः॥१५॥
॥३॥