अध्ययनम्
- अनुक्रमणिका
- संहिता निर्देशाः
- मूलम्
तै॰सं॰ ३.४.४
१५ चि॒त्तं च॒ चित्ति॒श्चाकू॑तं॒ चाकू॑तिश्च॒ विज्ञा॑तं च वि॒ज्ञानं॑ च॒
मन॑श्च॒ शक्व॑रीश्च॒ दर्श॑श्च पू॒र्णमा॑सश्च बृ॒हच्च॑ रथंत॒रं
च॑ प्र॒जाप॑ति॒र्जया॒निन्द्रा॑य॒ वृष्णे॒ प्राय॑च्छदु॒ग्रः पृ॑त॒नाज्ये॑षु॒
तस्मै॒ विशः॒ सम॑नमन्त॒ सर्वाः॒ स उ॒ग्रः स हि हव्यो॑ ब॒भूव॑ देवासु॒राः
संय॑त्ता आस॒न्थ्स इन्द्रः॑ प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒ताञ्जया॒न् प्राय॑च्छ॒त्
तान॑जुहो॒त्ततो॒ वै दे॒वा असु॑रानजय॒न्॒ यदज॑य॒न्तज्जया॑नां जय॒त्व२ꣳ
स्पर्ध॑मानेनै॒ते हो॑त॒व्या॑ जय॑त्ये॒व तां पृत॑नाम् ॥ ३। ४। ४॥ उप॒ पंच॑
विꣳशतिश्च ॥TS 3.4.4॥
॥१॥