अध्ययनम्
- अनुक्रमणिका
- तै॰ब्रा॰ ३.१२.९
- संहिता निर्देशाः
- मूलम्
- तैत्तिरीय-ऋग्वेदपाठः याजुषमन्त्ररत्नाकरानुसारेण। स्वरः गुरोः समीपे एव।
तै॰ब्रा॰ ३.१२.९
ऋ॒चां प्राची॑ मह॒ती दिगु॑च्यते।
दक्षि॑णामाहु॒र्यजु॑षामपा॒राम्।
अथ॑र्वणा॒मङ्गि॑रसां प्र॒तीची᳚।
साम्ना॒मुदी॑ची मह॒ती दिगु॑च्यते।
ऋ॒ग्भिः पू᳚र्वा॒ह्णे दि॒वि दे॒व ई॑यते।
य॒जु॒र्वे॒दे ति॑ष्ठति॒ मध्ये॒ अह्नः॑।
सा॒म॒वे॒देना᳚ऽस्तम॒ये मही॑यते।
वेदै॒रशू᳚न्यस्त्रि॒भिरे॑ति॒ सूर्यः॑।
ऋ॒ग्भ्यो जा॒ताꣳ स॑र्व॒शो मूर्ति॑माहुः।
सर्वा॒ गति॑र्याजु॒षी है॒व शश्व॑त्॥४९॥
सर्वं॒ तेजः॑ सामरू॒प्यꣳ ह॑ शश्वत्।
सर्वꣳ॑ हे॒दं ब्रह्म॑णा है॒व सृ॒ष्टम्।
ऋ॒ग्भ्यो जा॒तं वैश्यं॒ वर्ण॑माहुः।
य॒जु॒र्वे॒दं क्ष॑त्रि॒यस्या॑ऽऽहु॒र्योनिम्᳚।
सा॒म॒वे॒दो ब्रा᳚ह्म॒णानां॒ प्रसू॑तिः।
पूर्वे॒ पूर्वे᳚भ्यो॒ वच॑ ए॒तदू॑चुः।
आ॒द॒र्शम॒ग्निं चि॑न्वा॒नाः।
पूर्वे॑ विश्व॒सृजो॒ऽमृताः᳚।
श॒तं व॑र्षसह॒स्राणि॑।
दी॒क्षि॒ताः स॒त्रमा॑सत॥५०॥
तप॑ आसीद्गृ॒हप॑तिः।
ब्रह्म॑ ब्र॒ह्माऽभ॑वथ्स्व॒यम्।
स॒त्यꣳ ह॒ होतै॑षा॒मासी᳚त्।
यद्वि॑श्व॒सृज॒ आस॑त।
अ॒मृत॑मेभ्य॒ उद॑गायत्।
स॒हस्रं॑ परिवथ्स॒रान्।
भू॒तꣳ ह॑ प्रस्तो॒तैषा॒मासी᳚त्।
भ॒वि॒ष्यत्प्रति॑ चाहरत्।
प्रा॒णो अ॑ध्व॒र्युर॑भवत्।
इ॒दꣳ सर्व॒ꣳ॒ सिषा॑सताम्॥५१॥
अ॒पा॒नो वि॒द्वाना॒वृतः॑।
प्रति॒प्राति॑ष्ठदध्व॒रे।
आ॒र्त॒वा उ॑पगा॒तारः॑।
स॒द॒स्या॑ ऋ॒तवो॑ऽभवन्।
अ॒र्ध॒मा॒साश्च॒ मासा᳚श्च।
च॒म॒सा॒ध्व॒र्य॒वोऽभ॑वन्।
अ॒शꣳ॑स॒द्ब्रह्म॑ण॒स्तेजः॑।
अ॒च्छा॒वा॒कोऽभ॑व॒द्यशः॑।
ऋ॒तमे॑षां प्रशा॒स्ताऽऽसी᳚त्।
यद्वि॑श्व॒सृज॒ आस॑त॥५२॥
ऊर्ग्राजा॑न॒मुद॑वहत्।
