मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

आशीर्मन्त्राः

आशीर्मन्त्राः. Also called ashir mantrah, Āśīrmantrāḥ. Svara-marked text on Vaidhika Dharma.

MD
अध्ययनम्
अनुक्रमणिका
संहिता निर्देशाः
मूलम्

तै॰सं॰ २.४.५

१५ अग्ने॒ गोभि॑र्न॒ आ ग॒हीन्दो॑ पु॒ष्ट्या जु॑षस्व नः । इंद्रो॑ ध॒र्ता गृ॒हेषु॑

नः ॥ स॒वि॒ता यः स॑ह॒स्रियः॒ स नो॑ गृ॒हेषु॑ रारणत् । आ पू॒षा ए॒त्वा वसु॑

॥ धा॒ता द॑दातु नो र॒यिमीशा॑नो॒ जग॑त॒स्पतिः॑ । स नः॑ पू॒र्णे न॑ वावनत् ॥

त्वष्टा॒ यो वृ॑ष॒भो वृषा॒ स नो॑ गृ॒हेषु॑ रारणत् । स॒हस्रे॑णा॒युते॑न

च ॥ येन॑ दे॒वा अ॒मृतं॑

१६ दी॒र्घ२ꣳ श्रवो॑ दि॒व्यैर॑यन्त । राय॑स्पोष॒ त्वम॒स्मभ्यं॒ गवां᳚

कु॒ल्मिं जी॒वस॒ आ यु॑वस्व ॥ अ॒ग्निर्गृ॒हप॑तिः॒ सोमो॑ विश्व॒वनिः॑ सवि॒ता

सु॑मे॒धाः स्वाहा᳚ । अग्ने॑ गृहपते॒ यस्ते॒ घृत्यो॑ भा॒गस्तेन॒ स ह॒ ओज॑

आ॒क्रम॑माणाय धेहि॒ श्रैष्ठ्या᳚त्प॒थो मा यो॑षं मू॒र्धा भू॑यास॒ग्ग्॒ स्वाहा᳚

॥ २। ४। ५॥ अ॒मृत॑म॒ष्टात्रिꣳ॑शच्चTS 2.4.5

॥१॥