ध्रु॒व॒गो॒पः सहो॑ऽभवत्।
ओजो॒ऽभ्य॑ष्टौ॒द्ग्राव्ण्णः॑।
यद्वि॑श्व॒सृज॒ आस॑त।
अप॑चितिः पो॒त्रीया॑मयजत्।
ने॒ष्ट्रीया॑मयज॒त्त्विषिः॑।
आग्नी᳚द्ध्राद्वि॒दुषी॑ स॒त्यम्।
श्र॒द्धा है॒वाय॑जथ्स्व॒यम्।
इरा॒ पत्नी॑ विश्व॒सृजा᳚म्।
आकू॑तिरपिनड्ढ॒विः॥५३॥
इ॒ध्मꣳ ह॒ क्षुच्चै᳚भ्य उ॒ग्रे।
तृ॒ष्णा चाऽऽव॑हतामु॒भे।
वागे॑षाꣳ सुब्रह्म॒ण्याऽऽसी᳚त्।
छ॒न्दो॒यो॒गान् वि॑जान॒ती।
क॒ल्प॒त॒न्त्राणि॑ तन्वा॒नाऽहः॑।
स॒ꣴ॒स्थाश्च॑ सर्व॒शः।
अ॒हो॒रा॒त्रे प॑शुपा॒ल्यौ।
मु॒हू॒र्ताः प्रे॒ष्या॑ अभवन्।
मृ॒त्युस्तद॑भवद्धा॒ता।
श॒मि॒तोग्रो वि॒शां पतिः॑॥५४॥
वि॒श्व॒सृजः॑ प्रथ॒माः स॒त्रमा॑सत।
स॒हस्र॑समं॒ प्रसु॑तेन॒ यन्तः॑।
ततो॑ ह जज्ञे॒ भुव॑नस्य गो॒पाः।
हि॒र॒ण्मयः॑ श॒कुनि॒र्ब्रह्म॒ नाम॑।
येन॒ सूर्य॒स्तप॑ति॒ तेज॑से॒द्धः।
पि॒ता पु॒त्रेण॑ पितृ॒मान् योनि॑योनौ।
नावे॑दविन्मनुते॒ तं बृ॒हन्तम्᳚।
स॒र्वा॒नु॒भुमा॒त्मानꣳ॑ सम्परा॒ये।
ए॒ष नि॒त्यो म॑हि॒मा ब्रा᳚ह्म॒णस्य॑।
न कर्म॑णा वर्धते॒ नो कनी॑यान्॥५५॥
तस्यै॒वाऽऽत्मा प॑द॒वित्तं वि॑दित्वा।
न कर्म॑णा लिप्यते॒ पाप॑केन।
पञ्च॑पञ्चा॒शत॑स्त्रि॒वृतः॑ संवथ्स॒राः।
पञ्च॑पञ्चा॒शतः॑ पञ्चद॒शाः।
पञ्च॑पञ्चा॒शतः॑ सप्तद॒शाः।
पञ्च॑पञ्चा॒शत॑ एकवि॒ꣳ॒शाः।
वि॒श्व॒सृजाꣳ॑ स॒हस्र॑संवथ्सरम्।
ए॒तेन॒ वै वि॑श्व॒सृज॑ इ॒दं विश्व॑मसृजन्त।
यद्विश्व॒मसृ॑जन्त।
तस्मा᳚द्विश्व॒सृजः॑।
विश्व॑मेना॒ननु॒ प्रजा॑यते।
ब्रह्म॑णः॒ सायु॑ज्यꣳ सलो॒कतां᳚ यन्ति।
ए॒तासा॑मे॒व दे॒वता॑ना॒ꣳ॒ सायु॑ज्यम्।
सा॒र्ष्टिताꣳ॑ समानलो॒कतां᳚ यन्ति।
य ए॒तदु॑प॒यन्ति॑।
ये चै॑न॒त्प्राहुः॑।
येभ्य॑श्चैन॒त्प्राहुः॑॥५६॥
ॐ॥ ॥TB 3.12.9॥
॥१॥